धनुर्वेदसंहिता - अथ पायनम्
धनुर्वेदसंहिता
इषु फले शरवंशामूललेपनाद् ब्रह्मणोऽसाध्यो भवति तच्चिह्नमतेत् । यस्मिन् शरवंशसमूहे ।
स्वाति बिन्दुर्निपतति स पीतवर्णो भवति तस्य मूले विषमुत्पद्यते तन्मूलं ग्राह्यं ।
स च सर्वदा पवनाभावेऽपि कम्पते इदमेव तल्लक्ष्मेति ॥६९॥
फलस्य पायनं वक्ष्ये दिव्यौषधिविलेपनैः
येन दुर्भेद्यवर्म्माणि भेदयेत्तरुपर्णवत् ॥७०॥
पिप्पली सैन्धवं कुष्ठं गोमूत्रे तु सुपेषयेत्
अनेन लेपयेच्छस्त्रं लिप्तं चाग्नौ प्रतापयेत् ॥७१॥
शिखिग्रीवानुवर्णाभं तप्तपीतं तथौषधम्
ततस्तु विमलं तोयं पाययेच्छस्त्रमुत्तमम् ॥७२॥
अथ नाराचनालीकशतघ्नीनां वर्णनम्
सर्व लोहास्तु ये बाणा नाराचास्ते प्रकीर्त्तिताः
पञ्चभिः पृथुलैः पक्षैर्युक्ताः सिद्धयन्ति कस्यचित् ॥७३॥
नालीका लघवो बाणा नलयन्त्रेण नोदिताः
अत्युच्चदूरपातेषु दुर्गयुद्धेषु ते मताः ॥७४॥
सिंहासनस्य रक्षार्थं शतघ्नं स्थापयेत् गढे
रंजकंबहुलं तत्र स्थाप्यं वटयो धीमता ॥७५॥
N/A
References : N/A
Last Updated : May 14, 2021
TOP