संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथौषधिः

धनुर्वेदसंहिता - अथौषधिः

धनुर्वेदसंहिता


हस्तार्के लाङ्गली कन्दो गृहीतस्तस्य लेपतः
शूरस्यापि रणे पुंसो दर्पं हरति कातरः ॥१॥

गृहीत्वा योगनक्षत्रैरपामार्गस्य मूलकम्
लेपमात्रेण वीराणां सर्वशस्त्रनिवारणम् ॥२॥

अधः पुष्पी शङ्खपुष्पी लज्जालुर्गिरिकर्णिका
नलिनी सहदेवी च पत्रमोञ्जार्कयोस्तथा ॥३॥

विष्णुकान्ता च सर्वासां जटा ग्राह्या रवेर्दिने
बद्धा भुजे विलेपाद्वा काये शस्त्रापवारकाः ॥४॥

सर्पव्याघ्रादिसत्त्वानां भूतादीनां न जायते
भीतिस्तस्य स्थिता यस्य मातरोऽष्टौ शरीरके ॥५॥

गृहीतं हस्तनक्षत्रे चूर्णं छुच्छुन्दरी भवम्
तत्प्रभावाद्गजः पुंसः सम्मुखं नैति निश्चितम् ॥६॥

हरिमांसं गृहीत्वा च मार्गेऽश्वानां क्षिपेद्भुवि
तेन मार्गेण ते चाश्वा नायान्ति ताडनेन वै ॥७॥

छुच्छुन्दरीश्रीफलपुष्पचूर्णैरालिप्तगात्रस्य नरस्य दूरात्
आघ्राय गन्धं द्विरदोऽतिमत्तोमदं त्यजेत् केसरिणो यथोग्रम् ॥८॥

श्वेताद्रिकर्णिका मूलं पाणिस्थं वारयेद्गजम्
श्वेतकण्टारिकामूलं व्याघ्रादीनां भयं हरेत् ॥९॥

पुष्यार्कोत्पाटिते मूले पाठायाः मुखसंस्थिते
देहं स्फुरति नो तीक्ष्णमण्डलाग्रै रणे नृणाम् ॥१०॥

गान्धार्य्या उत्तरं मूलं मुखस्थं सन्मुखागतम्
शस्त्रौधं वारयेत्तत्र पुष्यार्के विधिनोद्धृतम् ॥११॥
अथ विधिरूपवासः
शुभ्रायाः परपुङ्खाया जटनीली जटाथवा
भुजे शिरसि वक्त्रे वा स्थिता शस्त्रनिवारिका
भूपाहिचोरभीतिघ्नी गृहीता पुष्यभास्करे ॥१२॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP