धनुर्वेदसंहिता - अथ वेधविधिः
धनुर्वेदसंहिता
प्रथमं पुष्पवेधं च फलहीनेन पत्रिणा
ततः फलयुतेनैव मत्स्यवेधं च कारयेत् ॥२४॥
एतैर्वेधैः कृतैः पुंसां शराः स्युः सर्वसाधकाः ॥२५॥
वेधने चैव मांसस्य शरपातो यदा भवेत्
पूर्व दिग्भागमाश्रित्य तदा स्याद्विजयी सुखी ॥२६॥
दक्षिणे कलहो घोरो विदेशगमनं पुनः
पश्चिमे धनधान्यञ्च सर्वञ्चैवोत्तरे शुभम् ॥२७॥
ऐशान्यां पवनं दुष्टं विदिशोऽन्यांश्च शोभनाः
हर्षपुष्टिकराश्चैव सिद्धिदाः सर्वकर्म्मणि ॥२८॥
एवं वेधत्रयङ्कुर्याच्छङ्खं दुन्दुभिनिस्वनैः
ततः प्रणम्य गुरवे धनुर्बाणान्निवेदयेत् ॥२९॥
N/A
References : N/A
Last Updated : May 14, 2021

TOP