संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः|

विश्वजितखण्डः - अध्यायः ९

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच॥
इत्युक्त्वा शत्रुहा भानुर्गृहीत्वा खङ्गचर्मणी ॥
पदातिः प्रययौ सैन्ये वने वन्यकरीवसः ॥१॥
भानुखङ्गेन शत्रूंस्ताञ्च्छिन्नबाहूंश्चकार ह ॥
द्विपान्हयान्संमुखस्थान्पश्वस्थांश्च द्विधाकरोत् ॥२॥
खङ्गद्वितीयो ह्येकाकी रेजे छिंदन्नरीमृधे ॥
नीहारमेघपटलैर्भानुर्भानुरिवस्फुरन् ॥३॥
हस्तिनां छिन्नकुंभानां भानुखङ्गेन मैथिल ॥
मुक्ता निपेतुश्च यथा तारकाः क्षीणकर्मणाम् ॥४॥
लक्षमात्रेण तत्सैन्यं पातयित्वा रणांगणे॥
रंगपिंगो परिप्रागाद्भानुर्वीरो- महाबलः ॥५॥
कृष्णदत्तेन खङ्गेन रथौ तौ रंगपिंगयोः ॥
छित्त्वा हयान्सनेतृंश्च भानुर्युद्धेद्विधाकरोत् ॥६॥
खङ्गौ नीत्वा रंगपिंगौ तेडतुस्तमहोद्भटौ ॥
भानुचर्मगतौ खड्गौ भंगीभूतौ बभूवतुः ॥७॥
भानुखङ्गप्रहारेण शिरसो रंगपिंगयोः ॥
युगपत्पेततुर्युद्धे तदद्भुतमिवाभवत् ॥८॥
भानुस्तयोश्च शिरसी नीत्वा प्रद्युम्नसंमुखे॥
आययौ विजयी वीरः श्लाघितः सैन्यनायकैः ॥९॥
दिवि दुंदुभयो नेदुर्नरदुंदुभिभिः समम्॥
अभूज्जयजया रावः पुष्पवर्षाः सुरैः कृताः ॥१०॥
रंगपिंगौ मृतौ श्रुत्वा शिशुपालो रुषान्वितः॥
जैत्रं रथं समारुह्य यदूनां संमुखं ययौ ॥११॥
मदच्युद्भिर्गजै दीर्घै रत्नकंबलमंडितैः ॥
स्वर्णनीडसमायुक्तैलोंलघंटाक्वणत्स्वनैः ॥१२॥
रथैश्च देवधिष्ण्याभैर्वायुवेगैस्तुरंगमैः ॥
विद्याधरसमैर्वीरैर्नादयन्वसुधा- तलम् ॥१३॥
शिशुपालबलं दृष्ट्वा शक्रदत्ते रथे ततः ॥
सर्वेषामग्रतः कार्ष्णिः प्रययौ धन्विनां वर ॥१४॥
शंखं दध्मौ हरेः पुत्रो दिशः खं नादयन्नृपः ॥
तेन नादेन शत्रूणां कंपोऽभूद्धृदि मानद ॥१५॥
शिशुपालमहासैन्ये प्रासादइव दुर्गमे ॥
चक्रे नाराचसोपानं सहसा रुक्मिणीसुतः ॥१६॥
दमघोषसुतो धीमान्धनुष्टंकारयन्मुहुः ॥
ब्रह्मास्त्रं संदधे यद्वै दत्तात्रेयेण शिक्षितम् ॥१७॥
प्रचंडं सर्वतस्तेजो दृष्ट्वा श्रीरुक्मिणीसुतः ॥
ब्रह्मास्त्रेणापि द्युद्धेसंजहार स लीलया ॥१८॥
शिशुपालो महाधीमानंगारास्त्रं समादधे ॥
जामदग्न्येन यद्दत्तं महेंद्रे पर्वते नृप ॥१९॥
तस्मादंगारवर्षाभिः कार्ष्णिसेनातिविह्वला ॥
पर्जन्यास्त्रं महादिव्यं तदा कार्ष्णिः समादधे ॥२०॥
स्थूलाभिर्मेघधाराभिरंगाराः शांतिमाययुः ॥
शिशुपालस्तदा क्रुद्धो गजास्त्रं तं समादधे ॥२१॥
यदगस्त्येन मुनिना शिक्षितं मलयाचले ॥
महोद्भटा गजा दीर्घाः कोटिशस्तद्विनिर्गताः ॥२२॥
ते सैन्यं पातयामासुः प्रद्युम्नस्य महात्मनः ॥
हाहाकारो महानासीद्यदूनां वाहिनीषु च ॥२३॥
प्रद्युम्नोथ रणश्लाघी नृसिंहास्त्रं समादधे ॥
नृसिंहौ निर्गता स्तस्मान्नादयन्वसुधातलम् ॥२४॥
स्फुरत्सटो दीर्घबालो नखलांगलभीषणः ॥
ननाद हुंकृतैः शब्दैर्भक्षयंस्तान्गजान्रणे ॥२५॥
विदार्य गजकुंभां तमुत्पतन्भगवान्हरिः ॥
गजवृंदं मर्दयित्वा तत्रैवांतरधीयत ॥२६॥
चिक्षेप परिघं रोषाच्छिशुपालो महाबलः ॥
चिच्छेद परिघं तद्वै यमदंडेन माधवः ॥२७॥
ततश्चैद्यो रुषाविष्टो गृहीत्वा खङ्गचर्मणी॥
प्रद्युम्नं तमुपाधावत्पतंग इव पावकम् ॥२८॥
कार्ष्णिस्तताड तं खङ्गं यमदंडेन वेगतः ॥
चूर्णी बभूव तेनापि निस्त्रिंशश्चर्मणा सह ॥२९॥
पाशिदत्तेन पाशेन सहसा यादवेश्वरः॥
दमघोषसुतं बद्ध्वा विचकर्ष रणांगणे ॥३०॥
शिशुपालं घातयितुं खङ्गं जग्राह रोषतः ॥
तदैव तत्करौ साक्षाद्गदो जग्राह वेगतः ॥३१॥
गद उवाच॥
परिपूर्णतमेनापि श्रीकृष्णेन महात्मना ॥
वध्योयं देववचनं वचनं मा वृथा कुरु ॥३२॥
श्रीनारद उवाच॥
तदा कोलाहले जाते शिशुपालस्य बंधने ॥
दमघोषो बलिं नीत्वा प्रागात्प्रद्युम्नसंमुखे ॥३३॥
कार्ष्णिस्तमागतं दृष्ट्वा त्यक्त्वा शस्त्राणि शीघ्रतः ॥
अग्रतश्चेदिपं शश्वन्ननाम शिरसा भुवि ॥३४॥
मिलित्वा चाशिषं दत्त्वा प्रद्युम्नाय महात्मने ॥
दमघोषो महाराजः प्राह गद्गदया गिरा ॥३५॥
दमघोष उवाच॥
प्रद्युम्न त्वं तु धन्योऽसि श्रीयदूनां शिरोमणे॥
तत्पुत्रेण कृतं यद्वै तत्क्षमस्व दयानिधे ॥३६॥
श्रीप्रद्युम्न उवाच ॥
मम दोषो न ते चायं न ते पुत्रस्य हे प्रभो ॥
सर्वं कालकृतं मन्ये प्रियमप्रियमेव वा ॥३७॥
॥श्री नारद उवाच॥
इत्युक्तो दमघोषोऽपि प्रद्युम्नेन प्रयंत्रितः ॥
शिशुपालं मोचयित्वा नीत्वागाच्चंद्रिकापुरीम् ॥३८॥
प्रद्युम्नस्य बलं श्रुत्वा साक्षाच्छ्रीकृष्णतेजसः ॥
न केऽपि युयुधुस्तेन राजानश्च बलिं ददुः ॥३९॥

इति श्रीमद्गर्गसंहितायां विश्वजित्खंडे नारदबहुलाश्वसंवादे रंगपिंगवधे शिशुपालयुद्धे चेदिदेशविजयोनाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : May 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP