संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः १९ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः १९ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कौरवोपाख्यानम् Translation - भाषांतर श्रीनारद उवाच -अथ कार्ष्णिर्महाबाहुर्ध्वजिनीभिः समन्वितः ॥नादयन्दुंदुभीन्दीर्घान्दीर्घवेगः कुरून् ययौ ॥१॥विंशतिर्योजनानां च मर्यादीकृततद्बले ॥तस्थौ तच्छिबिराणां च विस्तारो दशयोजनम् ॥२॥पंचयोजनमाश्रित्य तद्बले राजपद्धतिः ॥धनाढ्यानां च वैश्यानामापणानि सहस्रशः ॥३॥तथा रत्नपरीक्षाणां वस्त्रव्यापारकारिणाम् ॥काचकरा वायकाश्च रंगकाराः कुलालकाः ॥४॥कुंदकारास्तूलकाराः पटकारास्तथैव च ॥टंककाराश्चित्रकाराः पत्रकाराश्च नापिताः ॥५॥पट्टकारा रेतिकाराः पर्णकाराश्च शिल्पिनः ॥लाक्षाकारा मालिनश्च रजकास्तैलिनस्तथा ॥६॥तांबूलशोधिनस्तत्र चित्रपाषाणकर्मकाः ॥अन्नभर्जकरास्तत्र काचभेदिन एव हि ॥७॥मुक्तादीनां च रत्नानां सूक्ष्माणां रत्नवेधिनः ॥एते कारुजनाः सर्वे दृश्यंते राजपद्धतौ ॥८॥क्वचिद्भानुमतीर्लीला ऐंद्रजालविधायकाः ॥क्वचिन्नटाश्च नृत्यंते युद्धं भल्लूकयोः क्वचित् ॥९॥क्वचित्तु वानरी लीला डमरूवाद्यसंयुताः ॥गायंति कुत्रचिद्राजन्सूतमागधवन्दिनः ॥१०॥वारांगनाश्च नृत्यंति भूषैर्द्वादशभिर्युताः ॥दिव्यैः षोडशशृङ्गारैर्हरंत्यप्सरसां मनः ॥११॥बन्धूनामपि सेनानां महांतका गजाह्वये ॥चालनं संभ्रमोपेतं विह्वलैश्च जनैरभूत् ॥१२॥विदुद्रुवुर्जनाः सर्वे गृहेष्वापातितार्गलाः ॥कोलाहलो महानासीद्गेहे गेहे जने जने ॥१३॥वीर्य्यशौर्य्यबलोपेताः कौरवाश्चक्रवर्तिनः ॥आसमुद्राः क्षितीशेंद्रा जातास्तेऽप्यतिशंकिताः ॥१४॥प्रद्युम्नप्रेषितः साक्षादुद्धवो बुद्धिसत्तमः ॥कौरवेंद्रपुरं प्राप्तो धृतराष्ट्रं ददर्श ह ॥१५॥मदच्युतामास्य नृपस्य दंतिनांकस्तूरिकाकुंकुमगंडशालिनाम् ॥सिंदूरशुंडास्पदकर्णताडितैःषडङ्घ्रिभिर्मण्डितमंदिराजिरम् ॥१६॥यं भीष्मकर्णगुरुशल्यकृपैश्च भूरि-बाह्लीकधौम्यशकुनैः सह संजयेन ॥दुःशासनेन विदुरेण च लक्ष्मणेनदुर्योधनेन च कृपीसुतसोमदत्तैः ॥१७॥श्रीयज्ञकेतुसहितैः सहितं नृपेन्द्रंलीलातपत्रसितचामरहेमपीठैः ॥संसेवितं परिसमेत्य गजाह्वयेशंनत्वोद्धवः प्रणत आह कृतांजलिस्तम् ॥१८॥उद्धव उवाच -प्रद्युम्नेन प्रकथितं शृणु राजेंद्रसत्तम ॥उग्रसेनः क्षितीशेंद्रो यादवेंद्रो महाबलः ॥१९॥विजित्य नृपतीन्सर्वान् राजसूयं करिष्यति ॥प्रेषितस्तेन सेनाभिः प्रद्युम्नो रुक्मिणीसुतः ॥२०॥जेतुं महोद्भटान् वीराञ्जंबुद्वीपस्थितान्नृपान् ॥चैद्यशाल्वजरासंधदंतवक्त्रादिभूपतीन् ॥२१॥विजित्य चागतः कार्ष्णिस्तस्मै यच्छ बलिं बहु ॥उपायनं च दातव्यं बंधूनामैक्यकाम्यया ॥२२॥माभूत्कुरूणां वृष्णीनां कलिर्नोचेद्भविष्यति ॥तेनोदितं मे कथितं तत्क्षमस्व नृपेश्वर ॥दूतस्य हीनदोषस्य त्वयोक्तं यद्वदामि तत् ॥२३॥श्रीनारद उवाच -तच्छ्रुत्वा कौरवाः सर्वे राजन्संजातमन्यवः ॥वीर्य्यशौर्य्यमदोन्नद्धा उचुः प्रस्फुरिताधराः ॥२४॥कौरवा ऊचुःदुरत्यया कालगतिरहो चित्रमिदं जगत् ॥सिंहोपरि प्रधावंति शृगाला दुर्बला वने ॥२५॥अस्मत्सकाशात्संबंधा अस्मद्दत्तनृपासनाः ॥दातॄणां प्रतिकूलास्तु दातॄणां फणीनो यथा ॥२६॥वृष्णयो भीरवः सर्वे युधि विक्लवचेतसः ॥तथैव शासनं कर्तुं प्रवृत्ता हि गतह्रियः ॥२७॥उग्रसेनोऽल्पवीर्यश्च जंबूद्वीपस्थितान्नृपान् ॥विजित्याहो बलिं नीत्वा राजसूयं करिष्यति ॥२८॥यत्र भीष्मश्च कर्णश्च द्रोणो दुर्योधनादयः ॥तत्र त्वं प्रेषितो मंत्री प्रद्युम्नेन कुबुद्धिना ॥२९॥तस्माद्यात पुरीमध्ये यूयं वै जीवनेच्छया ॥न चेद्यास्यथ वः सर्वान्नयामो यमसादनम् ॥३०॥श्रीनारद उवाच -इत्थं श्रीकृष्णविमुखैः कौरवैः परिभाषितम् ॥श्रुत्वोद्धवः शम्बरारिमेत्य सर्वमुवाच ह ॥३१॥कौरवोक्तं वचः श्रुत्वा प्रद्युम्नो धन्विनां वरः ॥प्रतिशार्ङ्गं संगृहीत्वा रोषात्प्रस्फुरिताधरः ॥३२॥प्रद्युम्न उवाच -कौरवान्घातयिष्यामि बंधूनपि मदोद्धतान् ॥बाणैस्तीक्ष्णैर्यथा योगी नियमैर्देहजा रुजः ॥३३॥यदूनां सैन्यचक्रेषु बलिं यो न प्रदास्यति ॥कौरवेभ्योऽपि स पुमान् पितुर्मातुर्न चौरसः ॥३४॥श्रीनारद उवाच -तदैव यादवाः सर्वे भोजवृष्ण्यंधकादयः ॥गजाह्वयं ययुः सैन्यै राजन्संजातमन्यवः ॥३५॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे कौरवोपाख्यानं नामैकोनविंशोऽध्यायः ॥१९॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP