धनुर्वेदसंहिता - अथ लक्ष्यम्
धनुर्वेदसंहिता
लक्ष्यं चतुर्विधं ज्ञेयं स्थिरं चैव चलन्तथा
चलाचलं द्वयचलं वेधनीयं क्रमेण तु ॥९५॥
आत्मानं सुस्थिरं कृत्वा लक्ष्यञ्चैव स्थिरं बुधः
वेधयेत् प्रिप्रकारन्तु स्थिरवेधी स उच्यते ॥९६॥
चलन्तु वेधयेद् यस्तु आत्मस्थानेषु संस्थितः
चलं लक्ष्यं तु तत् प्रोक्तमाचार्येण शिवेन वै ॥९७॥
धन्वीतः चलते यत्र स्थिरलक्ष्ये समाहितः
चलाचलं भवेत्तत्र ह्यप्रमेयमाचिन्ततम्
उभावपि चलौ यत्र लक्ष्यं चापि धनुर्द्धरः
तद्विज्ञेयं द्वयचलं श्रमेण बहु साध्यते ॥९८॥
श्रमेणास्खलितादृष्टिः शीघ्रसन्धानमाप्यते ॥९९॥
श्रमेण चित्रयोधित्वं श्रमेण प्राप्यते जयः
तस्माद् गुरुसमक्षं हि श्रमः कार्य्यो विजानता ॥१००॥
N/A
References : N/A
Last Updated : May 14, 2021
![Top](/portal/service/themes/silver/images/up.gif)
TOP