संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथ राहुयुक्ता योगिनीबलयुद्धं व्याख्यास्यामः

धनुर्वेदसंहिता - अथ राहुयुक्ता योगिनीबलयुद्धं व्याख्यास्यामः

धनुर्वेदसंहिता


प्रतिपन्नवम्यां प्रथमेऽर्द्धयामे राहु-
युक्ता योगिनी पूर्वस्यां दिशि स्थिता भवति ॥१॥

द्वितीया दशम्यां पञ्चमेऽर्द्धयामे राहु-॥
सहिता शिवा प्रतीच्यामुदेति ॥२॥

तृतीयैकादश्यां तृतीयेऽर्द्धूयामे तमः
संमिलिता पार्वती याम्यां परिभ्रमति ॥३॥

चतुर्थ्यां द्वादश्यां तु सप्तमेऽर्द्धयामे राहुना
सह नगजा चोत्तरे ज्ञेया ॥४॥

पञ्चम्यामथ त्रयोदश्यामष्टमेऽर्द्धयामे
स्वर्भानुयुता गौरी नैरृत्यामटति ॥५॥

गुहतिथौ चतुर्द्दश्यां च कात्यायनी
पवनालये चायाति ॥६॥

सप्तमीपूर्णिमायां चतुर्थेऽर्द्ध प्रहरे विधुन्तुदेन
साकं योगिनीं ऐशान्यां जानीयात् ॥७॥

अष्टम्यमायां षष्ठेऽर्द्धयामे रुद्राणी
तमोयुक्ता साग्नेय्यामीक्ष्यते ॥८॥

द्वितीयेऽर्द्धयामे सैंहिकेययुता
इति राहुयुक्ता योगिनी उपग्राह्या ॥९॥ ॥३४॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP