धनुर्वेदसंहिता - अथ स्थानमुष्ट्याकर्षणलक्षणानि
धनुर्वेदसंहिता
स्थान्यष्टौ विधेयानि योजने भिन्नकर्म्मणाम्
मुष्ट्यः पञ्चसमाख्याता व्यायाः पञ्च प्रकीर्त्तिताः ॥७६॥
अग्रतो वामपादश्च दक्षिणं चानुकुञ्चितम्
प्रत्यालीढं प्रकर्त्तव्यं हस्तद्वयसविस्तरम् ॥७७॥
आलीढे तु प्रकर्त्तव्यं सव्यं चैवानुकुञ्चितम्
दक्षिणन्तु पुरस्ताद्वा दूरपाते विशिष्यते ॥७८॥
पादौ सविस्तरौ कार्य्यौ समौ हस्तप्रमाणतः
विशाखस्थानकं ज्ञेयं कूटलक्ष्यस्य वेधने ॥७९॥
समपादैः समौ पादौ निष्कम्पौ च सुसङ्गतौ
असमे च पुरो वामे हस्तमात्रनतं वपुः ॥८०॥
आकुञ्चितोरुद्वौ यत्र जानुभ्यां धरणीं गतौ
दर्दुरक्रममित्याहुः स्थानकं दृढभेदने ॥८१॥
सव्यं जानुगतौ भूमौ दक्षिणं च सकुञ्चितम्
अग्रतो यत्र दातव्यं तद्विद्याद्गरुडक्रमम् ॥८२॥
पद्मासनं प्रसिद्धन्तु ह्युपविश्य यथाक्रमम्
धन्विनां तत्तुविज्ञेयं स्थानकं शुभलक्षणम् ॥८३॥
N/A
References : N/A
Last Updated : May 14, 2021

TOP