संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथ लक्ष्याभ्यासस्वरूपाणि

धनुर्वेदसंहिता - अथ लक्ष्याभ्यासस्वरूपाणि

धनुर्वेदसंहिता


प्रथमं वामहस्तेन यः श्रमं कुरुते नरः
तस्य चापक्रियासिद्धिरचिरादेव जायते ॥१०१॥
वामहस्ते सुसंसिद्धे पश्चाद्दक्षिणमारभेत्
उभाभ्याञ्च श्रमं कुर्य्यान्नाराचैश्च शरैस्तथा ॥१०२॥
वामेनैव श्रमं कुर्य्यात् सुसिद्धिर्दक्षिने करे
विशाखेनासमेनैव रथी व्याये च कैशिके ॥१०३॥
उदिते भास्करे लक्ष्यं पश्चिमायां निवेशयेत्
अपराह्ने च कर्त्तव्यं लक्ष्यं पूर्व्वदिगाश्रितम् ॥१०४॥
उत्तरेण सदा कार्य्यमवश्यमवरोधिकम्
संग्रामेण विना कार्य्यं न लक्ष्यं दक्षिणामुखम् ॥१०५॥
षष्टिधन्वन्तरे लक्ष्यं ज्येष्ठं लक्ष्यं प्रकीर्त्तितम्
चत्वारिंशत्मध्यमञ्च विंशतिश्च कनिष्ठकम् ॥१०६॥
चत्वारिंशच्च त्रिंशच्च षोडशैव भवेत्ततः ॥१०७॥
चतुः शतैर्श्च काण्डानां यो हि लक्ष्यं विसर्ज्जयेत्
सूर्य्योदये चास्तमने स ज्येष्ठो धन्विनां भवेत् ॥१०८॥
त्रिंशतैर्मध्यमश्चैव द्विशताभ्यां कनिष्ठकः
लक्ष्यं च पुरुषोन्मानं कुर्य्याच्चन्द्रकसंयुतम् ॥१०९॥
ऊर्द्धभेदी भवेज्ज्येष्ठो नाभिभेदी च मध्यमः
पादभेदी तु लक्ष्यस्य स कनिष्ठो मतो भृगो ॥११०॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP