संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ३९ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ३९ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता शकुनियुद्धे कृष्णागमनम् Translation - भाषांतर श्रीनारद उवाच -शकुनिः पुनरुत्थाय स्वबलं वीक्ष्य पोथितम् ॥जग्राह स महाराज लक्षभारसमं धनुः ॥१॥निधाय बाणं निशितं कोदण्डे चण्डविक्रमे ॥कार्ष्णिं प्राह रणे राजञ्छकुनिर्दैत्यराड्बली ॥२॥शकुनिरुवाच -कर्म प्रधानं जगतीतले मह-त्कर्मैव साक्षाद्गुरुरीश्वरः प्रभुः ॥उच्चावचत्वं भवतीह कर्मणातेनैव राजन् विजयः पराजयः ॥३॥गवां सहस्रेषु यथा हि वत्सकःस्वमातरं विंदति पश्यतां सताम् ॥तथा हि येनापि कृतं शुभाशुभंनरेषु तिष्ठत्सु तमेव गच्छति ॥४॥ततो विजेष्यामि दृढेन कर्मणारिपुं भवन्तं शपथः कृतो मया ॥सद्यः कुरु त्वं प्रतिकारमेव त-द्येनापि न स्याद्भुवि ते पराजयः ॥५॥श्रीप्रद्युम्न उवाच -कर्म प्रधानं यदि मन्यसे भवान्कालं विना तर्हि फलं न विद्यते ॥कृते च पाके यदि विघ्नता क्वचित्सदा बलिष्ठं समयं विदुः परे ॥६॥पाकप्रकारे सति पाकसाधनंकदापि कर्तारमृते न जायते ॥वदन्ति कर्तारमतः परं परेन कर्म कालं शृणु दैत्यपुंगव ॥७॥योगं विदुः केऽपि यदा ह्ययोगतःकथं भवेत्कौ किल पाकसाधनम् ॥सर्वं हि वा योगमृते वृथा भवे-त्काले तथा कर्मणी कर्तरि स्थिते ॥८॥योगं तथा कर्मणि कर्तरि स्थितेकाले विधिः सांख्यमृते वृथा भवेत् ॥पाकप्रकाराद्यविचारकृद्यदान तर्हि पाकस्य यथा प्रसाधनम् ॥९॥योगकर्मविधिकारकसंख्यै-र्ब्रह्मपूरुषमृते न हि किंचित् ॥तं नमामि परिपूर्णतमांशंयेन विश्वमखिलं विदितं खे ॥१०॥शकुनिरुवाच -हे प्रद्युम्न महाबाहो त्वं साक्षाज्ज्ञानशेवधिः ॥तव दर्शनमात्रेण नरो याति कृतार्थताम् ॥११॥ये त्वसंगं समासाद्य वार्तां कुर्वन्ति नित्यशः ॥तेषां तु महिमानं हि वक्तुं नालं चतुर्मुखः ॥१२॥श्रीनारद उवाच -इत्युक्त्वा शकुनिर्दैत्यो मायावी दैत्यराड्बली ॥शिक्षितं मयदैत्येन रौरवास्त्रं समादधे ॥१३॥महोरगा दंदशूका वृश्चिकाश्च विषोत्कटाः ॥कोटिशो गरुडा बाणान्नीलकंठाः कलापिनः ॥१४॥तैर्दर्शितं बलं सर्वं फूत्कारैर्मत्ततां गतम् ॥वीक्ष्य कार्ष्णीर्महाबुद्धिर्गरुडास्त्रं समादधे ॥१५॥कोटिशो गरुडा बाणान्नीलकंठाः कलापिनः ॥अन्ये च पक्षिणो भीमा निर्गतास्तस्य पश्यतः ॥१६॥अग्रसन्नुरगान्युद्धे दन्दशूकान्सवृश्चिकान् ॥तीक्ष्णतुण्डा बृहत्पक्षाः क्षणात्तेऽदृश्यतां गताः ॥१७॥दैत्योऽपि राक्षसीं मायां गांधर्वी गौह्यकीं पुनः ॥पैशाचीं संदधे राजञ्छकुनिर्युद्धदुर्मदः ॥१८॥तद्बाणनिर्गता भूतास्तथा प्रेताश्च कोटिशः ॥अंगारान्मुमुचुस्ते वै करालाः कृष्णरूपिणः ॥१९॥ज्ञात्वाथ तामसीं मायां पैशाचीं मीनकेतनः ॥सत्त्वास्त्रं संदधे बाणे युद्धकांक्षी हरेः सुतः ॥२०॥तस्माद्विनिर्गता राजन् कोटिशो विष्णुपार्षदाः ॥जघ्नुः पिशाचीं तां मायां पन्नगीं गरुडो यथा ॥२१॥मायां दैत्योऽपि मायावी गौह्यकीं संदधे पुनः ॥संभूताः कोटिशो मेघा गर्जतो भीमरूपिणः ॥२२॥विष्ठां मूत्रं च रुधिरं मेदोमज्जास्थिवर्षिणः ॥ज्ञात्वाथ गौह्यकीं मायां प्रद्युम्नो भगवान्हरिः ॥२३॥तन्नाशार्थं महाराज कोलास्त्रं संदधे त्विषौ ॥तद्गणाद्यज्ञवाराहो निर्गतो घर्घरस्वनः ॥२४॥सटा विधूय वेगेन दंष्ट्रया तीक्ष्णया घनान् ॥विदारयन्रणे रेजे वेणून्मत्तगजो यथा ॥२५॥दैत्योऽथ मायां गांधर्वीं चकार रणमण्डले ॥युद्धं न दृश्यते तद्वद्धेमसौधानि कोटिशः ॥२६॥वस्त्रालंकारयुक्तानि बभूवुः पश्यतां सताम् ॥विद्याधर्यश्च गन्धर्वा गायन्तो नृत्यतत्पराः ॥२७॥मृदङ्गतालवादित्रैर्मोहनै रागमिश्रितैः ॥हावभावकटाक्षैश्च तोषयंत्यो जनान्नृप ॥२८॥मोहिन्यः सुन्दरी रामाः श्यामाः कमललोचनाः ॥तासां लावण्यरागाभ्यां मोहं यातेषु वृष्णिषु ॥२९॥गांधर्वीं मोहिनीं मायां ज्ञात्वा कार्ष्णिर्महाबलः ॥संदधे तत्प्रहारार्थे ज्ञानास्त्रं रणमण्डले ॥३०॥ज्ञानोदये तदा जाते मोहनाशो नृपेश्वर ॥नाशं गतायां मायायां शकुनिः क्रोधमूर्च्छितः ॥३१॥राक्षसीं संदधे मायां मायावी दैत्यपुंगवः ॥सपक्षैः पर्वतै राजन् क्षणात्तच्छादितं नभः ॥३२॥महांधकारोऽभूत्पृथ्व्यां परार्द्धं च घनैरिव ॥दग्धवृक्षशिलास्थीनि कबंधरुधिराणि च ॥३३॥गदापरिघनिस्त्रिंशमुसलादीनि सर्वतः ॥अंबराद्बभ्रमुः शैला मेघा इव विदेहराट् ॥३४॥रक्षोगणाः शूलहस्ताश्छिन्धि भिंधीति वादिनः ॥यातुधानाश्च शतशो भक्षयन्तो द्विपान्हयान् ॥३५॥सिंहव्याघ्रवराहाश्च दृश्यंते रणमण्डले ॥मर्दयन्तो नखैर्नागांश्चर्वयंतो वपूंषि वै ॥३६॥पलायमानं स्वबलं दृष्ट्वा कार्ष्णीर्महाबलः ॥जेतुं तां राक्षसीं मायां नृसिंहास्त्रं समादधे ॥३७॥आविर्भूतो हरिः साक्षान्नृसिंहो रौद्ररूपधृक् ॥स्फुरत्सटो ललज्जिह्वो नखलांगूलभूषितः ॥३८॥चलद्बालो भीषणास्यो हुङ्कारेणातिभीषणः ॥सिंहनादं च कुर्वन् वै संस्थितो रणमण्डले ॥३९॥ननाद तेन ब्रह्मांडं सप्तलोकैर्बिलैः सह ॥विचेलुर्दिग्गजास्तारा राजद्भूखंडमण्डलम् ॥४०॥गृहीत्वा ह्यंबरे शैलान्सवृक्षान्नखरः खरैः ॥पातयामास भूपृष्ठे दैत्यानां च प्रपश्यताम् ॥४१॥रक्षोगणान्संगृहीत्वा पाटयामास वेगतः ॥यातुधानगणान्पद्भ्यां स ममर्द हरिर्मृधे ॥४२॥सिंहान्व्याघ्रान्वराहांश्च संविदार्य नखैः खरैः ॥चिक्षेप गगने विष्णुस्तत्रैवांतर्दधे पुनः ॥४३॥नाशं गतायां मयायां राक्षस्यां रुक्मिणीसुतः ॥शंखं दघ्मौ विजयदं मौलेन्द्रं च रणांगणे ॥४४॥अभूज्जयजयारावो दुन्दुभिध्वनिमिश्रितः ॥प्रद्युम्नस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥४५॥स्वमायायां निर्गतायां शकुनिर्दैत्यपुंगवः ॥सरथः सैनिकैः सार्द्धं तत्रैवांतर्हितोऽभवत् ॥४६॥मायां चकार दैतेयीं मयदैत्यप्रदर्शिताम् ॥हस्तिशुण्डासमां धारां वर्षतोऽतितडित्स्वनाः ॥४७॥सांवर्त्तकगणा मेघा आजग्मुः पश्यतां सताम् ॥क्षणात्सर्वे समुद्रास्ते चण्डवातेन वेपिताः ॥४८॥क्षुभिता उर्मिसङ्घर्षावर्तैः प्लावितभूरुजाः ॥भूमण्डलं सपदि तत्प्लावितं चात्मभिः समम् ॥४९॥दृष्ट्वाथ यादवाः सर्वे प्रापुस्तत्र भयं बहु ॥वदन्तो रामकृष्णेति विस्मृतस्वपराक्रमाः ॥५०॥क्षणमात्रेण राजेंद्र तूष्णींभूताः पराजिताः ॥तदा कार्ष्णिर्महाबाहुः कोदण्डे चण्डविक्रमे ॥बाणं निधाय सहसा श्रीकृष्णास्त्रं समादधे ॥५१॥नवार्ककोटिद्युतिमन्महन्महोवीरं जयन्मैथिल वै दिशो दश ॥समागतं तत्र कुशस्थलीपुरःस्वयं परं स्वार्थमिवात्मवांछितम् ॥५२॥तस्मिन्परे तेजसि नूतनांबुद-च्छविं सुवर्णांबुजरेणुवाससम् ॥भृंगावलीकूजितकुन्तलावलिंस्रजं दधानं नववैजयन्तीम् ॥५३॥श्रीवत्सरत्नोत्तमचारुवक्षसमंचतुर्भुजं पद्मविशालवीक्षणम् ॥स्फुरत्किरीटं वरहारनूपुरंलसन्नवार्कद्युतिहेमकुण्डलम् ॥५४॥विलोक्य देवं यदवोऽतिहर्षिताःपरं प्रणेमुः कृतहस्तसंपुटाः ॥प्रचक्रिरे मैथिल पुष्पवर्षिणो-ऽमरा जयारावमतीव सर्वतः ॥५५॥स दैत्यशकुनेः सज्जं कोदंडं प्राच्छिनद्रुषा ॥शार्ङ्गमुक्तेन तच्छार्ङ्गी बाणेनैकेन लीलया ॥५६॥स छिन्नधन्वा शकुनिस्त्यक्त्वा युद्धं प्रधर्षितः ॥हेतिसंहतिमानेतुं ययौ चन्द्रावतीं पुरीम् ॥५७॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे श्रीकृष्णागमनं नामैकोनचत्वारिंशोऽध्यायः ॥३९॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP