संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ३० विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ३० गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता मानवदेशविजयम् Translation - भाषांतर श्रीनारद उवाच -एवं हिरण्मयं खंडं जित्वा कार्ष्णिर्महाबलः ॥जगाम रम्यकं खंडं देवलोकमिव स्फुरन् ॥१॥तस्य सीमागिरिः साक्षान्नीलो नाम नगाधिराट् ॥तत्रोत्तरे कालदेशे नगरी भीमनादिनी ॥२॥कालनेमिसुतस्तत्र कलंको नाम राक्षसः ॥त्रेतायुगे रामचन्द्राद्भीतो युद्धात्पलायितः ॥३॥लंकापुर्य्या इहागत्य वासकृद्राक्षसैः सह ॥रक्षसामयुतेनासौ युद्धाय कृतनिश्चयः ॥४॥खरारूढः कृष्णवर्णो यदूनां बलमाययौ ॥यदूनां राक्षसानां च घोरं युद्धं बभूव ह ॥५॥प्रघोषो गात्रवान् सिंहो बलः प्रबल ऊर्ध्वगः ॥सह ओजो महाशक्तिरपराजित एव च ॥६॥लक्ष्मणानंदना ह्येते श्रीकृष्णस्य सुताः शुभाः ॥सर्वेषामग्रतः प्राप्ता बाणैस्तीक्ष्णैः स्फुरत्प्रभैः ॥७॥राक्षसानां बलं जघ्नुर्वायुवेगैर्यथा घनम् ॥बाणौघैश्छिन्नभिन्नांगा राक्षसा रणदुर्मदाः ॥८॥त्रिशूलानां मुद्गराणां वर्षं चक्रुर्मदोत्कटाः ॥कलंकस्तु तदा प्राप्तश्चर्वयन्वारणान् रथान् ॥९॥हयान्नरान्सशस्त्रास्त्रान्मुखे चिक्षेप सत्वरम् ॥गजान्पादेषु चोन्नीय सनीडान् रत्नकंबलान् ॥१०॥घंटानादसमायुक्तान्प्राक्षिपच्चांबरे बलात् ॥प्रघोषः श्रीहरेः पुत्रः कपींद्रास्त्रं समादधे ॥११॥तद्बाणनिर्गतः साक्षाद्वायुपुत्रो महाबलः ॥वातस्तूलमिवाकाशे चिक्षेप शतयोजनम् ॥१२॥हनुमंतं तदा ज्ञात्वा कलंको राक्षसेश्वरः ॥लक्षभारमयीं गुर्वीं गदां चिक्षेप नादयन् ॥१३॥उत्पपात कपिर्वेगाद्गदा भूमौ पपात ह ॥ऊत्पतन् वानराधीशो भ्रूभंगं कारयन्मुहुः ॥१४॥मुष्टिना घातयित्वा तं किरीटं तस्य चाददे ॥कलंकोऽपि तदा तस्मै त्रिशूलं स्वं समाददे ॥१५॥उत्पतन्स कपिर्वेगात् पृष्ठिदेशं पपात ह ॥हनुमांस्तं तदा दोर्भ्यां पातयित्वा महीतले ॥१६॥वैदूर्यपर्वतं नीत्वा तस्योपरि समाक्षिपत् ॥गिरिपातेन चूर्णांगो मर्दितः पंचतां ययौ ॥१७॥तदा जयजयारावः शंखध्वनियुतोऽभवत् ॥हनुमान् भगवान् साक्षात्तत्रैवांतरधीयत ॥१८॥प्रद्युम्नस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥अथ कार्ष्णिर्महाबाहुः स्वसैन्यपरिवारितः ॥१९॥मनोहरां स्वर्णमयीं मानवीं नगरीं ययौ ॥नैःश्रेयसवनं तत्र कल्पवृक्षलतावृतम् ॥२०॥हरिचंदनमंदारपारिजातोपशोभितम् ॥संतानमोदसंमिश्रवायुभिः सुरभीकृतम् ॥२१॥केतकीचंपकलताकुटजैः परिसेवितम् ॥माधवीनां लताजालैः पुष्पितैः सफलैर्वृतम् ॥२२॥नदद्विहंगालिकुलैर्वैकुंठमिव सुंदरम् ॥योजनानां पंचशतं लंबितं चारुधिं गिरिम् ॥२३॥अधोऽधः शोभितं राजञ्छतयोजनविस्तृतम् ॥पुंस्कोकिलैः कोकिलैश्च मयूरैः सारसैः शुकैः ॥२४॥चक्रवाकैश्चकोरैश्च हंसैर्दात्यूहकूजितम् ॥सर्वर्तुपुष्पशोभाढ्यमाक्षिपन्नंदनं वनम् ॥ २५॥मृगशावा रमंते वै शार्दूलैः सह मैथिल ॥नकुलाः फणिभिः सार्द्धं यत्र वैरविवर्जिताः ॥२६॥अयुतं सरसां यत्र भ्रमरध्वनिसंयुतम् ॥सहस्रपत्रैः कमलैः शतपत्रैः स्फुरत्प्रभैः ॥२७॥इतस्ततो वर्तमानमानंदमिव मूर्तिमत् ॥तद्वनं सुंदरं दृष्ट्वा निर्गतान्नगरीजनान् ॥पप्रच्छ वांछितं साक्षात्प्रद्युम्नः सर्ववित्कविः ॥२८॥श्रीप्रद्युम्न उवाच -कस्येयं नगरी रम्या कस्येदं वनमद्भुतम् ॥वदताशु सविस्तारं हे लोकाः पुण्यशासनाः ॥२९॥जना ऊचुः -वैवस्वतो मनुर्नाम यो ह्येवं वर्तते नृप ॥मानवे च गिरौ रम्ये मत्स्यं नारायणं हरिम् ॥३०॥वर्तमानं सदा नत्वा करोति विपुलं तपः ॥तस्येयं नगरी रम्या तस्य नैःश्रेयसं वनम् ॥३१॥वैकुण्ठाच्च समानीता भूमिश्चायं गिरिस्तथा ॥यूयं सर्वेऽपि राजानस्तस्य वंशभवाः क्षितौ ॥सूर्यवंशांतरे राजंश्चन्द्रवंशांतरे हि भोः ॥३२॥श्रीनारद उवाच -क्षत्रियाणां च सर्वेषां वृद्धं तं प्रपितामहम् ॥श्राद्धदेवं मनुं ज्ञात्वा विस्मितोऽभूद्धरेः सुतः ॥३३॥श्रुत्वा वचस्तदा सद्यो भ्रातृभिर्यदुभिर्वृतः ॥मानवाद्रिं समारुह्य श्राद्धदेवं ददर्श ह ॥३४॥शतसूर्यप्रभं कांत्या द्योतयंतं दिशो दश ॥महायोगमयं साक्षाद्राजेंद्रं शांतरूपिणम् ॥३५॥वेदव्यासशुकाद्यैश्च वसिष्ठधिषणादिभिः ॥परस्परं महाराज शृण्वन्तं श्रीहरेर्यशः ॥३६॥ननाम कर्ष्णिर्यदुभिः सहैव तंकृतांजलिस्तत्र समास्थितोऽभवत् ॥मनुः समुत्थाय हरेः प्रभाववि-द्दत्त्वाऽऽसनं गद्गदया गिराब्रवीत् ॥३७॥मनुरुवाच -नमस्ते वासुदेवाय नमः संकर्षणाय च ॥प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥३८॥अनादिरात्मा पुरुषस्त्वमेवत्वं निर्गुणोऽसि प्रकृतेः परस्त्वम् ॥सदा वशीकृत्य बलात्प्रधानंगुणैः सृजस्यत्सि च पासि विश्वम् ॥३९॥ततो विवेकं स विहाय सर्वतोमत्वाखिलं चात्र मनोमयं जगत् ॥मायापरं निर्गुणमादिपूरुषंसर्वज्ञमाद्यं पुरुषं सनातनम् ॥४०॥जागर्ति योऽस्मिञ्छयनं गते सतिनायं जनो वेद सतः परं तम् ॥पश्यंतमाद्यं पुरुषं हि यज्जनोन पश्यति स्वच्छमलं च तं भजे ॥४१॥यथा नभोऽग्निः पवनो न सज्जतेघटे न काष्ठे न रजोभिरावृतैः ॥तथा भवान्सर्वगुणैश्च निर्मलोवर्णैर्यथा स्यात्स्फटिको महोज्ज्वलः ॥४२॥व्यंगेन वा लक्षणया च वाक्पथै-रर्थं पदं स्फोटपरायणैः परम् ॥न ज्ञायते यद्धनिनोत्तमेन स-द्वाच्येन तद्ब्रह्म कुतस्तु लौकिकैः ॥४३॥वदन्ति केचिद्भुवि कर्मकतृ य-त्कालं च केचित्परयोगमेव तत् ॥केचिद्विचारं प्रवदन्ति यच्च त-द्ब्रह्मेति वेदांतविदो वदन्ति ॥४४॥यं न स्पृशंतीह गुणा न कालजाज्ञानेन्द्रियं चित्तमनो न बुद्धयः ॥महन्न वेदो वदतीति तत्परंविशंति सर्वेऽनलविस्फुलिंगवत् ॥४५॥हिरण्यगर्भं परमात्मतत्वंयद्वासुदेवं प्रवदन्ति संतः ॥एवंविधं त्वां पुरुषोत्तमोत्तमंमत्वा सदाहं विचराम्यसङ्गः ॥४६॥श्रीनारद उवाच -मनोर्वाक्यं तदा श्रुत्वा प्रद्युम्नो भगवान्हरिः ॥मन्दस्मितो मनुं प्राह गीर्भिः संमोहयन्निव ॥४७॥प्रद्युम्न उवाच -त्वं नो गुरुः क्षत्रियाणामादिराजः पितामहः ॥मत्पूजनीयो वृद्धोऽसि श्लाघ्यो धर्मधुरंधरः ॥४८॥वः प्रजाश्च वयं राजन् रक्ष्याः पाल्याश्च सर्वतः ॥भवता तप्यते दिव्यं तपस्तेन जगत्सुखम् ॥४९॥मृग्यस्त्वत्सदृशः साधुः परमात्मा हरिः स्वयम् ॥नृणामंतस्तमोहारी साधुरेव न भास्करः ॥५०॥श्रीनारद उवाच -इत्युक्त्वा भगवान् कार्ष्णिरनुज्ञाप्य प्रणम्य तम् ॥परिक्रम्य मनुं राजन् स्वयं भूमौ जगाम ह ।५१॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे मानवदेशविजयो नाम त्रिंशोऽध्यायः ॥३०॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP