संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथाचार्य्यलक्षणम्

धनुर्वेदसंहिता - अथाचार्य्यलक्षणम्

धनुर्वेदसंहिता


आचार्य्यः सप्तयुद्धः स्याच्चतुर्भिर्भार्गवः स्मृतः
द्वाभ्यां चैव भवेद्योध एकेन गणको भवेत् ॥१०॥
हस्तः पुनर्वसुः पुष्यो रोहिणी चोत्तरात्रयम्
अनुराधाश्विनी चैव रेवती दशमी तथा ॥११॥
जन्मस्थे च तृतीये च षष्ठे वै सप्तमे तथा
दशमैकादशे चन्द्रे सर्वकार्य्याणि कारयेत् ॥१२॥
तृतीया पञ्चमी चैव सप्तमी दशमी तथा
त्रयोदशी द्वादशी च तिथयस्तु शुभामताः ॥१३॥
रविवारः शुक्रवारो गुरुवारस्तथैव च
एतद्वारं त्रयं धन्यं प्रारम्भे शस्त्रकर्म्मणाम् ॥१४॥
एभिर्द्दिनैस्तु शिष्याय गुरुः शास्त्राणि दापयेत्
सन्तर्प्य दानहोमाभ्यां सुरान् स्वाहा विधानतः ॥१५॥
ब्राह्मणान् भोजयेत् तत्र कुमारींश्चाप्यनेकशः
तापसानर्च्चयेद्भक्त्या ये चान्ये शिवयोगिनः ॥१६॥
अन्नपानादिभिश्चैव वस्त्रालङ्कारभूषणैः
गन्धमाल्यैर्विचित्रैश्च गुरुं तत्र प्रपूजयेत् ॥१७॥
कृतोपवासः शिष्यस्तु धृताजिन परिग्रहः
बद्धाञ्जलिपुटस्तत्र याचयेद् गुरुतो धनुः ॥१८॥
अङ्गन्यासं ततः कार्य्यं शिवोक्तं सिद्धिमिच्छता
आचार्य्येण च शिष्यस्य पापघ्नं विघ्ननाशनम् ॥१९॥
शिखास्थाने न्यसेदीशं बाहुयुग्मे च केशवम्
ब्रह्माणं नाभिमध्ये तु जङ्घयोश्च गणाधिपम् ॥२०॥
ॐ ह्रीं शिखा स्थाने शङ्कराय नमः
ॐ ह्रीं बाह्वोः केशवाय नमः
ॐ ह्रीं नाभिमध्ये ब्रह्मणे नमः
ॐ ह्रीं जङ्घयोर्गणपतये नमः ॥२१॥
ईदृशं कारयेद् न्यासं येन श्रेयो भविष्यति
अन्येऽपि दुष्टमन्त्रेण न हिंसन्ति कदाचन ॥२२॥
शिष्याय मानुषं चापं धनुर्मन्त्राभिमन्त्रितम्
काण्डात् काण्डाति मन्त्रेण दद्याद्वेदविधानतः ॥२३॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP