संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः १० विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः १० गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता यादवगणानां करूषदेशगमनम् Translation - भाषांतर श्रीनारद उवाच -मनुतीर्थे ततः स्नात्वा प्रद्युम्नो यदुभिः सह ॥प्रययौ कौंकणान्देशान्दुंदुभीन्नादयन्मुहुः ॥१॥कौंकणस्थोऽथ मेधावी गदायुद्धविशारदः ॥एकाकी मल्लयुद्धेन परीक्षन्नाययौ बलम् ॥२॥प्रद्युम्नं सबलं प्राह शृणु मे यादवेश्वर ॥गदायुद्धं देहि मह्यं मद्बलं नाशय प्रभो ॥३॥प्रद्युम्न उवाच -एकतो ह्येकतो वीरा बलवंतो महीतले ॥मानं मा कुरु हे मल्ल विष्णुमायातिदुर्गमा ॥४॥वयं तु बहवो वीरास्त्वमेकाकी समागतः ॥अधमोऽयं महामल्ल दृश्यते याहि सांप्रतम् ॥५॥मल्ल उवाच -यदा युद्धं न कुरुत भवंतो बलशालिनः ॥मत्पादोऽधोऽत्र निर्यांतु तदा यास्यामि सांप्रतम् ॥६॥श्रीनारद उवाच -एवं वदति मल्ले वै सर्वे यादवपुंगवाः ॥बभूवुः क्रोधसंयुक्ताः पश्यतस्तस्य मैथिल ॥७॥गदो गदां समादाय बलदेवानुजो बली ॥तस्थौ सोऽपि गदां नीत्वा सर्वेषां पश्यतां नृप ॥८॥गदां वरिष्ठां चिक्षेप गदाय स महाबलः ॥गदोपरि गदां नीत्वा स्वगदां प्राक्षिपद्गदः ॥९॥गदस्य गदया सोऽपि ताडितः पतितो भुवि ॥मृधेच्छां न चकाराशु ह्युद्वमन् रुधिरं मुखात् ॥१०॥कोंकणस्थोऽथ मेधावी नत्वा प्राह हरेः सुतम् ॥परीक्षार्थं च भवतामेतत्कार्यं मया कृतम् ॥११॥त्वमेव भगवान्साक्षात्कुतोऽहं प्राकृतो जनः ॥क्षमस्व मेऽपराधं भो त्वामहं शरणं गतः ॥१२॥श्रीनारद उवाच -इत्युक्त्वाथ बलिं दत्वा नमस्कृत्य हरेः सुतम् ॥कोंकणस्थः पुरीं प्रागान्मेधावी क्षत्रियोत्तमः ॥१३॥कुटकाधिपतिं मौलिं मृगयायां विनिर्गतम् ॥जग्राह स महाबाहुः सांबो जांबवतीसुतः ॥१४॥कार्ष्णिस्तस्माद्बलिं नीत्वा दंडकाख्यं वनं ययौ ॥मुनीनामाश्रमान्पश्यन्स्वसैन्यपरिवारितः ॥१५॥निर्विंध्यां च पयोष्णीं च तापीं स्नात्वा हरेः सुतः ॥शूर्पारकं महाक्षेत्रमार्यां द्वैपायनीं ततः ॥१६॥ऋष्यमूकं ततः पश्यन्प्रवर्षणगिरिं गतः ॥पर्जन्यो भगवान्साक्षान्नित्यदा यत्र वर्षति ॥१७॥गोकर्णाख्यं शिवक्षेत्रं दृष्ट्वा कार्ष्णिः स्वसैन्यकैः ॥त्रिगर्तान्केरलान् देशान् ययौ जेतुं महाबलः ॥१८॥अम्बष्ठः केरलाधीशः श्रुत्वा वार्तां तु मन्मुखात् ॥ददौ तस्मै बलिं शीघ्रं प्रद्युम्नाय महात्मने ॥१९॥कृष्णां वेणीं तदोत्तीर्य तैलंगान् विषयान् ययौ ॥सैन्यपादरजोवृंदैरंधीकुर्वन्नभःस्थलम् ॥२०॥तैलंगस्याधिपो राजा विशालाक्षः प्रकीर्तितः ॥पुरस्योपवने रेमे सुंदरीगणसंवृतः ॥२१॥मृदंगाद्यैश्च वादित्रैर्मधुरध्वनिसंकुलैः ॥परैरप्सरसां रागैर्गीयमानो द्युराडिव ॥२२॥तं प्राह सुंदरी रामा राज्ञी मंदारमालिनी ॥रजोव्याप्तं नभो वीक्ष्य शुष्यद्बिंबाधरा परा ॥२३॥मंदारमालिन्युवाच -राजन्न जानासि सदा विहारा-दहर्निशं कामविशाललोलः ॥अहं न जानामि कदापि दुःखंमुखालकालिभ्रमरास्तवेषा ॥२४॥द्वारावतीशाध्वरनागवल्ली-चयं समुत्थाप्य दिशो जयार्थम् ॥विजित्य सर्वान्नृप चेदिपान्ससमागतोऽसौ यदुराजराजः ॥२५॥धुंकारशब्दं नृणु दुंदुभीनांचित्कारफूत्कारयुतं द्विपानाम् ॥कोदंडटंकारमयं पराणांकल्पांतसारस्वतनादकारम् ॥२६॥त्वरं बलिं प्रेषय शंबरारयेप्रधावतीः पश्य नरेन्द्र सुंदरीः ॥च्यूतप्रसूनाः श्रमवारिवर्षणी-र्वनप्रवेशास्फुटकेशमंडनाः ॥२७॥पत्नीवाक्यं ततः श्रुत्वा विशालाक्षोऽतिहर्षितः ॥प्रद्युम्नसम्मुखे सोऽपि बलिं नीत्वा समाययौ ॥२८॥तेन सम्पूजितः साक्षात्प्रद्युम्नो धन्विनां वरः ॥स्नात्वा पंपासरस्तीर्थे महाराष्ट्रं ततो ययौ ॥२९॥महाराष्ट्राधिपो राजा विमलो नाम वैष्णवः ॥भक्त्या परमया कार्ष्णिं पूजयामास सर्वतः ॥३०॥तथा हि कर्णाटपतिः सहस्रजि-त्स्वतः समानीय बलिं महात्मने ॥सम्पूजयामास शुभार्थहेतवेश्रीशंबरारिं जगतः प्रभुं परम् ॥३१॥प्रद्युम्नो भगवान्साक्षाद्यादवैः सह मैथिल ॥करूषान् विषयान्प्रागाज्जेतुं योगीव देहजान् ॥३२॥महारंगपुरे तत्र वृद्धशर्मा महामतिः ॥भर्ताथ श्रुतदेवाया वसुदेवस्वसुर्नृप ॥३३॥तस्य पुत्रो दंतवक्त्रः कृष्णशत्रुः प्रकीर्तितः ॥शिशुपाल इव क्रुद्धो योद्धुं चक्रे मनः स्वयम् ॥३४॥मात्रा पित्रा वारितोऽपि दैत्यो दैत्याननुव्रतः ॥यादवान् घातयिष्यामि कोऽयमित्थं चकार ह ॥३५॥आदाय स गदां गुर्वीं लक्षभारविनिर्मिताम् ॥एकाकी प्रययौ योद्धुं प्रद्युम्नबलसम्मुखे ॥३६॥दंतवक्त्रः कृष्णवर्णं कज्जलाद्रिसमप्रभम् ॥ललज्जिह्वं घोररूपं तालवृक्षदशोच्छ्रितम् ॥३७॥किरीटकुण्डलधरं हेमवर्णविभूषितम् ॥किंकिणीजालसंयुक्तं चलच्चरणनूपुरम् ॥३८॥कंपयन्तं भुवं वेगात्पातयन्तं गिरीन्द्रुमान् ॥घातयंतं स्वगदया कृतांतमिव दुर्जनान् ॥३९॥तं दृष्ट्वा यादवाः सर्वे भयं प्रापुर्मृधांगणे ॥आगते दंतवक्त्रे च महान्कोलाहलो ह्यभूत् ॥४०॥प्रद्युम्नः प्रेषयामास तस्योपरि महद्बलम् ॥अष्टादशाक्षौहिणीनां धनुष्टंकारयन् मुहुः ॥४१॥बाणैः परश्वधैः राजञ्छतघ्नीभीर्भृशुंडिभिः ॥तं तेडुर्यादवाः सर्वे सर्वतोऽद्रिं यथा गजाः ॥४२॥दंतवक्रः स्वगदया करींद्रानुत्कटान्बहून् ॥पातयामास राजेंद्र भिन्नकुंभस्थलान् मृधे ॥४३॥कांश्चित्पादेषु चोन्नीय किंकिणीजालनादितान् ॥सशृङ्खलान्सनीडांस्ताँल्लोलघंटारणत्स्वनान् ॥४४॥वातस्तूलमिवाकाशे चिक्षेप शतयोजनम् ॥शूंडादंडेषु कांश्चिद्वै गृहीत्वा दैत्यपुंगवः ॥४५॥भ्रामयित्वा गजान्दिक्षु नदतः प्राक्षिपद्रुषा ॥कांश्चिद्गजान्वंशयोश्च कक्षयोरुभयोरपि ॥४६॥पद्भ्यामाक्रम्य शुशुभे दैत्यः कालाग्निरुद्रवत् ॥रथान्ससूतान्साश्वांश्च सध्वजान्समहारथान् ॥चिक्षेप गगने वीरः पद्मानीव प्रभञ्जनः ॥४७॥तुरगांश्च पदातीश्च प्राक्षिपद्गगने बलात् ॥अधोमुखा ऊर्ध्वमुखा राजपुत्रा महाबलाः ॥४८॥सशत्रा रत्नकेयुरसंयुक्तास्तारका इव ॥आकाशात्प्रपतंतस्ते वमंतो रुधिरं मुखात् ॥४९॥बलं विलोडयामास गदया दैत्यपुंगवः ॥दंष्ट्रया प्रलयाब्धिं श्रीवराह इव मैथिल ॥५०॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे कोंकणकुटकत्रिगर्तकेरलतैलंगमहाराष्ट्रकर्णाटविजये कारूषदेशगमनं नाम दशमोऽध्यायः ॥१०॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP