संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ३२ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ३२ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता हृष्टदैत्यवधम् Translation - भाषांतर श्रीनारद उवाच -अथ कार्ष्णिर्महाबाहुः केतुमालं विजित्य सः ॥भद्राश्वं प्रययौ धन्वी खंडं योगसमृद्धिमत् ॥१॥यस्य सीमागिरिः साक्षाद्राजते गन्धमादनः ॥सीतानाम्नी यत्र गंगा वहंती पापनाशिनी ॥२॥वेदक्षेत्रे महातीर्थे सर्वपापप्रमोचने ॥हयग्रीवो महाबाहुर्यत्र संनिहितो हरिः ॥३॥भद्रश्रवा धर्मसुतस्तस्य सेवां करोति हि ॥गंगातीरस्य पुलिने प्रद्युम्नस्य महात्मनः ॥बभूवुः शिबिरव्यूहा हेमांबरमनोहराः ॥४॥भद्रश्रवा धर्मसुतो महात्माभद्राश्वदेशाधिपतिर्महौजाः ॥प्रदक्षिणीकृत्य ननाम भक्त्यादत्वा बलिं कृष्णसुताय चाह ॥५॥भद्रश्रवा उवाच -त्वं साक्षाद्भगवान्पूर्णः परिपूर्णतमः स्वयम् ॥साधूनां रक्षणार्थाय जगज्जेतुं विनिर्गतः ॥६॥भगवञ्छंबरो नाम दैत्यः पूर्वं जितस्त्वया ॥तस्य भ्राता महादुष्टः कनीयानुत्कचः स्मृतः ॥७॥गोकुले कृष्णचंद्रेण मारितः शकटस्थितः ॥तस्य भ्राता महादुष्टो ज्येष्ठोऽस्ति शकुनिर्बली ॥८॥जेतुं योग्यस्त्वया देव नान्यैरपि कदाचन ॥श्रीप्रद्युम्न उवाच -कस्य वंशे समुद्भूतः शकुनिर्नाम दैत्यराट् ॥९॥कस्मिन्पुरे स्थितिस्तस्य बलं किं वद धर्मज ॥भद्रश्रवा उवाच -कश्यपस्य मुनेर्दित्यामादिदैत्यौ बभूवतुः ॥१०॥हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्तथा ॥हिरण्याक्षस्य तस्यापि बभूवुर्नव पुत्रकाः ॥११॥शकुनिः शंबरो हृष्टो भूतसंतापनो वृकः ॥कालनाभो महानाभो हरिश्मश्रुस्तथोत्कचः ॥१२॥देवकूटाद्दक्षिणे हि जठरस्य गिरेरधः ॥पुरी चन्द्रावती नाम दैत्यानां दुर्गमंडिता ॥१३॥शकुनिस्तत्र वसति भ्रातृभिः षड्भिरावृतः ॥यदा यदा हि मुनयो यज्ञारम्भं प्रकुर्वते ॥१४॥तदा तदा हि तेनापि भंगोऽकारि यदूत्तम ॥यस्माच्च संति शक्राद्या उद्विग्नाः सात्वतांपते ॥१५॥जेतुं योग्यस्त्वया देव देवध्रुग्दैत्यपुंगवः ॥त्वया जितं जगत्सर्वं भक्तानां शांतिकारणात् ॥१६॥प्रद्युम्नाय नमस्तुभ्यं चतुर्व्यूहाय ते नमः ॥गोविप्रसुरसाधूनां छंदसां पतये नमः ॥१७॥श्रीनारद उवाच -एवं सम्प्रार्थितः साक्षात्प्रद्युम्नो भगवान् हरिः ॥देवाय भद्रश्रवसे मा भैष्टेत्यभयं ददौ ॥१८॥अथ कार्ष्णिर्महाबाहुः स्वसैन्यपरिवारितः ॥पुरीं चंद्रावतीं गन्तुं प्रस्थानमकरोत्तदा ॥१९॥मन्मुखाच्छकुनिः श्रुत्वा प्रागच्छंतं यदूत्तमम् ॥दैत्यानां सदसि प्राह शूलमुद्यम्य दैत्यराट् ॥२०॥शकुनिरुवाच -दिष्ट्या दिष्ट्या हि शत्रुर्मे प्रद्युम्नोऽत्र समागतः ॥जेतुं योग्यो मय दैत्या भ्रातुर्मय्यस्ति प्रागृणम् ॥२१॥भ्राता मे शंबरो नाम येन पूर्वं च मारितः ॥तस्मात्तं घातयिष्यामि प्रद्युम्नं यदुभिः सह ॥ २२॥तस्माद्यात बलं तस्य विध्वस्तं कुरुतासुराः ॥पश्चात्पुरंदराधीशं घातयिष्यामि निर्जरान् ॥२३॥श्रीनारद उवाच -इति श्रुत्वा वचस्तस्य दैत्यो हृष्टो महाबलः ॥आययौ संमुखे योद्धुं दैत्यकोटिसमावृतः ॥२४॥प्रद्युम्नो भगवान्साक्षाल्लीलामानुषविग्रहः ॥महत्याः सर्वसेनाया गृध्रव्यूहं चकार ह ॥२५॥गृध्रचंचौ वर्तमानोऽनिरुद्धो धन्विनां वरः ॥ग्रीवायामर्जुनः पृष्ठे सांबो जांबवतीसुतः ॥२६॥पादयोरुभयो राजन्नास्थितौ दीप्तिमद्गदौ ॥कार्ष्णिः साक्षात्तदुदरे पुच्छे भानुर्हरेः सुतः ॥२७॥बभूव तुमुलं युद्धं सीतागंगातटे नृप ॥दैत्यानां यदुभिः सार्द्धमब्धीनामब्धिभिर्यथा ॥२८॥बाणैस्त्रिशूलैर्मुसलैर्मुद्गरैस्तोमरर्ष्टिभिः ॥ववृर्षुर्दानवाः सर्वे धाराभिरिव वारिदाः ॥२९॥रुरोध सूर्यं चाकाशं सैन्यपादरजो भृशम् ॥राजन्स्वबाणं च यथा वारिदाः प्रावृडुद्भवाः ॥३०॥वृको हर्षोऽनिलो गृध्रो वर्द्धनोऽन्नाद एव च ॥महाशः पवनो वह्निः क्षुदिश्च दशमः स्मृतः ॥३१॥मित्रविंदात्मजा ह्येते युयुधुर्दानवैः सह ॥बाणांधकारे संजाते वृको नाम हरेः सुतः ॥३२॥सर्वेषामग्रतः प्राप्तो धनुष्टंकारयन्मुहुः ।दैत्यान्बिभेद बाणौघैः कुवाक्यैर्मित्रतामिव ॥३३॥गजान् रथान् हयान् वीरान्पातयामास भूतले ॥निपेतुश्छिन्नकवचाश्छिन्नचापा रणांगणे ॥३४॥वृकबाणैर्भिन्नपादा वृक्षा वातहता इव ॥अधोमुखा ऊर्ध्वमुखा बाणौघैश्छिन्नबाहवः ॥३५॥रेजू रणांगणे राजन् भांडव्यूहा इवाहताः ॥द्विधाभूता गजा बाणैः पतिता रणमंडले ॥३६॥विरेजुश्छुरिकाविद्धाः कूष्मांडशकला इव ॥तदैव हृष्टः संप्राप्तः सिंहारूढो महाबलः ॥३७॥बिभेद कवचं तस्य सिंजिनीं दशभिः शरैः ॥चतुर्भिश्चतुरो वाहान्द्वाभ्यां सूतं ध्वजं तथा ॥३८॥त्रिभी रथं च बाणानां विंशत्या दनुजाधिपः ॥छिन्नधन्वा वृको भूत्वा हताश्वो हतसारथिः ॥३९॥अन्यं रथं समारूढो धनुर्जग्राह रोषतः ॥तावत्तस्य धनुर्हृष्टश्चिच्छेद समरेऽसुरः ॥४०॥तदा गदां समादाय वृको यादवपुंगवः ॥तताड मूर्ध्नि पञ्चास्यं दैत्यं पृष्ठस्थितं पुनः ॥४१॥मृगेन्द्रः क्रोधसंपूर्णः समुत्पत्य रणांगणे ॥अनेकान्पातयामास नखैर्दंतैः करैरपि ॥४२॥हुंकारं भीषणं कृत्वा ललज्जिह्वः स्फुरत्सटः ॥वृकं संपातयामास रंभादंडं गजो यथा ॥४३॥गृहीत्वा तु वृको दोर्भ्यां पातयित्वा महीतले ॥तस्योपरि नदंस्तस्थौ मल्लो मल्लं यथा नृप ॥४४॥उत्पतंतं पुनः सिंहं चर्वयन्तं तनुं बलात् ॥तताड मुष्टिना तं वै मित्रविंदात्मजो बली ॥४५॥तस्य मुष्टिप्रहारेण केसरी पंचतां गतः ॥तदा क्रुद्धो हृष्टदैत्यः शूलं चिक्षेप सत्वरम् ॥४६॥शूलं स्फुरन्महोल्काभं चिच्छेद त्वसिना वृकः ॥तीक्ष्णया तुंडया राजन्फणिनं गरुडो यथा ॥४७॥हृष्टोऽपि स्वमसिं नीत्वा नादयन् स्वं महाबलम् ॥जघान तं वृकं मूर्धि कंपयन् वसुधातलम् ॥४८॥खड्गकोशे ततः खड्गमुपधार्य वृको बली ॥कंधरे स्वेन खड्गेन तं तताड स्फुरच्छुचम् ॥४९॥खड्गच्छिन्नं शिरस्तस्य दैतस्य पतितं भुवि ॥रेजे कमंडलुमिव सकिरीटं सकुंडलम् ॥ ५०॥हृष्टे मृते तदा दैत्याः शेषा सर्वे पलायिताः ॥भयातुरा महाराज ययुश्चंद्रावतीं पुरीम् ॥५१॥देवदुंदुभयो नेदुर्नरदुंदुभयस्तदा ॥श्रीवृकस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥५२॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे हृष्टदैत्यवधो नाम द्वात्रिंशोऽध्यायः ॥३२॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP