धनुर्वेदसंहिता - अथ गुण लक्षणानि
धनुर्वेदसंहिता
गुणानां लक्षणं वक्ष्ये यादृशं कारयेद्गुणम्
पट्टसूत्रो गुणः कार्य्यः कनिष्ठामानसम्मितः ॥५०॥
धनुः प्रमाणो निःसन्धिः शुद्धैस्त्रिगुणतन्तुभिः
वर्त्तितः स्याद्गुणः श्लक्ष्णः सर्वकर्म्मसहो युधि ॥५१॥
अभावे पट्टसूत्रस्य हरिणीस्नायुरिष्यते
गुणार्थमपि च ग्राह्या स्नायवो महिषी भवाः ॥५२॥
तत्कालहतछागस्य तन्तुना वा गुणाः शुभाः
निर्लोमतन्तुसूत्रेण कुर्य्याद्वा गुणमुत्तमम् ॥५३॥
पक्ववंशत्वचः कार्य्यो गुणस्तु स्थावरो दृढ
पट्टसूत्रेण सन्नद्धः सर्वकर्म्मसहो युधि ॥५४॥
प्राप्ते भाद्रपदेमासि त्वगर्कस्य प्रशस्यते
तस्यास्तत्र गुणः कार्य्यो न वित्तः स्थावरो दृढः ॥५५॥
गुणाः कार्य्या समुञ्जानां भङ्गस्नाय्वर्कवर्म्मिणाम्
N/A
References : N/A
Last Updated : May 14, 2021

TOP