विश्वजितखण्डः - अध्यायः ३८
गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.
बहुलाश्व उवाच -
हरिश्मश्र्वादिकान् भ्रातॄन् मृतान् ज्ञात्वा महासुरः ॥
शकुनिः किं चकाराग्रे वद तन्मुनिसत्तम ॥१॥
श्रीनारद उवाच -
हरिश्मश्रौ हते राजन् शकुनिः क्रोधमूर्च्छितः ॥
रणाङ्गणे प्राह दैत्यान् भ्रातृशोकपरिप्लुतः ॥२॥
शकुनिरुवाच -
हे पौलोमकालकेयाः सर्वे शृणुतु मद्वचः ॥
अहो दैवबलं येन किन्न भुयाद्विपर्ययः ॥३॥
कालनाभेन मे भ्रात्रा समुद्रमथने यमः ॥
जितः पूर्वं सोऽपि दैवान्मनुष्यैरिह मारितः ॥४।
शंबरः सूर्यजित्साक्षात्कार्ष्णिना शिशुना जितः ॥
उत्कचः शक्रजेतापि महाबल महाबलः ॥५॥
सोऽपि बालेन कृष्णेन मारितो नारदाच्छ्रुतम् ॥
समुद्रमथने पूर्वमसुराणां च पश्यताम् ॥६॥
वह्निर्जितो हि येनापि हृष्टः सोऽपि निपातितः ॥
यस्याग्रे वरुणः पूर्वं युद्धभीतः पलायितः ॥७॥
भूतसंतापनः सोऽपि मारितस्तुच्छविक्रमैः ॥
येन पूर्वं महायुद्धे विक्रमैस्तोषितः शिवः ॥८॥
स वृको वृष्णिभिस्तुच्छैर्मारितः सङ्गरेऽत्र वै ॥
महानाभेन मे भ्रात्रा दिवि वायुर्विनिर्जितः ॥९॥
मानुषैर्यादवैरत्र मारितः सोऽपि सांप्रतम् ॥
हा दैव येन स्वर्लोके जितः शक्रसुतो बली ॥१०॥
निपातितः सोऽपि चात्र हरिश्मश्रुश्च मानवैः ॥
तस्मादयादवीं पृथ्वीं करिष्ये शपथो मम ॥११॥
जरासंधेन शाल्वेन दन्तवक्त्रेण धीमता ॥
शिशुपालेन मित्रेण युष्माभिः सहितो ह्यहम् ॥१२॥
सुतलाच्च समाहूतै-र्दानवैश्चण्डविक्रमैः ॥
देवान् जेतुं गमिष्यामि बाणासुरसमन्वितः ॥१३॥
कार्ष्ण्यादीनुद्भटान्सर्वान्वृष्णीञ्जित्वा दुरात्मनः ॥
सस्त्रीकानमरान्बद्ध्वा क्षिपे मेरुगुहामुखे ॥१४॥
गोविप्रसुरसाधूंश्च छन्दांसि च तपस्विनः ॥
यज्ञं श्राद्धं तितिक्षूंश्च नानातीर्थकरान्पुनः ॥१५॥
हनिष्यामि न सन्देहश्चरिष्यामि सुखं ततः ॥
धन्यः कंसो महावीर्यो देवानां विजयी बली ॥१६॥
न विद्यते भूमितले मित्रं मे परमः सुहृत् ॥
श्रीनारद उवाच -
इत्युक्त्वा शकुनिर्युद्धे दानवेंद्रो महाबलः ॥१७॥
आययौ सहसा दैत्यः प्रद्युम्नस्यापि संमुखे ॥
महाधनुः समादाय लक्षभारसमं दृढम् ॥१८॥
मयेन निर्मितं तज्ज्याटंकारं स चकार ह ॥
धनुष्टङ्कारशब्देन दिग्गजा बधिरीकृताः ॥१९॥
निपेतुर्गिरयोऽनेका विचेलुः सिंधवो नृप ॥
ननाद सर्वं ब्रह्माण्डं चकंपे मण्डलं भुवः ॥२०॥
वीरोपरि गता वीरा ज्याघोषेणातिविह्वलाः ॥
रणाद्विदुद्रुवुर्नागा उत्पतन्तो हया मृधे ॥२१॥
एवं पलायिताः सर्वे ह्यकस्माद्भयविह्वलाः ॥
तदा गदादयो वीरा आजग्मुः स्यंदने स्थिताः ॥२२॥
धनुष्टंकारयन्तस्ते महाबलपराक्रमाः ॥
शकुनिर्दशभीर्बाणै-र्विव्याधार्जुनमाहवे ॥२३॥
गांडीवी सरथस्तस्माच्चतुष्क्रोशे पपात ह ॥
गदं च बाणविंशत्या शकुनिर्युद्धदुर्मदः ॥२४॥
चिक्षेप सरथं राजन्नादयन् व्योममण्डलम् ॥
चत्वारिंशच्छरैर्वीरोऽनिरुद्धं धन्विनां वरम् ॥२५॥
विव्याध सरथं राजन्नादयन् व्योममण्डलम् ॥
साश्वो रथोऽनिरुद्धस्य षोडशक्रोशमास्थितः ॥२६॥
सांबं च शितबाणैश्च तताड शकुनिर्मृधे ॥
सांबोऽपि सरथो राजन्नंबरे समरांगणात् ॥२७॥
द्वात्रिंशद्योजनं मार्गं निपपात विदेहराट् ॥
कार्ष्णिं समागतं दृष्ट्वा शकुनिः क्रोधपूरितः ॥२८॥
सहसा बाणपटलैः संजघान रणांगणे ॥
प्रद्युम्नस्य रथो राजन्सम्भ्रमन्घटिकाद्वयम् ॥२९॥
शतक्रोशे पपातोर्व्यां कमण्डलुरिवाहतः ॥
सर्वे विसिस्मुः शकुनेर्बलं दृष्ट्वाथ यादवाः ॥३०॥
जघ्नुर्नानाविधैः शस्त्रैर्दैत्यमद्रिं यथा गजाः ॥
गदोऽर्जुनोऽनिरुद्धस्तु सांबो जांबवतीसुतः ॥३१॥
धनुष्टंकारयंतस्ते पुनर्युद्धं समागताः ॥
अथ कार्ष्णिर्महाबाहुर्वायुवेगे रथे स्थितः ॥३२॥
धनुष्टंकारयन् राजन् प्राप्तोऽभूद्रणमण्डले ॥
प्रलयार्णवसंघट्ट-भीमसंघर्षनादिनीम् ॥३३॥
धनुर्ज्यां शकुनेः कार्ष्णिश्चिच्छेद दशभिः शरैः ॥
सहस्रैश्च सहस्राश्वान् रथं च विशिखैः शतैः ॥३४॥
सारथिं बाणविंशत्या पातयामास भूतले ॥
ततो रथं समुत्थाप्य हयैरर्न्यैर्नियोजितम् ॥३५॥
अन्यसूतं रथे कृत्वा रथमारुह्य दैत्यराट् ॥
संदधे सिञ्जनीं राजन् कोदण्डे चंडविक्रमे ॥३६॥
शतं बाणान्समाकृष्य निषंगात्पृष्ठतो गतान् ॥
चापे निधाय कर्णांतमाकृष्य प्राह मन्मथम् ॥३७॥
शकुनिरुवाच -
सर्वेषां घातयिष्यामि शत्रुमुख्यं मदोत्कटम् ॥
पश्चात्सेनां हनिष्यामि यदूनां स्वस्थतेजसाम् ॥३८॥
प्रद्युम्न उवाच -
सदा वयः कालबलेन देहिनां
प्रयाति छायेव सुखे मुहुर्मुहुः ॥
तथा च दुःखं च सुखं गतागतं
घनावलिर्वायुबलेन खे यथा ॥३९॥
कृतां कृषिं सिंचति यां हि सर्वत-
श्छिनत्ति दात्रेण यथा कृषीवलः ॥
तथा हि कालः स्वकृतां जनावलिं
दुरत्ययः पाति गुणैर्विलुंपति ॥४०॥
इदं करिष्यामि करोमि भूयो
ममेदमस्तीति तदेवमाब्रुवन् ॥
अहं सुखी दुःखयुतः सुहृज्जनो
लोकस्त्वहंकारविमोहितोऽसुर ॥४१॥
धन्यस्त्वं राजशार्दूल मुनीन् वाग्भिर्विडंबयन् ॥
स्वभावो दुस्त्यजो नॄणां पृथग्भूतस्त्रिभिर्गुणैः ॥४२॥
श्रीनारद उवाच -
एवं ब्रुवाणावन्योन्यं प्रद्युम्नशकुनी मृधे ॥
युयुधाते मैथिलेन्द्र शक्रवृत्राविव स्थितौ ॥४३॥
इति तौ धनुषो मुक्तान् विशिखान्सूर्यरश्मिवत् ॥
चिच्छेद कार्ष्णिर्बाणेन कुवाक्येनेव मित्रताम् ॥४४॥
लक्षभारमयीं गुर्वीं गृहीत्वा महतीं गदाम् ॥
जघान मूर्ध्नि प्रद्युम्नं शकुनिर्युद्धदुर्मदः ॥४५॥
प्रद्युम्नो भगवान्साक्षाद्गदया वज्रकल्पया ॥
काचपात्रं यथा दण्डस्तद्गदां शतधाऽकरोत् ॥४६॥
अथ दैत्यो रुषाविष्टस्त्रिशूलं च स्फुरद्रुचा ॥
प्रद्युम्नस्याहनन्मूर्ध्नि शब्दमुच्चैः समुच्चरन् ॥४७॥
त्रिशूलेन हरेः पुत्रस्त्रिशूलं शतधाच्छिनत् ॥
कुंतं तीक्ष्णं शकुनये प्राहिणोद्रुक्मिणीसुतः ॥४८॥
कुंतेन विद्धहृदयः किंचिद्व्याकुलमानसः ॥
परिघेण हरेः पुत्रं संतताड रणांगणे ॥४९॥
यमदण्डं ततो नीत्वा रुक्मिणीनंदनो बली ॥
चूर्णीचकार दैत्यस्य परिघं परमाद्भुतम् ॥५०॥
चंचलाश्वांश्च सहसा यमदण्डेन वेगतः ॥
सारथिं स्यन्दनं दिव्यं पातयामास भूतले ॥५१॥
सूते मृत्युं गते साश्वे चूर्णीभूते रथे नृप ॥
परिघे च महादैत्यः खड्गं जग्राह रोषतः ॥५२॥
प्रद्युम्नोऽपि महावीरो यमदण्डेन मैथिल ॥
द्विधा चकार तत्खड्गं पन्नगं गरुडो यथा ॥५३॥
यमदण्डेन तं दैत्यं स्कंधे कार्ष्णिस्तताड ह ॥
तस्याघातेन शकुनिः सद्यो मूर्च्छामवाप ह ॥५४॥
दैत्यसेनां विशेशाशु श्रीकृष्णः क्रोधमूर्च्छितः ॥
निपातयन् महावीरान्वनं वैश्वानरो यथा ॥५५॥
गजांस्तुरंगांश्च रथान्दैत्यांस्तानाततायिनः ॥
पातयामास यमवद्यमदण्डेन माधवः ॥५६॥
छिन्नपादाश्छिन्नमुखाश्छिन्नांगाश्छिन्नबाहवः ॥
द्वैतेया दनुजा युद्धे मूर्च्छिता निधनं गताः ॥५७॥
यमरूपधरं दृष्ट्वा प्रद्युम्नं भीमविक्रमम् ॥
त्यक्त्वा स्वं स्वं रणं केचिद्दुद्रुवस्ते दिशो दश ॥५८॥
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे शकुनियुद्धवर्णनं नामाष्टात्रिंशोऽध्यायः ॥३८॥
N/A
References : N/A
Last Updated : May 21, 2021
TOP