संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथैतेषां कर्म्माणि

धनुर्वेदसंहिता - अथैतेषां कर्म्माणि

धनुर्वेदसंहिता


आरा मुखेन चर्म्मछेदनम् क्षुरप्रेण बाणकर्त्तनम्
वा बाहुकर्त्तनम् गोपुच्छेन लक्ष्यसाधनम्
अर्द्धचन्द्रेण ग्रीवा मस्तकधनुरादीनां छेदनम्
सूचीमुखेन कवच भेदनम् भल्लेन हृदय-
भेदनम् वत्सदन्तेन गुणचर्व्वणम्
द्विभल्लेन बाणावरोधनम्
कर्णिकेन लोहमयबाणानां छेदनम् काकतुण्डेन
वेध्यानां वेधं कुर्य्यात् ॥६६॥
अन्यद्गोपुच्छकं ज्ञेयं शुद्धकाष्ठविनिर्म्मितम्
मुखे च लोहकण्टेन विद्धं त्र्यङ्गुलसम्मितम् ॥६७॥
बाणस्य फलस्थाने कण्टकयोजनात् गोपुच्छबाणो भवति
अनेन शराभ्यासस्तथा लक्ष्याभ्यासो वा कर्त्तव्यः ॥६८॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP