संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः २५ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः २५ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता यक्षविजयम् Translation - भाषांतर प्रद्युम्न उवाच -श्रीकृष्णस्य कला साक्षाद्गणेशोऽयं महाबलः ॥जेतुं न शक्यो दिविजैर्मनुष्यैस्तु कुतो भुवि ॥१॥वर्तते यस्य निकटे तस्य नास्ति पराजयः ॥श्रीकृष्णेन वरो दत्तः पुरास्मै शंकरालये ॥२॥यद्ययं वर्तते चात्र तदा न स्याज्जयश्च नः ॥शत्रुपक्षगतोऽयं वै श्रीकृष्णस्य वरोर्जितः ॥३॥तस्मात्त्वं चंडमार्जरो भूत्वा तं युद्धतो बलात् ॥विद्रावय महाबुद्धे फूत्कारैश्च दिशौ दश ॥४॥यावद्बलं विजेष्यामि तावदद्विद्रावय त्वरम् ॥श्रीनारद उवाच -अथानिरुद्धो भगवांश्चंडमार्जाररूपधृक् ॥५॥अलक्षितो गणेशेन न ज्ञातो विष्णुमायया ॥फूत्कारमुत्कटं कुर्वन् संपपाताखुसंमुखे ॥६॥विदारयन्मुखं राजन्सततं नखरैः खरैः ॥वीशेषण सहैवाखुर्दृष्ट्वाऽऽशु भयविह्वलः ॥ ७॥दुद्राव त्वरितं राजन् कंपितो रणमंडलात् ॥तमन्वगच्छत्कुपितो मार्जारः स्थूलरूपधृक् ॥८॥मूषकं स्वमपोवाह गणेशोऽपि मुहुर्मुहुः ॥नाययौ स्वं रणं चाखुश्चंडमार्जारपीडितः ॥९॥सप्तद्वीपान्सप्तसिंधून् दिशासु विदिशासु च ॥धावन् वै सप्तलोकेषु न लेभे शर्म मैथिल ॥१०॥यत्र यत्र गतश्चाखुर्गणेशेन समन्वितः ॥तत्र तत्र गतो राजन् मार्जारश्चंडविक्रमः ॥११॥एवं समूषके याते गणेशे विदिशोत्तरम् ॥विस्मितेषु सपक्षेषु गणेषु प्रमथेषु च ॥१२॥पुष्पकस्थः कुबेरोऽसौ मायां चक्रेऽथ गौह्यकीम् ॥गृहीत्वा स्वधनुर्दिव्यं नमस्कृत्य महेश्वरम् ॥१३॥समंत्रं कवचं धृत्वा बाणसंघं समादधे ॥तदैव छादितं व्योम मेघैः सांवर्तकैरिव ॥१४॥तडित्स्वनैर्महाभीमैस्तमोऽभूत्स्तनयित्नुभिः ॥बिंदवो हस्तिसदृशा निपेतुः सोपला मृधे ॥१५॥धाराभिरतिघोराभिर्ववृषुर्वारिदास्ततः ॥क्षणेन सिंधवः सर्वे प्लावयंतो धरातलम् ॥१६॥पर्वतैर्जीवसहितैर्दृश्यन्ते रणमंडले ॥प्राकृताः प्रलयं मत्वा यादवा भयविह्वलाः ॥१७॥त्यक्त्त्वा शस्त्राणि तेऽथोचुः श्रीकृष्णेति मुहुर्मुहुः ॥ज्ञात्वा तां गौह्यकीं मायां प्रद्युम्नो भगवान्हरिः ॥१८॥सत्वात्मिकां च स्वां विद्यां सर्वमायोपमर्दिनीम् ॥जप्त्वा कृत्वा कामबीजं बाणमध्ये निधाय तत् ॥१९॥मुखे च प्रणवं धृत्वा पुंखे श्रीबीजमेव च ॥आकृष्य कर्णपर्यन्तं कृष्णं स्मृत्वा चतुर्भुजम् ॥२०॥चिक्षेप विशिखं चापाद्दोर्दंडाभ्यां तडित्स्वनात् ॥कोदंडमुक्तो विशिखो द्योतयन्मंडलं दिशाम् ॥२१॥जघान गौह्यकीं मायामंधकारं यथा रविः ॥भयभीतो राजराजो पुष्पकस्थो रणांगणात् ॥२२॥पलायमानो यक्षैश्च कंपितः स्वपुरीं ययौ ॥प्रद्युम्नस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥२३॥जहसुर्यादवाः सर्वे जयारावसमाकुलाः ॥तदातिहर्षितो राजन् राजराजः कृतांजलिः ॥२४॥बलिं नीत्वा ययौ शीघ्रं प्रद्युम्नस्यापि संमुखे ॥गजेंद्राणां द्विलक्षं च द्विशुंडादंडशालिनाम् ॥२५॥दद्भिश्चतुर्भिर्युक्तानामद्रीन्स्पर्धयतां मदैः ॥दशलक्षं रथानां च मुक्तातोरणशालिनाम् ॥२६॥शताश्वयोजितानां च रौक्माणां सूर्यवर्चसाम् ॥दशार्बुदं तथा राजन्हयानां चन्द्रवर्चसाम् ॥२७॥शिबिकानां चतुर्लक्षं माणिक्यैरग्रवर्चसाम् ॥पंजरस्थायिनां राजञ्छार्दूलानां द्विलक्षकम् ॥२८॥चित्रकाणां मृगाणां च गवयानां तथैव च ॥मृगयासारमेयानां कोटिकोटिर्विदेहराट् ॥२९॥शुकानां सारिकाणां च कलकंठप्रवादिनाम् ॥हंसानां स्वर्णवर्णानामन्येषां चित्रपक्षिणाम् ॥३०॥पंजरस्थायिनां राजँल्लक्षं लक्षं नृपेश्वर ॥विमानं विष्णुदत्ताख्यं मुक्तादामविलंबितम् ॥३१॥अष्टयोजनमुच्चांगं नवयोजनविस्तृतम् ॥लक्षकुंभध्वजोपेतं निर्मितं विश्वकर्माणा ॥३२॥कामगं स्वर्णशिखरं सहस्रादित्यसुप्रभम् ॥सहस्रं कुलवृक्षाणां कामधेनुशतं तथा ॥३३॥चिंतामणीनां च शतं शतं दिव्याश्मनां तथा ॥यत्स्पर्शेनापि लोहस्तु हेमत्वं याति मैथिल ॥३४॥छत्राणां चामराणां च हेमसिंहासनं शतम् ॥तथाहि दिव्यपद्मानां मालांकिंजल्किनीं शुभाम् ॥३५॥पीयूषस्य शतं द्रोणं फलानि विविधानि च ॥खचिद्रत्नसुवर्णानां भूषणानां तु वाससाम् ॥३६॥दिव्यानां कंबलानां च कोटीशः पात्रसंचयम् ॥अमोघानां च शस्त्राणां कोटिसौवर्णशालिनाम् ॥३७॥गजैर्नरैर्भारवाहैः प्रेरिता निधयो नव ॥दत्त्वा बलिं राजराजः प्रद्युम्नाय महात्मने ॥३८॥दक्षिणीकृत्य तं नत्वा प्राहेदं हर्षपूरितः ॥कुबेर उवाच -नमस्तुभ्यं भगवते पुरुषाय महात्मने ॥३९॥अनादये सर्वविदे निर्गुणाय महात्मने ॥प्रधानपुरुषेशाय प्रत्यग्धाम्ने नमो नमः ॥४०॥स्वयंज्योतिःस्वरूपाय श्यामलांगाय ते नमः ॥नमस्ते वासुदेवाय नमः संकर्षणाय च ॥४१॥प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥मदनाय च माराय कंदर्पाय नमो नमः ॥४२॥दर्पकाय च कामाय पंचबाणाय ते नमः ॥अनंगाय नमस्तुभ्यं नमस्ते शम्बरारये ॥४३॥हे मन्मथ नमस्तुभ्यं नमस्ते मीनकेतन ॥मनोभवाय देवाय नमस्ते कुसुमेषवे ॥४४॥अनन्यज नमस्तेऽस्तु रतिभर्त्रे नमो नमः ॥नमस्ते पुष्पधनुषे मकरध्वज ते नमः ॥४५॥स्मराय प्रभवे नित्यं जगद्विजयकारिणे ॥नमो रुक्मवतीभर्त्रे सुंदरीपतये नमः ॥४६॥इदं करिष्यामि करोमि भूम-न्ममेदमस्तीति तवेदमाब्रुवन् ॥अहं सुखी दुःखयुतः सुहृज्जनोलोको ह्यहंकारविमोहितोऽखिलः ॥४७॥प्रधानकालाशयदेहजैर्गुणैःकुर्वन् विकर्माणि जनो निबद्ध्यते ॥काचेऽर्भकं सैकत एव जीवनंगुणे च सर्पं प्रतनोति सोऽक्षिभिः ॥४८॥कृतं मया हेलनमद्य मौढ्य-तस्त्वन्मायया मोहितचेतसा प्रभो ॥न मन्यसे बालकृतं पितेव हिमाभूत्पुनर्मे मतिरीदृशी मनाक् ॥४९॥सदा भवेत्त्वच्चरणारविंदयो-र्भक्तिं परां यां च विदुर्गरीयसीम् ॥ज्ञानं च वैराग्ययुतं शिवास्पदंदेहि प्रशस्तं निजसाधुसंगमम् ॥५०॥श्रीनारद उवाच -प्रद्युम्नस्य शुभं स्तोत्रं प्रातरुत्थाय यः पठेत् ॥संकटे तस्य सततं सहायः स्याद्धरिः स्वयम् ॥५१॥इत्युक्तवंतं यक्षेशं प्रद्युम्नो भगवान्हरिः ॥तथास्तूक्त्वा ददौ राजन्पद्मरागशिरोमणिम् ॥५२॥मा भैष्टेत्यभयं दत्वा लीलाछत्रं सचामरम् ॥सिंहासनं मणिमयं प्रादाच्छ्रीयादवेश्वरः ॥५३॥कार्ष्णिं प्रदक्षिणीकृत्य राजराजो धनेश्वरः ॥जितं श्रुत्वा राजराजं प्रद्युम्नेन महात्मना ॥५४॥न केऽपि युयुधुस्तेन राजानश्च बलिं ददुः ॥अथ कार्ष्णिर्महाबाहु-र्नादयन्दुन्दुभीन्बहून् ॥५५॥समस्तवाहिनीयुक्तः प्राग्ज्योतिषपुरं ययौ ॥भौमासुरसुतो नीलो धर्षितस्तस्य तेजसा ॥५६॥सद्यस्तस्मै बलिं प्रादात्प्रद्युम्नाय महात्मने ॥प्राग्ज्योतिषपुरद्वारि द्विविदो नाम वानरः ॥५७॥पुरा प्रद्युम्नबाणेन ताडितो यो महाबलः ॥समुत्थाय रुषाविष्टो दशनैर्नखरैः खरैः ॥५८॥विदार्य वीरानश्वांश्च भ्रूभंगैः प्रजगर्ज ह ॥लांगूलेन रथान्बद्ध्वा प्राक्षिपल्लवणांभसि ॥ ५९॥गृहीत्वा स गजान्दोर्भ्यां विचिक्षेपांबरे बलात् ॥शत्रुं ज्ञात्वा कपिं कार्ष्णिः प्रतिशार्ङ्गे शरं दधे ॥६०॥नीत्वा शरस्तं सहसा भ्रामयित्वांबरे बलात् ॥पूर्ववत्पातयामास किष्किंधायां महाकपिम् ॥६१॥पुनरागतवान्बाणः प्रद्युम्नस्येषुधौ स्फुरन् ॥६२॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे यक्षदेशविजयो नाम पंचविंशोऽध्यायः ॥२५॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP