संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः १३ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः १३ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता शाल्व-मालव-लङ्काविजयम् Translation - भाषांतर श्रीनारद उवाच -कृतमालां ताम्रपर्णीं स्नात्वा श्रीयादवेश्वरः ॥यदुभिः सैनिकैः सार्द्धं राजन् राजपुरं ययौ ॥१॥शाल्वो राजपुराधीशः श्रुत्वा मन्मुखतो यदून् ॥आगतान् स ययौ शीघ्रं द्विविदं वानराधिपम् ॥२॥द्विविदो ह्यतिसंक्रुद्धो वीरो मित्रसहायकृत् ॥शंबरारिबलं प्रागाच्चालयन् वसुधातलम् ॥३॥विददार नखैर्दंतैः पताकाध्वजपट्टकान् ॥काश्मीरकंबलैर्युक्तान्सामुद्रान्स्वर्णभूषितान् ॥४॥रथानुत्पातयामास गजानारुह्य वेगतः ॥अश्वान्विद्रावयामास भ्रूभंगैर्वानरस्वनैः ॥५॥इत्थं कोलाहले जाते प्रद्युम्नो धन्विनां वरः ॥आजगाम रथेनासौ धनुष्टंकारयन् मुहुः ॥६॥द्विविदस्तद्रथस्यारादुच्चक्राम मदोत्कटः ॥छत्रं ध्वजं स्वपुच्छेन कंपयन्सहयं रथम् ॥७॥प्रद्युम्नः स्वधनुष्कोट्या धृत्वा कण्ठे चकर्ष ह ॥कपिस्तदातिकुपितो मुष्टिना तं तताड ह ॥८॥प्रद्युम्नो धनुरादय सज्जं कृत्वा विधानतः ॥आकृष्य कर्णपर्यन्तं विशिखेन तताड् तम् ॥९॥विशिखी भ्रामयित्वा तं गगने शतयोजनम् ॥प्रहरार्द्धेन राजेन्द्र लंकाया संन्यपातयत् ॥१०॥रक्षोभिः सह तद्युद्धं बभूव घटिकाद्वयम् ॥न्यपातयत्स रक्षांसि प्रद्युम्नोऽथ यदूत्तमः ॥११॥नादयन्दुन्दुभिं राजन् विजित्य जगृहे बलिम् ॥दक्षिणां मथुरां दृष्ट्वा त्रिकूटं चारुरोह ह ॥१२॥प्रोच्चक्राम त्रिकूटात्स मैनाकशिखरोपरि ॥मैनाकात्सिंहलं चैत्य भारतं चाययौ पुनः ॥१३॥शनैः शनैर्वानरेंद्रो हिमाचलगिरिं गतः ॥हिमाचलस्य शिखरात्प्राग्ज्योतिषपुरं ययौ ॥१४॥मत्सारदेशाधिपतिं प्रद्युम्नो यादवेश्वरः ॥महाक्षेत्रं रामकृष्णं प्रययौ सेतुबंधनम् ॥१५॥शतयोजनविस्तीर्णं समुद्रं मकरालयम् ॥वीक्ष्य कार्ष्णिर्महावीरस्तस्थौ वेलां समेत्य सः ॥१६॥सांबादीन्स समाहूयाक्रूराद्यान् यादवान्स्वकान् ॥सभायामुद्धवं प्राह कार्ष्णिर्योगेश्वरेश्वरः ॥१७॥प्रद्युम्न उवाच -बिभीषणो द्वीपपतिर्महोज्ज्वलोलंकापतिः कौणपवृन्दमुख्यः ॥वदाथ किं भोजवराय मंत्रि-न्न चेद्बलिं यच्छति मे वदाशु ॥१८॥उद्धव उवाच -त्वं देवदेवः पुरुषोत्तमोत्तमःश्रीकृष्ण्चन्द्रः परमस्त्वमेव हि ॥त्वं पृच्छसे लोक इव प्रभो मांमायापि ते योगिवरैर्दुरत्यया ॥१९॥ब्रह्मादयो यस्य परानुशासनंवहन्ति मूर्ध्ना सततं प्रधर्षिताः ॥स एव साक्षात्पुरुषोऽसि भूमन्दासानुदासोऽस्मि वदामि किं ते ॥२०॥श्रीनारद उवाच -इत्युक्तः पश्यतां तेषां प्रद्युम्नो भगवान्हरिः ॥पत्रं गृहीत्वा व्यलिखत्संदेशं मैथिलेश्वर ॥२१॥श्रीभोजराजाय बलिं प्रयच्छबलान्न चेन्मे वचनं शृणु त्वम् ॥कोदंडमुक्तैर्विशिखैश्च सेतुंबद्ध्वाऽऽगमिष्यामि ससैन्यसंघः ॥२२॥लिखित्वेदं समादाय कोदण्डं चण्डविक्रमः ॥बाणे पत्रं समाधाय कर्णांतं तं ततान ह ॥२३॥प्रस्फुटं स्फोटते नैव टंकारोऽभूत्तडित्स्वनः ॥ननाद तेन ब्रह्माण्डं सप्तलोकैर्बिलैः सह ॥२४॥कोदण्डमुक्तो विशिखो द्योतयन्मण्डलं दिशाम् ॥विभीषणसभामध्ये संपपात तडित्स्वनः ॥२५॥तदैव राक्षासाः सर्वे प्रोत्थिताश्चकिता इव ॥सकंचुकानि शस्त्राणि जगृहुर्वेगतः खलाः ॥२६॥पत्रं बाणात्समाकृष्य पठित्वाथ बिभीषणः ॥विस्मितोऽभूत्सभामध्ये राक्षसेंद्रो महाबलः ॥२७॥प्राप्तं तदैव सदसि शुक्राचार्यं बिभीषणः ॥पूजयामास पाद्याद्यैर्नत्वा प्राह कृतांजलिः ॥२८॥बिभीषण उवाच -भगवन्कस्य बाणोऽयं भोजराजस्तु कः क्षितौ ॥किं बलं तस्य मे ब्रूहि त्वं साक्षाद्दिव्यदर्शनः ॥२९॥श्रीशुक्र उवाच -अत्रैवोदाहरन्तीममितिहासं पुरातनम् ॥यस्य श्रवणमात्रेण राजन्पापं प्रशाम्यति ॥३०॥पुरा हि ब्रह्मणः पुत्राः सनकाद्या दिवं गताः ॥विष्णोर्लोकं ययुर्दिव्यं चरन्तो भुवनत्रयम् ॥३१॥दिगंबराञ्छिशून्मत्वा जयो विजय एव तान् ॥द्वारपालौ रुरुधतुर्वेत्रेणांतःपुरस्थितौ ॥३२॥अशपंस्तौ च ते क्रुद्धाः कृष्णदर्शनलालसाः ॥भूयास्तामसुरौ दुष्टौ शुद्धौ हि जन्मभिस्त्रिभिः ॥३३॥एवं शप्तौ स्वभवनात्पतन्तौ भूमिमण्डले ॥जज्ञाते तौ दितेः पुत्रौ दैत्यदानवपूजितौ ॥३४॥हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्तथा ॥भगवान् यज्ञवाराहो भूत्वा क्ष्मामुद्धरञ्जलात् ॥३५॥जघान मुष्टिना दैत्यं हिरण्याक्षं महाबलम् ॥हिरण्यकशिपुं साक्षान्नृसिंहश्चण्डविक्रमः ॥३६॥ददार जठरे तं वै कायाधवसहायकृत् ॥भ्रातरौ तौ पुनर्जातौ केशिन्यां विश्रवःसुतौ ॥३७॥रावणः कुम्भकर्णश्च सर्वलोकैकतापनौ ॥सायकै राघवस्यापि पेततुर्युद्धमंडले ॥३८॥राक्षसेंद्रौ महावेगौ ससैन्यौ पश्यतस्तव ॥तृतीयेऽस्मिन्भवे जातौ क्षत्रियाणां कुले किल ॥३९॥शिशुपालो दन्तवक्त्रो वर्तमानौ महाबलौ ॥परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ॥४०॥असंख्यब्रह्माण्डपतिर्गोलोकेशः परात्परः ॥जातस्तयोर्वधार्थाय यदुवंशे हरिः स्वयम् ॥४१॥यादवेंद्रो भूरिलीलो द्वारकायां विराजते ॥युधिष्ठिरमहायज्ञे युद्धे शाल्वस्य माधवः ॥४२॥शिशुपालं दन्तवक्त्रं हनिष्यति न संशयः ॥तस्य पुत्रः शंबरारिर्दिग्जयार्थं विनिर्गतः ॥४३॥विजेष्यति नृपान्सर्वाञ्जंबूद्वीपस्थितान्नृपान् ॥जितेषु सत्सु देवेषु द्वारकायां यदूत्तमः ॥उग्रसेनो भोजराजो राजसूयं करिष्यति ॥४४॥तस्यैव कोदण्डविनिर्गतो बला-त्प्रचण्डवेगो विशिखस्त्विहागतः ॥तन्नामचिह्नोऽतितडित्स्वनो बभौप्रद्योतयन् राक्षसमण्डलं दिशाम् ॥४५॥श्रीनारद उवाच -श्रीरामभक्तोऽथ बिभीषणोऽसौविज्ञाय कृष्णं नृप रामचन्द्रम् ॥नीत्वा बलिं कौणपवृंदमुख्यःसमाययौ सुंदरशत्रुसेनाम् ॥४६॥तदाऽवतीर्यार्शु महांबरात्स्फुर-द्घनद्युतिर्दीघवपुर्जयेक्षणः ॥प्रदक्षिणीकृत्य हरेः सुतं पुनःकृतांजलिः संमुख आस्थितोऽभूत् ॥४७॥विभीषण उवाच -नमो भगवते तुभ्यं वासुदेवाय वेधसे ॥प्रद्युम्नायानिरुद्धाय नमः संकर्षणाय च ॥४८॥नमो मत्साय कूर्माय वराहय नमो नमः ॥नमः श्रीरामचंद्राय भार्गवाय नमो नमः ॥४९॥वामनाय नमस्तुभ्यं नृसिंहाय नमो नमः ॥नमो बुद्धाय शुद्धाय कल्कये चार्तिहारिणे ॥५०॥श्रीनारद उवाच -इत्युक्त्वा श्रीहरेः पुत्रं पूजयामास मानदः ॥उपचारैः षोडशभिर्भक्त्या परमयाऽऽर्द्रवाक् ॥५१॥तस्मै तुष्टः शंबरारिर्ददौ ज्ञानं विरक्तिमत् ॥भक्तिं शांतिकरीं साक्षाद्यांति दुष्प्रेमलक्षणाम् ॥५२॥ब्रह्मदत्तं महादिव्यं पद्मरागं शिरोमणिम् ॥पौलस्त्येन पुरा दत्तं रत्नमालां स्फुरत्प्रभाम् ॥५३॥चन्द्रकान्तमणिं तस्मै चन्द्रदत्तं ददौ पुनः ॥पीतांबरं परं साक्षात्प्रद्युम्नः परमः प्रभुः ॥५४॥बिभीषणोऽथ प्रद्युम्नं नत्वा दत्वा बलिं ततः ॥जगाम लंकां सगणो राक्षसेंद्रो महाबलः ॥५५॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे शाल्वमत्सारलंकाविजयो नाम त्रयोदशोऽध्यायः ॥१३॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP