धनुर्वेदसंहिता - अथ पूर्वोक्त गतिसमूहोदाहरणम्
धनुर्वेदसंहिता
कम्पते गुणमुष्टिस्तु मार्गणस्य तु पृष्ठतः
सन्मुखोस्याद्धनुर्मुष्टिस्तदा वामे गतिर्भवेत् ॥१३९॥
ग्रहणं शिथिलं यस्य ऋजुत्वेन विवर्जितम्
पार्श्वन्तु दक्षिणं याति सायकस्य न संशयः ॥१४०॥
ऊर्द्ध्वं भवेच्चापमुष्टिर्गुणमुष्टिरधो भवेत्
समुक्तो मार्गणो लक्ष्यादूर्द्ध्वं याति न संशयः ॥१४१॥
मोक्षणे चैव बाणस्य चापमुष्टिरधो भवेत्
गुणमुष्टिर्भवेदूर्द्ध्वं तदाधोगामिनी गतिः ॥१४२॥
N/A
References : N/A
Last Updated : May 14, 2021

TOP