संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः २६ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः २६ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता किंपुरुषखण्ड विजयम् Translation - भाषांतर श्रीनारद उवाच -अथ कार्ष्णिं परान्देशान्दिव्यद्रुमलताकुलान् ॥सहस्रपत्रवद्भिश्च सरोभिः शोभितान् ययौ ॥१॥अक्षौहीणीशतयुतः प्रद्युम्नश्चण्डविक्रमः ॥यक्षैर्दिष्टेन मार्गेण खण्डं किंपुरुषं ययौ ॥२॥रंगवल्लीपुरं यत्र हेमकूटगिरेरधः ॥तस्य किंपुरुषा उचुः शंबरारेश्च शृण्वतः ॥३॥किंपुरुषा ऊचुः -अहोऽतिधन्या मथुरापुरी वराबभूव यस्यां परमेश्वरो हरिः ॥अहोऽतिधन्यं सततं यदोः कुलंजातो हि यस्मिन्नखिलांडपालकः ॥४॥धन्यं च तच्छूरसुतस्य मन्दिरंगोलोकनाथेन मनोहरं कृतम् ॥धन्यं परं माथुरमंडलं सुरैःसुदुर्लभं यत्र चचार माधवः ॥५॥महावनं धन्यतमं मनोहरंपितुर्गृहाद्यत्र गतो हरिः शिशुः ॥चचार कृष्णः शिशुना बलेन हियशोदया दुग्धमुखः सुलालितः ॥६॥वृंदावनं पुण्यतमं परात्पर-श्रीकृष्णपादांबुजरेणुराजितम् ॥गाः पालयन् यत्र चचार बलोगोपालबालैः सबलः स्वयं हरिः ॥७॥यो दानलीलां किल मानलीलांश्रीरासलीलां व्रजसुन्दरीभिः ॥वृन्दावने यत्र चचार कृष्णोयस्यापि गायन्ति यशस्त्रिलोकाः ॥८॥अहोऽतिधन्या वृषभानुनंदिनीलीलावती सा निजलोकशालिनी ॥चचार कृष्णेन कलिन्दनन्दिनी-तटे मिलिन्दध्वनिसंकुले वने ॥९॥अहोऽतिधन्याऽस्ति कलिन्दनंदिनीश्रीकृष्णवामांससमुद्भवा या ॥तटे मिलिन्दध्वनिसंकुले वटेतत्स्पर्शनाद्याति नरः कृतार्थताम् ॥१०॥समुद्भवो यो हरिवक्षसो गिरि-र्गोवर्द्धनो नाम गिरींद्रराजराट् ॥विराजते स व्रजमंडले परोयद्दर्शनाञ्जन्म पुनर्न विद्यते ॥११॥अहोऽतिधन्या यदुमण्डलीभि-र्विराजते भूमितले मनोहरा ॥वैकुण्ठलीलाधिकृता कुशस्थलीयथा तडिद्भिर्जलदावलिर्दिवि ॥१२॥यत्रैव साक्षात्पुरुषः परेश्वरोधृत्वा चतुर्व्यूहमलं विराजते ॥यस्तूग्रसेनाय ददौ नृपेशतांकृष्णाय तस्मै हरये नमो नमः ॥१३॥प्रणोदितस्तेन नृपेण धीमताजगद्विजेतुं मकरध्वजो महान् ॥कृत्वाथ तद्दर्शनमद्य दुर्लभंवयं कृतार्था हि भवेम सर्वतः ॥१४॥श्रीनारद उवाच -इत्थं हरिर्नृपयशो विशदैश्चरित्रै-रुद्यत्त्रिलोकमलं विशदीचकार ॥पूर्णेंदुरश्मिमिलितैस्तरलैः स्फुरद्भिःप्रोद्यद्भिरुद्गज इवामलसिंधुदुग्धम् ॥१५॥इत्थं यशः स्वममलं नृप शंबरारिःश्रुत्वातिहर्षिततनुः प्रददौ धनानि ॥केयुरहारनवरत्नमनोहराणितेभ्यः किरीटमणिकुण्डलकंकणानि ॥१६॥रङ्गवल्लीपुराधीशः सुबाहुश्चन्द्रवंशजः ॥नत्वा बलिं ददौ सोऽपि प्रद्युम्नाय महात्मने ॥१७॥तस्मै प्रसन्नो भगवान् प्रद्युम्नो मीनकेतनः ॥दत्वा चूडामणिं दिव्यं पप्रच्छेदं महामनाः ॥१८॥श्रीप्रद्युम्न उवाच -रङ्गवल्लीपुरस्यापि नाम केन प्रकाशितम् ॥एतद्ब्रूहि सुबाहो मे श्रुतं पूर्वं त्वया किल ॥१९॥सुबाहुरुवाच -देवासुरैः पुरा राजन्मथितः क्षीरसागरः ॥विनिर्गतानि मथनाद्रत्नानि च चतुर्दश ॥२०॥निःसृतं कलशं तस्मात्सुधापूर्णं मनोहरम् ॥तं ददर्श हरिः साक्षान्नेत्राभ्यां पुष्करेक्षणः ॥२१॥तन्नेत्रहर्षबिन्दुश्च कलशे निपपात ह ॥तस्माद्वृक्षः समुद्भुतस्तुलसीति प्रकथ्यते ॥२२॥रङ्गवल्लीति तन्नाम चकार मधुसूदनः ॥अत्र किंपुरुषे खंडे हेमकूटगिरेरधः ॥२३॥तस्याश्च रङ्गवल्याः कौ स्थापनां स चकार ह ॥रङ्गवल्लीमहावृक्षः सदात्रैव विराजते ॥२४॥तन्नाम्ना प्रसिद्धमभूद्रंगवल्लीपुरं त्विदम् ॥अत्र नित्यं हि हनुमानार्ष्टिषेणेन रागिणा ॥२५॥दर्शनार्थं समायाति महात्मा रामपूजकः ॥श्रीनारद उवाच -इति श्रुत्वा शम्बरारी रङ्गवल्लीं मनोहरम् ॥२६॥दृष्ट्वा प्रदक्षिणीकृत्य देशानन्याञ्जगाम ह ॥हेमकूटतटीभूतं वनं प्राप्तं भयङ्करम् ॥२७॥झिल्लीझंकारसंयुक्तं सिंहचित्रकनादितम् ॥वन्यैः करींद्रैः संयुक्तं शिवोलूकरुतावृतम् ॥२८॥कीचकाश्वत्थमन्दार-वटभूर्जसमाकुलम् ॥कृष्णाहरीतकीवल्ली-बदरैः सघनं वनम् ॥२९॥तस्माद्विनिर्गतः सर्पो दशयोजनलंबितः ॥अग्रसद्गजवृंदानि फूत्कारं कारयन्मुहुः ॥३०॥हाहाकारे तदा जाते सेनायां मैथिलेश्वर ॥प्रचंडगरलैर्वातैर्भस्मीभूते दिशांतरे ॥३१॥भानुः सुभानुः स्वर्भानुः प्रभानुर्भानुमांस्तथा ॥चंद्रभानुर्बृहद्भानुरतिभानुस्तथाऽष्टमः ॥३२॥श्रीभानुः प्रतिभानुश्च सत्यभामात्मजा दश ॥एते जघ्नुः शरैस्तीक्ष्णैः सर्पं रौद्रं मदोत्कटम् ॥३३॥बाणैः संभिन्नसर्वांगः पतितो धरणीतले ॥सर्परूपं विहायाशु गंधर्वोऽभूत्स्फुरद्द्युति ॥३४॥नत्वा श्रीकृष्णपुत्रांस्तान् द्योतयन् मंडलं दिशाम् ॥पुष्पैर्वर्षत्सु देवेषु विमानेन दिवं ययौ ॥३५॥बहुलाश्व उवाच -गंधर्वोऽयं तु कः पूर्वं केन पापेन सर्पताम् ॥प्राप्तः कथं वद मुने त्वं परावरवित्तमः ॥३६॥श्रीनारद उवाच -आर्ष्टिषेणस्य यो भ्राता सुमतिर्नाम सुन्दरः ॥रामायणं हनुमता पठितुं स समागतः ॥३७॥हेमकूटे हनुमतः कुर्वतो रामसेवनम् ॥प्रातःकालात्समारभ्य घटिकाश्च चतुर्दश ॥३८॥सलक्ष्मणं रामचंद्रं ध्यायतो जानकीपतिम् ॥फूत्कारैः सर्पवत्तस्य ध्यानभंगं चकार ह ॥३९॥तदा क्रुद्धो महावीरो हनुमान् वानरेश्वरः ॥शापं ददौ सुमतये त्वं सर्पो भव दुर्मते ॥ ४०॥तदैव तस्य चरणौ नत्वा प्राह कृतांजलिः ॥हे देव पाहि पाहीति दीनं मां शरणं गतम् ॥४१॥अथ प्रसन्नो भगवान्सुमतिं प्राह धर्मवित् ॥द्वापारांते शरैस्तीक्ष्णैर्हरिपुत्रधनुश्च्युतैः ॥भिन्नदेहः स्वां प्रकृतिं यास्यसि त्वं न संशयः ॥४२॥गंधर्वः सुमतिर्नाम विमुक्तोऽभूद्विदेहराट् ॥सतां शापोऽपि वरवद्वरो मोक्षार्थदः किमु ॥४३॥अथ कार्ष्णिर्महाबाहुश्चैत्रदेशान्मनोहरान् ॥वसन्तमाधवीवृंदैः शोभीतान्स जगाम ह ॥४४॥सहस्रदलपद्मानां षट्पदध्वनिशालिनाम् ॥पतन्ति रेणवो यत्र सरःस्वाबीरचूर्णवत् ॥४५॥एलालवंगलतिका क्षुण्णाः सैन्याङ्घ्रिभिः पथि ॥तेन भृङ्गावली रेजे करिकर्णप्रताडिता ॥४६॥यत्र वै पुरुषा राजन्नागायुतसमा बले ॥वलीपलितदौर्गंध्यस्वेदक्लमविवर्जिताः ॥४७॥त्रेतायुगसमाः कालो वर्तते यत्र नित्यशः ॥आयुश्चायुतवर्षाणां दिव्यौषधिनदीगुणैः ॥४८॥पीयूषतुल्यं तोयं च हेमभूमिर्विराजते ॥मुक्ताविद्रुमवैडूर्य-रत्नोत्पत्तिश्च यत्र वै ॥४९॥सुंदर्यः प्रमदा रामा नित्ययौवनभूषिताः ॥स्फुरंत्युपवनेष्वारात्सौदामिन्यो घनेष्विव ॥५०॥यत्र वै नगरी रम्या वसंततिलका शुभा ॥शृङ्गारतिलको नाम राजा यत्र महाबलः ॥५१॥जैत्रान् वीरान् समाहूय गजमारुह्य दंशितः ॥योद्धुं विनिर्ययौ यश्च प्रद्युम्नस्यापि संमुखे ॥५२॥सांबः सुमित्रः पुरुजिच्छतजिच्च सहस्रजित् ॥विजयश्चित्रकेतुश्च वसुमान्द्रविडः क्रतुः ॥५३॥जांबवत्याः सुता ह्येते चक्रुर्नाराचदुर्दिनम् ॥पलायितेषु चैतेषु बाणैर्भिन्नेषु मैथिल ॥५४॥बाणांधकारे संजाते महान्कोलाहलो ह्यभूत् ॥तदा शृङ्गारतिलको गजारूढो महाबलः ॥५५॥त्रिशूलेन तद साम्बं हृदि विव्याध रोषतः ।अन्यान्संपातयामास शरैः कोदंडनिर्गतैः ॥५६॥एकाकी विचरन् युद्धे वने वैश्वानरो यथा ॥तदा गदः समागत्य तद्गजं सुमदोत्कटम् ॥५७॥शुंडादंडे संगृहीत्वा पातयामास भूतले ॥दूरे प्रपतितः शीघ्रं शृङ्गारतिलको नृपः ॥५८॥सद्यो भयातुरो भूत्वा युद्धे बद्धांजलिः स्वतः ॥तुरंगाणामर्बुदं च रथानां लक्षमेव च ॥५९॥गजानामयुतं राजा प्रद्युम्नाय बलिं ददौ ॥इत्थं किंपुरुषं खंडं जित्वा कार्ष्णिर्महाबलः ॥६०॥निषाददर्शितैर्मार्गैर्हरिवर्षं ततो ययौ ॥६१॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे किंपुरुषखण्डविजयो नाम षड्विंशोऽध्यायः ॥२६॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP