संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः १४ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः १४ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता द्रविडदेशजयम् Translation - भाषांतर श्रीनारद उवाच -ऋषभाद्रिं ततो दृष्ट्वा श्रीरङ्गाख्यं हरेः सुतः ॥कामः कार्ष्णिः पुरीं कांचीं नदीं प्राचीं सरिद्वराम् ॥॥१॥कावेरीं च तदोत्तीर्य सह्याद्रिविषयं ययौ ॥यादवैः सहितः साक्षात्प्रद्युम्नो भगवान्हरिः ॥२॥शिबिरेषु समायान्तं मुक्तकेशं दिगंबरम् ॥अवधूतं प्रधावन्तं पुष्टांगं रजसाऽऽवृतम् ॥३॥बालास्तमनुधावन्तस्तलशब्दैरितस्ततः ॥कोलाहलं प्रकुर्वंतो हसंतो मैथिलेश्वर ॥४॥तं दृष्ट्वा चोद्धवं प्राह कर्ष्णिर्बुद्धिमतां वरः ॥५॥प्रद्युम्न उवाच -कोऽयं पुष्टवपुर्धावन्बालोन्मत्तपिशाचवत् ॥तिरस्कृतोऽपि हसति जनैरानन्दवान्महान् ॥६॥उद्धव उवाच -अयं परमहंसाख्योऽवधूतो वा हरेः कला ॥सदानंदमयः साक्षद्दत्तात्रेयो महामुनिः ॥७॥यस्य प्रसादात्परमां सिद्धिं प्रापुः परे नृपाः ॥सहस्रार्जुनमुख्या ये यदुकायाधवादयः ॥८॥श्रीनारद उवाच -इति श्रुत्वा शंबरारिर्नत्वा संपूज्य तं मुनिम् ॥संस्थाप्य चासने दिव्ये पप्रच्छेदं यदूत्तमः ॥९॥प्रद्युम्न उवाच -भगवन्मे हृदिस्थं वै सन्देहं नाशय प्रभो ॥जगतो ब्रह्ममार्गांश्च हेत्वंतं ब्रूहि तत्वतः ॥१०॥दत्तात्रेय उवाच -दृश्यते न वसुर्यावत्तावदुल्काप्रयोजनम् ॥प्राप्ते वशे महानंदेऽथोल्कायाः किं प्रयोजनम् ॥११॥तावदास्ते जगत्साधो यावत्तत्वं न वेद्यते ॥परस्मिन्ब्रह्मणि प्राप्ते जगतः किं प्रयोजनम् ॥१२॥आस्यबिंबो यथाऽऽदर्शे पश्यते न परं वपुः ॥प्रधानार्थे तथा जीवो ज्ञानेनासौ परात्परम् ॥१३॥यथा सूर्योदये सर्वं वस्तु नेत्रेण दृश्यते ॥तथा ज्ञानोदये ब्रह्मतत्वं जीवेन सर्वतः ॥१४॥श्रीनारद उवाच -इति श्रुत्वाथ तं नत्वा प्रद्युम्नो यादवेश्वरः ॥वैकुण्ठाद्रिं द्राविडेषु ययौ सेनासमन्वितः ॥१५॥सत्यवाग्धर्मतत्वज्ञो राजर्षिर्द्राविडेश्वरः ॥प्रद्युम्नं पूजयामास भक्त्या परमया युतः ॥१६॥श्रीशैलदर्शनं कृत्वा गिरिशालयमद्भुतम् ॥स्कंदं वीक्ष्य ततो राजन् ययौ पंपासरोवरे ॥१७॥गोदावरीं भीमरथीं गतः श्रीद्वारकेश्वरः ॥प्रदर्शयन्हरेस्तीर्थं महेंद्राद्रिं ततो ययौ ॥१८॥महेन्द्राद्रिस्थितं रामं भार्गवं क्षत्रियांतकम् ॥नत्वा प्रदक्षिणीकृत्य तत्र तस्थौ हरेः सुतः ॥१९॥रामस्तस्याशिषं दत्वा यादवानां बलाय वै ॥चतुरंगाय राजेंद्र योगेनार्हणमाचरत् ॥२०॥भक्तसूपः प्रलेहश्च रुदिका दधिशाकजाः ॥शिखरिण्यवलेहश्च बलका चक्षुखेरिणी ॥२१॥त्रिकोणशर्करायुक्तो बटको मधुशीर्षकः ॥फेणिका चोपरिष्टश्च शतपत्र सछिद्रकः ॥२२॥चक्राभचिह्नकाश्चेत्थं सुधाकुण्डलिकाः स्मृताः ॥घृतपूरो वायुपूरस्तथा चन्द्रकला स्मृताः ॥२३॥दधिस्थलीश्च कर्पूरनाडीस्थं खण्डमंडलम् ॥गोधूमपरिखाश्चैव सुफलाढ्यास्तथैव च ॥२४॥दधिरूपो मोदकश्च शाकसौधान एव च ॥मंडकापायसं युक्तं दधि गोघृतमेव च ॥२५॥हैयंगवीनमंडूरी कुपिका पर्पटस्तथा ॥शक्तिका लसिका चैव सुवृत्संधाय एव ही ॥२६॥सुफलैश्च सितायुक्तैः फलानि विविधनी च ॥यथा मोहनभोगैश्च लवणं च तथैव च ॥२७॥कषायो मधुरस्तिक्तः कटुरम्लस्त्वनेकधा ॥षट्पंचाशत्तमश्चैव ह्येते भोगाः प्रकीर्तिताः ॥२८॥एतेषां भार्गवः शैलानकार्षीद्योगमास्थितः ॥सैन्ये संभोजिते तत्र हस्तन्यूना न तेऽभवन् ॥२९॥वैभवं भार्गवस्यापि दृष्ट्वा सर्वेऽतिविस्मिताः ॥प्रद्युम्नस्तं नमस्कृत्य यादवैः सहितस्तदा ॥३०॥सर्वेषां शृण्वतां राजन् पप्रच्छेदं हरेः सुतः ॥प्रद्युम्न उवाच -भगवन्भवता दत्तं सर्वेभ्यो भोजनं परम् ॥३१॥समृद्धयः सिद्धयश्च त्वदंघ्रावास्थिताः प्रभो ॥सर्वेषां हरिभक्तानां प्रियो भक्तस्तु को हरेः ॥एतन्मे ब्रूहि विप्रेंद्र त्वं परावरवित्तमः ॥३२॥परशुराम उवाच -त्वं प्रभो किं न जानासि लोकवत्पृच्छसेऽथ माम् ॥लोकसंग्रहमेवारात्कुर्वन् विचरसि क्षितौ ॥३३॥निष्किंचनो हरिपदाब्जपरागलुब्धःश्रीमत्कथाश्रवणकीर्तनतत्परो यः ॥तद्रूपसिंधुलहरीविनिमग्नचित्तःश्रीकृष्णचंद्रदयितः कथितः स भक्तः ॥३४॥दांतो महानखिलजंगमवत्सलोऽयंशांतस्तितिक्षुरतिकारुणिकः सुहृत्सत् ॥लोकं पुनाति निजपादरजोभिरारा-च्छ्रीकृष्णचंद्रदयितः कथितः परेश ॥३५॥यः पारमेष्ठ्यमखिलं न महेंद्रधिष्ण्यंनो सार्वभौममनिशं न रसाधिपत्यम् ॥नो योगसिद्धिमभितो न पुनर्भवं वावांछत्यलं परमपादरजः स भक्तः ॥३६॥निष्किंचनाः स्वकृतकर्मफलैर्विरागायत्तत्पदं हरिजना मुनयो महांतः ॥भक्ता जुषंति हरिपादरजःप्रसक्ताअन्ये विदंति न सुखं किल नैरपेक्ष्यम् ॥३७॥भक्तात्प्रियो न विदितः पुरुषोत्तमस्यशंभुर्विधिर्न च रमा न च रौहिणेयः ॥भक्ताननुव्रजति भक्तनिबद्धचित्त-चूडामणिः सकललोकजनस्य कृष्णः ॥३८॥गच्छन्निजं जनमनु प्रपुनाति लोका-नावेदयन्हरिजने स्वरुचिं महात्मा ॥तस्मादतीव भजतां भगवान्मुकुंदोमुक्तिं ददाति न कदापि सुभक्तियोगम् ॥३९॥श्रीनारद उवाच -इति श्रुत्वा यादवेंद्रो नत्वा श्रीभार्गवोत्तमम् ॥प्राच्यां दिशि ययौ राजन् गंगासागरसंगमम् ॥४०॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे द्राविडदेशविजयो नाम चतुर्दशोऽध्यायः ॥१४॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP