विश्वजितखण्डः - अध्यायः ४
गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.
श्रीनारद उवाच -
इत्थं सेनावृतं वीराः प्रद्युम्नं धन्विनां वरम् ॥
श्रीकृष्णबलदेवाभ्यामुग्रसेन उवाच ह ॥१॥
उग्रसेन उवाच -
हे प्रद्युम्न महाप्राज्ञ श्रीकृष्णकृपया त्वरम् ॥
विजित्य नृपतीन् सर्वान् द्वारकामागयिष्यसि ॥२॥
मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं जडं स्त्रियम् ॥
प्रपन्नं विरथं भीतं न रिपुं हंति धर्मवित् ॥३॥
राज्ञो हि परमो धर्म आर्तानामार्तिनिग्रहः ॥
उत्पथानां वधश्चेत्थमाततायी वधार्हणः ॥४॥
पुमान् योषिदुत क्लीब आत्मसंभावितोऽधमः ॥
भूतेषु निरनुक्रोशो नृपाणां तद्वधोऽवधः ॥५॥
नैनो राज्ञः प्रजाभर्तु-र्धर्मयुद्धे वधो द्विषाम् ॥
आदिराज्ञो नृपान्पूर्वं प्राह स्वायंभुवो मनुः ॥६॥
यो रणे निर्भयो भूत्वा कृत्वाङ्घ्रिं प्रागतो व्यसुः ॥
स गच्छेद्धाम परमं भित्वा मार्तंडमंडलम् ॥७॥
भयाद्रणादुपरतस्त्यक्त्वा युद्धे पतिं च यः ॥
व्रजेद्यः क्षत्रियो भूत्वा स महारौरवं व्रजेत् ॥८॥
सेनां रक्षेत्तु राजा हि सेना राजानमेव हि ॥
सूतः कृच्छ्रगतं रक्षेद्रथिनं सारथिं रथी ॥९॥
यूयं च यादवाः सर्वे समर्थबलवाहनाः ॥
कार्ष्णिमेवाभीरक्षंतु कार्ष्णिर्वः परिरक्षतु ॥१०॥
गावो विप्राः सुरा धर्मच्छंदांसि भुवि साधवः ॥
पूजनीयाः सदा सर्वैर्मनुष्यैर्मोक्षकांक्षिभिः ॥११॥
वेदा विष्णुवचो विप्रा मुखं गावस्तनुर्हरेः ॥
अंगानि देवताः साक्षात्साधवो ह्यसवः स्मृताः ॥१२॥
श्रीकृष्णोऽयं हरिः साक्षात्परिपूर्णतमः प्रभुः ॥
येषां चित्ते स्थितो भक्त्या तेषां तु विजयः सदा ॥१३॥
श्रीनारद उवाच -
शिरसा जगृहुः साक्षादुग्रसेनस्य शासनम् ॥
प्रणेमुर्यादवाः सर्वे कृतांजलिपुटा नृप ॥१४॥
उग्रसेनं नृपं शूरं वसुदेवं बलं हरिम् ॥
ननाम कार्ष्णिः शिरसा गर्गाचार्यं महामुनिम् ॥१५॥
श्रीकृष्णबलदेवाभ्यां पुरीं याते नृपेश्वर ॥
दिग्जयार्थी हरेः पुत्रः प्रययौ यादवैः सह ॥१६॥
चतुर्योजनलम्बीत्थं राजमार्गोऽपि यस्य वै ॥
बभौ हेममयैः सर्वैः शिबिरैर्मैथिलेश्वर ॥१७॥
अग्रतो वाहिनीयुक्तः कृतवर्मा महाबलः ॥
ध्वजिनीसहितः पश्चादक्रूरो धन्विनां वरः ॥१८॥
तत्पश्चादुद्धवो मंत्री प्रतिमापंचसंयुतः ॥
तत्पश्चात्कृष्णचंद्रस्य सुतास्त्वष्टादश स्मृताः ॥१९॥
ययुर्महारथा राजन् ये शताक्षौहिणीयुताः ॥
प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान्भानुरेव च ॥२०॥
सांबो मधुर्बृहद्भानुश्चित्रभानुर्वृकोऽरुणः ॥
पुष्करो वेदबाहुश्च श्रुतदेवः सुनंदनः ॥२१॥
चित्रभानुर्विरूपश्च कविर्न्यग्रोध एव च ॥
तत्पश्चात्प्रययुः सर्वे गदाद्याः कृष्णनोदिताः ॥२२॥
भोजवृष्ण्यंधकमधु-शूरसेनदशार्हकाः ॥
ऋतुबाणकोटिसंख्या यादवानां प्रकथ्यते ॥
तत्सैन्यसंख्यां नृपते कः करिष्यति भूमिषु ॥२३॥
इत्थं यदूनां चलतां नृपाणां
विकर्षतां तां महतीं च सेनाम् ॥
कोदंडटंकारयुतोऽभवत्कौ
धुंकार आताडित दुंदुभीनाम् ॥२४॥
इभेंद्रचीत्कारहयेंद्रहेषणै-
र्नदद्भुशुंडीदृढवीरगर्जनैः ॥
ढक्कानिनादैर्यदवस्तडित्स्वनैः
प्रचंडमेघा इव ते विडिंडिरे ॥२५॥
राजद्भुवो मंडलमेव दिग्गजा
महत्स्वनैस्ते बधिरीकृता इव ॥
सद्योऽथ दुर्गं रिपवो विदुद्रुवु-
र्निःसाहसाः कौ चलतां महात्मनाम् ॥२६॥
कूर्मास्तु किं काविति के वदंतः
कुतः क्व गच्छाम इति द्रवंतः ॥
उपद्रवो ह्येष विधे क्व याति
चचाल लोकैः सहिता चलेति ॥२७॥
छलेन यज्ञस्य हरिः परेश्वरो
भारं विदेहेश भुवोऽवतारयन् ॥
योऽभूच्चतुर्व्यूहधरो यदोः कुले
तस्मै नमोऽनंतगुणाय भूभृते ॥२८॥
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे प्रद्युम्नदिग्विजयार्थं गमनं नाम चतुर्थोऽध्यायः ॥४॥
N/A
References : N/A
Last Updated : May 21, 2021
TOP