संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथ चापप्रमाणम्

धनुर्वेदसंहिता - अथ चापप्रमाणम्

धनुर्वेदसंहिता


प्रथमं यौगिकं चापं युद्धचापं द्वितीयकम्
निजबाहुबलोन्मानात् किञ्चिदूनं शुभं धनुः ॥३०॥
वरं प्राणाधिको धन्वी न तु प्राणाधिकं धनुः
धनुषा पीड्यमानस्तु धन्वी लक्ष्यं न पश्यति ॥३१॥
अतो निजबलोन्मानं चापं स्याच्छुभकारकम्
देवानामुत्तमं चापं ततो न्यूनं च मानवम् ॥३२॥
अर्द्धपञ्चमहस्तन्तु श्रेष्ठं चापं प्रकीर्त्तितम्
तद्विज्ञेयं धनुर्दिव्यं शङ्करेण धृतं पुरा ॥३३॥
चतुर्विंशाङ्गुलो हस्तश्चतुर्हस्तं धनुः स्मृतम्
तद्भवेनमानवं चापं सर्वलक्षणसंयुतम् ॥३४॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP