संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता| अथ संग्रामविधिः धनुर्वेदसंहिता प्रणाम अथाचार्य्यलक्षणम् अथ वेधविधिः अथ चापप्रमाणम् अथ शुभचापलक्षणम् अथ वर्ज्जितधनुः अथ गुण लक्षणानि अथ शरलक्षणानि अथ फललक्षणम् अथैतेषां कर्म्माणि अथ पायनम् अथ स्थानमुष्ट्याकर्षणलक्षणानि अथ गुणमुष्टिः अथ धनुर्मुष्टिसन्धानम् अथ धनुर्व्यायाः अथ लक्ष्यम् अथ लक्ष्याभ्यासस्वरूपाणि अथानध्यायः अथ श्रमक्रिया अथ लक्ष्यस्खलनविधिः अथ शीघ्र सन्धानम् अथ दूरपातित्वं हीनगतिसमूहः अथ बाणलक्ष्यस्खलनगतिसमूहः अथ पूर्वोक्त गतिसमूहोदाहरणम् अथ शुद्धगतयः अथ दृढचतुष्कम् अथ काष्ठछेदनम् अथ धावल्लक्ष्यम् अथ विधिः अथ शब्दवेधित्वम् अथ प्रत्यागमनम् अथ अस्त्राणि पाशुपतास्त्रम् अथौषधिः अथ संग्रामविधिः अथ राहुयुक्ता योगिनीबलयुद्धं व्याख्यास्यामः ततो व्यूहादिभिर्युद्धकथनम् पृष्ठतो भये शकटव्यूहम् अथ सेनानयः अथ पदातिक्रमः अथ हस्तिक्रमः अथ शिक्षा धनुर्वेदसंहिता - अथ संग्रामविधिः धनुर्वेदसंहिता Tags : dhanurveddhanurved samhitasamhitaधनुर्वेदधनुर्वेद संहितासंहिता अथ संग्रामविधिः Translation - भाषांतर आदौ तु क्रियते मुद्रा पश्चाद्युद्धं समाचरेत्सर्पमुद्रा कृता येन तस्य सिद्धिर्न संशयः ॥१३॥श्री रुद्रं ध्यात्वा तन्मन्त्रं जपेत्ॐ नमः परमात्मने सर्वशक्तिमते विरूपाक्षाय भालनेत्रायरं हुं फट् स्वाहा ।ततो हैमवतीं ध्यात्वा प्रणम्य युद्धमारभेत् । ॐ ह्रींश्रीं हैमवतीश्वरीं ह्रीं स्वाहा । ॐ ह्रीं वज्रयोगिन्यै स्वाहा ।सिंहासनस्थां रुद्राणीं ध्यायेत् ॥१४॥अपूर्ण शत्रुसामग्री पूर्णे वै स्वबलन्तथाकुरुते पूर्णसत्वस्थो जयत्येको वसुन्धराम् ॥१५॥पृष्ठे दक्षे योगिनी राहुयुक्तायस्यैकोऽयं शत्रुलक्षं निहन्तिअर्कः पृष्ठे दक्षिणे यस्य गाधेचन्द्रे वामे सन्मुखे वै निशायाम्वायु पृष्ठे दक्षिणे यो विदध्यात्योधा शत्रून्नाशयेद्दक्षिणेन ॥१६॥या नाडी वहते चाङ्गे तस्यामेवाधिदेवतासन्मुखेऽपि दिशा तेषां सर्वकार्य्यफलप्रदा ॥१७॥यां दिशं वहते वायुर्युद्धं तद्दिशि दापयेत्जयत्येव न सन्देहः शक्रोऽपि यदि चाग्रतः ॥१८॥सूर्य्ये पूर्वे चोत्तरे च चन्द्रे पश्चिमदक्षिणंसेनापतिबलं त्वेवं प्रेषयेन्नित्यमादरात् ॥१९॥यत्र नाड्या वहेद् वायुस्तदङ्गे प्राणमेव चआकृष्य गच्छेत् कर्णान्तं जयत्येव पुरन्दरम् ॥२०॥प्रतिपक्षप्रहारेभ्यः पूर्णाङ्गं योऽभिरक्षतिन तस्य रिपुभिः शक्तिर्बलिष्ठैरपि हन्यते ॥२१॥अङ्गुष्ठतर्जनीवंशे पादाङ्गुष्ठे तथा ध्वनिःयुद्धकाले च कर्त्तव्यो लक्षयोधाजयी भवेत् ॥२२॥भूतत्त्वे ह्युदरं रक्षेत् पादौ रक्षेज्जलेन चउरूश्च वह्नितलेन करौ रक्षेच्चवायुना ॥२३॥सूर्य्ये पूर्वे चोत्तरे च मुखं कृत्वा जयेन्नरःचन्द्र मुखं सदा कुर्य्याद्दक्षिणे पश्चिमे सुधीः ॥२४॥चिरयुद्धे शुभश्चन्द्रः शीघ्रयुद्धे रविस्तथादूर युद्धे जयी चन्द्रः समीपस्थे दिवाकरः ॥२५॥आकृष्य प्राणपवनं समारोहेच्च वाहनम्समुत्तरेत् पदं दद्यात् सर्वकार्य्याणि साधयेत् ॥२६॥न कालो विविधं घोरं न शस्त्रं न च पन्नगाःन शत्रुव्याधिचौराद्याः शून्यस्थान्नाशितुं क्षमाः ॥२७॥अयनतिथिदिनेशैः स्वीयतत्त्वेऽध्व युक्तोयदि वहति कदाचिद्दैवयोगेन पुंसामस जयति रिपुसैन्यं स्तम्भमात्रस्वरेणप्रभवति न च विघ्नं केशवस्यापि लोके ॥२८॥जीवेन शस्त्रं वघ्नीनाज्जीवेनैव विकासयेत्जीवेन प्रक्षिपेच्छस्त्रं युद्धे जयति सर्वदा ॥२९॥वामनाड्युपदये चन्द्रः कर्त्तव्यो वामसन्मुखःसूर्य्यचारे तथा सूर्य्यः पृष्ठे दक्षिणगो जयेत् ॥३०॥दीप्ते कार्य्ये नाडी परिदिशि जीविता सदा कुर्य्यात्शान्ते च जीवसहितात्वेवं सिद्ध्यन्ति कार्य्याणि ॥३१॥तत्त्वबलान्नाडीवलमधिकं प्रोक्तं कपर्दिना नियतम्ज्ञात्वैनं स्वर चारं नरो भवेत् कार्य्यनिपुणमतिः ॥३२॥न देयमिति क्रुराय कुबुद्धयेऽशान्तायगुरुद्रोहिणेऽभक्तायेति । देयमिति ब्रह्मचारिणेधर्म्मतः प्रजापालदुष्टदण्डविधारिणे साधुसंरक्षकाय इत्येवं प्रवचनं प्रवचनमिति ॥३३॥ N/A References : N/A Last Updated : May 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP