धनुर्वेदसंहिता - अथ पदातिक्रमः
धनुर्वेदसंहिता
समोच्चा द्विपदा ग्राह्या ह्रसमानाः कदाचन
कूर्द्दने धावने ये वै समास्ते कार्य्यसाधकाः ॥५४॥
पश्चाद् गमनं स्थिरीकरणं श्यनं धावनं तथा
चलनं परसेनायां पार्श्वदिक्षु च कारयेत् ॥५५॥
षष्ठ स्थाने ग्रहा येषां क्रूराः पापाः पतन्ति हि
ते युद्धे युद्ध्यतां वीरा नान्ये कार्य्यकरा यतः
व भ ध ड छ क वर्णा ह्यादिमायां प्रकल्प्य
तदनु हि अच वर्णा आदिकाः सर्व्वलेख्याः
उपरिगतभवस्तान् स्थाप्य सर्वान् क्रमेण
भवति च युवयस्या युद्ध्यतां सा प्रसेना ॥५६॥
उदाहरणम्
यथा विवस्वान् भरतः धन्धुमारः डित्थः
छत्रपतिः कुक्षिः अस्या वस्त्राणि पीतानि ध्वजापीता च तद्वति
युद्धयूपस्तथा पितश्चतुरस्राङ्कसंयुतः ॥५७॥
श्वेतरक्तहरिकृष्णाश्चान्या सेना हित्वादिवत्
कर्त्तव्यापार्थिवैर्नित्यं जयलाभसुखेच्छुमिः ॥५८॥
ब्रह्मा विष्णुश्च रुद्रश्च चन्द्रसूर्यौ यथाक्रमम्
अधीशाः पञ्चसेनानां विज्ञेयाः शृणु गाधिज ॥५९॥
ब्रह्मा रुद्रबले जीयाद्विष्णुश्चन्द्रबले जयेत्
रुद्रः सूर्य्यबलं प्राप्य चन्द्रो ब्रह्मबलं युधि
सूर्य्यो विष्णुबलं लब्ध्वा जयेच्चैव नसंशयः ॥६०॥
अ ब्रह्मा विष्णुरिरुद्र उश्चन्द्रत्वे च भास्करः
ओ ज्ञेयो पार्थिवैर्नित्यं अस्त्रशस्त्रविचक्षणैः ॥६१॥
प्राप्य स्वं स्वं बलं सेना पूर्बोक्ता युद्धगा यदि
क्षणार्द्धेनारीन् सर्वाण्मारयन्तीति रुद्रवाक् ॥६२॥
अथाश्वक्रमः
मण्डलं चतुरस्रञ्च गोमूत्रञ्चार्द्धचन्द्रकम्
नागपाशक्रमेणैव भ्रामयेत् कटपञ्चकम् ॥६३॥
N/A
References : N/A
Last Updated : May 14, 2021
TOP