संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ३७ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ३७ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता हरिश्मश्रु दैत्यवधम् Translation - भाषांतर श्रीनारद उवाच -महानाभं मृतं श्रुत्वा सेनां वीक्ष्य पलायिताम् ॥दैत्यस्तिमिंगिलारूढो हरिश्मश्रुः समाययौ ॥१॥हरिश्मश्रुस्तदा दैत्यो रुषा प्रस्फुरिताधरः ॥उवाच परुषं वाक्यं यादवानां च शृण्वताम् ॥२॥हरिश्मश्रुरुवाच -यूयं सर्वेऽपि मे शक्त्या मनुष्याः स्वल्पविक्रमाः ॥शस्त्रैर्जयंतो दीना वै पौरुषं किं भवादृशे ॥३॥भवतां बलवान् कोऽपि विना शस्त्रं मया सह ॥करोतु मल्लयुद्धं वै पौरुषं येन दृश्यते ॥४॥श्रीनारद उवाच -इत्थं दैत्यवचः श्रुत्वा दृष्ट्वा तत्प्रोद्भटं वपुः ॥सर्वे बभूवुस्ते तूष्णीं प्रशंसंतः परस्परम् ॥५॥सर्वेषां पश्यतां भानुः सत्यभामात्मजो बली ॥त्यक्त्वा शस्त्राणी सहसा तस्थौ कृष्णं स्मरन् रणे ॥६॥तिमिंगिलात्समुत्तीर्य हरिश्मश्रुर्महाबलः ॥तस्थौ तत्संमुखे राजन् भुजमास्फोट्य यत्नतः ॥७॥भुजाभ्यां च भुजौ बद्ध्वा नोदनां चक्रतुर्बलात् ॥दंतैर्गजाविव वने प्रहरन्तौ परस्परम् ॥८॥नोदयामास तं भानुं स दैत्यः शतयोजनम् ॥भुजाभ्यां राजराजेद्र सिंहः सिंहमिवौजसा ॥९॥ततः पुनः कृष्णसुतो हरिश्मश्रुं महासुरम् ॥नोदयामास सहसा सहस्रं योजनं बलात् ॥१०॥कन्धरे स्वभुजां कृत्वा कटौ च विनिधाय तम् ॥भानुं जानौ संगृहीत्वा पातयामास दैत्यराट् ॥११॥भानुस्तं पृष्ठदेशेऽपि सन्निधाय भुजौजसा ॥गृहीत्वा जंघयोर्दैत्यं पातयामास भूतले ॥१२॥अथ तौ पुनरुत्थाय भुजवास्फोट्य तस्थतुः ॥त्वरं तौ बलिनौ राजन्सुपर्णफणिनाविव ॥१३॥दैत्यो भुजौजसा नीत्वा भानुं श्रीकृष्णनन्दनम् ॥चिक्षेप धृत्वा चरणावाकाशे लक्षयोजनम् ॥१४॥आकाशात्पतितो भानुः किंचिद्व्याकुलमानसः ॥प्रह्लाद इव शैलांगाद्रक्षिता कृपया हरेः ॥१५॥हरिश्मश्रुं संगृहीत्वा दीर्घश्मश्रौ हरेः सुतः ॥भ्रामयित्वाथ चिक्षेप व्योम्नि तं लक्षयोजनम् ॥१६॥आकाशात्पतितः सोऽपि किंचिद्व्याकुलमानसः ॥मुखे कृत्वा स्वकं कूर्चं मुष्टिना तं तताड ह ॥१७॥मुष्टामुष्टि रणं राजन् बभूव घटिकाद्वयम् ॥निष्पिष्टांगो हरिश्मश्रुर्ग्रावाणं भानुमूर्द्धनि ॥१८॥चिक्षेप च महावेगाद्रक्ताक्षः क्रोधमूर्च्छितः ॥भानुर्द्रुमं संगृहीत्वा प्राक्षिपत्तस्य मस्तके ॥१९॥सोऽपि द्रुमं संगृहीत्वा प्राहिणोद्भानुमूर्द्धनि ॥हरिश्मश्रुर्महादैत्यो रक्ताक्षः क्रोधमूर्च्छितः ॥२०॥गजं गृहीत्वा शुण्डायां तेन भानुं तताड ह ॥भानुश्चान्यं गजं नीत्वा गृहीत्वा तद्गजं करे ॥२१॥हरिश्मश्रुं महादैत्यं गजेनाभ्यहनद्दृढम् ॥चीत्कारमथ कुर्वंतं गजं नीत्वा निपात्य तम् ॥२२॥तस्य दन्तौ समुत्पाट्य ताभ्यां भानुं तताड ह ॥भानुमाकाशवागाह कूर्चे मृत्युः किलास्य च ॥२३॥वरेण शिवदत्तेन प्रोज्झितोऽयं महासुरः ॥इति श्रुत्वा वचो भानुर्धावन् क्रोधप्रपूरितः ॥२४॥संगृहीत्वा भुजाभ्यां तं पादयोः प्रणदन्मुहुः ॥भ्रामयित्वा महाराज सर्वेषां पश्यतां सताम् ॥२५॥पातयामास भूपृष्ठे कमण्डलुमिवार्भकः ॥मुखात्कूर्चं समुन्नीय समुत्पाट्य करौजसा ॥२६॥तताड मुष्टिना मूर्ध्नि हरिश्मश्रुं महासुरम् ॥तदा मृत्युं गते दैत्ये हरिश्मश्रौ नृपेश्वरः ॥२७॥देवदुन्दुभयो नेदुर्नरदुन्दुभयस्तथा ॥अभूज्जयजयरावो ननृतुर्देवनायकाः ॥ २८॥प्रसन्ना दिविजा राजन्पुष्पवर्षं प्रचक्रिरे ॥इत्थं श्रीकृष्णपुत्राणां विक्रमः परमाद्भुतः ॥२९॥मया ते कथितः पुण्यः किं भूयः श्रोतुमिच्छसि ॥३०॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे हरिश्मश्रुदैत्यवधो नाम सप्तत्रिंशोऽध्यायः ॥३७॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP