संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ३३ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ३३ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता भूतसन्तापनदैत्यवधम् Translation - भाषांतर श्रीनारद उवाच -हृष्टं निपतितं श्रुत्वा शकुनिः क्रोधमुर्छितः ॥भ्रातॄन्संप्रेषयामास देवानां भयकारकान् ॥१॥भूतसंतापनो नाम गजमारुह्य निर्गतः ॥वृकः खरं समारुह्य कालनाभोऽथ सूकरम् ॥२॥महानाभो मत्तपुष्टं हरिश्मश्रुस्तिमिंगिलम् ॥वैजयंतं रथं जैत्रं मयदैत्यविनिर्मितम् ॥३॥पंचयोजनविस्तीर्णं सहस्राश्वनियोजितम् ॥मायामयं कामगं च पताकाशतसंवृतम् ॥४॥सहस्रकलशाढ्यं च मुक्तादामविलंबितम् ॥रत्नभूषणभूषाढ्यं शतचंद्रसमोज्ज्वलम् ॥५॥सहस्रचक्रसंयुक्तम् घंटाकारविभूषणम् ॥आरुह्य शकुनिः पश्चाद्योद्धुकामो विनिर्ययौ ॥६॥अक्षौहिणीभिर्द्वादशभिर्दैत्यानां मैथिलेश्वर ॥धनुःस्वनैर्वीरशब्दैरश्वहेषारथस्वनैः ॥७॥चीत्कारैर्हस्तिनामाशामण्डलं तु जगर्ज ह ॥दैत्यसेनाप्रयाणेन चकंपे मण्डलं भुवः ॥८॥निपेतुर्गिरयोऽनेका विचेलुः सिंधवो नृप ॥निपातितार्गला देवैर्बभूवाश्वमरावती ॥९॥तत्सैन्यं भीषणं दृष्ट्वा प्रद्युम्नो धन्विनां वरः ॥बली धैर्यधरः कार्ष्णिः प्राहेदं यदुपुंगवान् ॥१०॥प्रद्युम्न उवाच -इदं शरिरं भुवि पांचभौतिकंफेनोपमं कर्मगुणादिनिर्मितम् ॥गतागतं कालवशं कदापिबुधा न शोचंति यथार्भकैः कृतम् ॥११॥गच्छंति चोर्ध्वं किल सात्विका जनामध्ये च तिष्ठंति हि राजसा नराः ॥अधः प्रगच्छंति हि तामसाः परेमुहुर्मुहुस्ते विचरंति कर्मभिः ॥१२॥बिभेत्ययं वा किल सर्वतो यथानेत्रभ्रमेणाचलतीव भूर्वृथा ॥तथा च सर्वं मनसा कृतं जग-त्काचेऽर्भकं ह्यभर्क आवृतो यथा ॥१३॥यथा सुखं मंडलवर्तिनां चलंतथास्ति पातालनिवासिनामपि ॥तथामराणां क्रतुभिः कृतं स्मरे-त्सर्वं त्यजेत्ततृणवत्परो जनाः ॥१४॥ऋतोर्गुणा देहगुणाः स्वभावाअहर्दिनं यांति यथा तथा जनः ॥दृश्यं च यद्यन्न हि किंचिदस्तियथा व्रजे गच्छति पांथसंगमम् ॥१५॥दृष्टं यथा वस्तु यदोल्कया तथापरे गते किं ह्युभयप्रयोजनम् ॥विधाय मार्गं विचरेच्छिवस्यपश्यन्हि सर्वत्र हरिं परेश्वरम् ॥१६॥यथेंदुरेको जलपात्रवृन्दगोयथाग्निरेको विदितः समिच्चये ॥तथा परात्मा भगवाननेकव-त्सोऽन्तर्बहिः स्यात्सुकृतेषु देहिषु ॥१७॥यो ज्ञाननिष्ठोऽतिविरागमाश्रितःश्रीकृष्णभक्तस्त्वनपेक्षकोऽपि यः ॥तपोवनं वापि गृहं गृहं वनंस्पृशंति तं ते त्रिगुणा न सर्वतः ॥१८॥ततो यतिस्त्वध्यगमत्परात्परंसुखी सदाऽऽनन्दमयस्तु बालवत् ॥देहेन पश्यत्युत सर्वकारणंधृतं च वासो मदिरामदांधवत् ॥१९॥सूर्योदये सर्वतमो विलियतेप्रदृश्यते वस्तु गृहे यथा जनैः ॥ज्ञानोदयेऽज्ञानतमः प्रलीयतेसंभ्राजते ब्रह्म परं तनौ तथा ॥२०॥यथेन्द्रियाणां च पृथक् च वर्त्मभि-र्नोन्नीयतेऽर्थस्त्रिगुणाश्रयः परः ॥एकं ह्यनंतस्य परस्य धाम त-त्तथा मुनीनां किल शास्त्रवर्त्मिभिः ॥२१॥परं पदं केऽपि वदन्ति वैष्णवंके वापि वैकुण्ठपरं परेशम् ॥शांतिं च यत्केऽपि तमःपरं बृह-त्कैवल्यमेके प्रवदन्ति धामके ॥२२॥यदक्षरं केऽपि दिशं वदंति केगोलोकमाद्यं प्रवदन्त्यथापरे ॥केचिन्निकुञ्जं निजलीलयाऽऽवृतंप्राप्नोति कृष्णस्य पदं च तन्मुनिः ॥२३॥श्रीनारद उवाच -इति कार्ष्णेर्वचः श्रुत्वा सर्वे यादवपुंगवाः ॥शस्त्राणि जगृहुर्हृष्टा तज्ज्ञाने धैर्यवर्द्धने ॥२४॥बभूव तुमुलं युद्धं दैत्यानां यदुभिः सह ॥सीतागंगातटे चाब्धौ रक्षसां कपिभिर्यथा ॥२५॥रथिनो रथिभिस्तत्र पत्तिभिः पत्तयो नृप ॥अश्ववाहैरश्ववाहा युयुधुश्च गजा गजैः ॥२६॥केचित्करींद्रा उन्मत्ता महामात्यैः प्रणोदिताः ॥गिरीन्द्रा इव दृश्यन्ते मुक्तानां मेघडंबरैः ॥२७॥शुण्डादण्डैश्च फूत्कारैः सचीत्कारैः सशृङ्खलैः ॥पातयंतो रथानश्वान् वीरान् राजन् रणांगणे ॥२८॥शुण्डादण्डैः संगृहीत्वा रथान्साश्वान्ससारथीन् ॥निपात्य भूमावुत्थाप्य चिक्षिपुश्चांबरे बलात् ॥२९॥कांश्चिन्ममर्दुः पादाभ्यां संविदार्य करैर्दृढैः ॥सक्षताश्च गजा राजन्प्रधावन्तो रणांगणे ॥३०॥सपक्षतुरगा राजन्नश्ववाहप्रणोदिताः ॥उल्लङ्घयन्तोऽथ रथान् गजकुम्भांतरे गताः ॥३१॥केचिदश्वैर्महावीराः शक्तिहस्ता मदोत्कटाः ॥जघ्नुर्गजस्थान्नृपतीन्मृगेंद्रा इव यूथपान् ॥३२॥अश्वारूढाः केऽपि सेनां संविदार्य विनिर्गताः ॥खड्गवेगैः पद्मवनं लीलाभिर्वायवो यथा ॥३३॥केचित्परस्परं साश्वैरुत्पतन्तो रणांगणे ॥खड्गैर्जघ्नुर्यथा क्रव्ये चंचुभिः पक्षिणोऽम्बरे ॥३४॥केचित्खड्गैः परशुभिः केचिच्चक्रैः पदातयः ॥चिच्छिदुर्निशितैर्भल्लैर्फलानीव शिरांसि च ॥३५॥संग्रामजिद्बृहत्सेनः शूरः प्रहरणो विजित् ॥जयः सुभद्रो वामश्च सत्यकोऽश्वयुरेव हि ॥३६॥भद्रायाश्च सुता ह्येते श्रीकृष्णस्यौरसाः शुभाः ॥सर्वेषामग्रतः प्राप्ता युयुधुर्दैत्यपुंगवैः ॥३७॥भूतसंतापनो नाम गजारूढो महासुरः ॥यदुसैन्ये महाराज चक्रे नाराचदुर्दिनम् ॥३८॥बाणांधकारे च कृते भूतसंतापनेन वै ॥संग्रामजित्तदा प्राप्तः श्रीकृष्णस्य सुतो बली ॥३९॥विव्याध बाणशतकैर्भूतसंतापनो बली ॥प्रलयार्णवसंघोष-भीमसंघट्टनादिनीम् ॥४०॥धनुर्ज्यां तस्य चिच्छेद भूतसंतापनो बली ॥संग्रामजिद्धनुश्चान्यद्-गृहीत्वा स्वं तडित्प्रभम् ॥४१॥सज्जं कृत्वा विधानेन शतं बाणान्समादधे ॥ते बाणास्तद्धनुर्ज्यां च कवचं लोहनिर्मितम् ॥४२॥भित्वा छित्वा तनुं तस्य गजं भित्वावनिं गताः ॥बाणप्रहारव्यथितः किंचिद्व्याकुलमानसः ॥४३॥गजं स्वं नोदयामास भूतसन्तापनो बली ॥कालांतकसमं नागं दृष्ट्वा संग्रामजिद्बली ॥४४॥गृहीत्वा स्वमसिं दिव्यं संजघान रणांगणे ॥तस्य खड्गप्रहारेण शूण्डादण्डो द्विधाभवत् ॥४५॥चीत्कारमुत्कटं कुर्वन् मदं संस्रावयन्कटात् ॥भूतसंतापनं त्यक्त्वा भुवनं कंपयन् गजः ॥४६॥निपातयन्महावीरान्घंटानादैर्नदन्मुहुः ॥न बलात्स्तंभितो दैत्यैः पुरीं चंद्रावतीं ययौ ॥४७॥कोलाहलो महानासीद्व्रजन्नेवं गजे च्युते ॥भूतसंतापनश्चक्रं श्रीकृष्णस्य सुताय वै ॥४८॥चिक्षेप निशितं शीघ्रं ग्रीष्ममार्तंडवत्स्फुरत् ॥तदागतं भ्रमद्दृष्ट्वा चक्रं भद्रात्मजो बली ॥४९॥स्वचक्रेण महाराज लीलया शतधाच्छिनत् ॥जठरस्य गिरेः शृङ्गं समुत्पाट्य महासुरः ॥५०॥चिक्षेप कृष्णपुत्राय नादयन् व्योममंडलम् ॥संग्रामजिच्च तच्छृङ्गं गृहीत्वा भुजयोर्बलात् ॥५१॥तताड तेन राजेंद्र भूतसन्तापनं रणे ॥भूतसन्तापनो दैत्यः संपूर्णं जठरं गिरिम् ॥५२॥गृहीत्वा संगरे तस्थावुद्भटो दैत्यपुंगवः ॥अनेन घातयिष्यामि त्वां रणे प्रवदन्मुखात् ॥५३॥देवकूटं समुत्पाट्य गिरिं च श्रीहरेः सुतः ॥अनेन घातयिष्यामि त्वां रणे प्रवदन्मुखात् ॥५४॥तस्थौ तत्सम्मुखे राजंस्तदद्भुतमिवामवत् ॥क्षिपन्तं पर्वतं दैत्यं भूतसन्तापनं नृप ॥५५॥तताड गिरिणा स्वेन रणे संग्रामजिद्बली ॥जठरो देवकूटश्च द्वौ गिरी दैत्यमस्तके ॥५६॥पतितौ भूरिभाराढ्यौ वज्रसंघर्षनादिनौ ॥५७॥भूतसन्तापनस्ताभ्यां पतितः पञ्चतां गतः ॥तज्ज्योतिः संग्रामजिति लीनं जातं विदेहराट् ॥ ५८॥श्रीसंग्रामजितः सैन्ये नेदुर्दुंदुभयस्तदा ॥भद्रात्मजोपरी सुराः पुष्पवर्षं प्रचक्रिरे ॥५९॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे भूतसन्तापनदैत्यवधो नाम त्रयस्त्रिंशोऽध्यायः ॥३३॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP