संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथ लक्ष्यस्खलनविधिः

धनुर्वेदसंहिता - अथ लक्ष्यस्खलनविधिः

धनुर्वेदसंहिता


विशाखस्थानकं हित्वा समसन्धानमाचरेत्
गोपुच्छमुख बाणेन सिंहकर्णेन मुष्टिना ॥१२७॥
आकर्षेत् केशिकव्याये न शिखाश्चालयेत्ततः
पूर्वापरौ समं कार्य्यौ समांसौ निश्चलौ करौ ॥१२८॥
चक्षुषी स्पन्दयेन्नैव दृष्टिं लक्ष्ये नियोजयेत्
मुष्टिनाच्छादितं लक्ष्यं शरस्याग्रे नियोजयेत् ॥१२९॥
मनो दृष्टिगतं कृत्वा ततः काण्डं विसर्ज्जयेत्
स्खलत्येव कदाचिन्न लक्ष्ये योद्धा जितश्रमः ॥१३०॥


References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP