संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथ काष्ठछेदनम्

धनुर्वेदसंहिता - अथ काष्ठछेदनम्

धनुर्वेदसंहिता


काष्ठेऽश्वकेशं संयम्य तत्र बध्वा वराटिकाम्
हस्तेन भ्राम्यमाणं च यो हन्ति सो धनुर्धरः ॥१५५॥
लक्ष्य स्थानेन्यसेत् काष्ठं सार्द्रं गोपुच्छसन्निभम्
यश्छिन्द्यात्तत् क्षरप्रेण काष्ठच्छेदी स जायते ॥१५६॥
लक्ष्ये बिन्दुं न्यसेच्छुभ्रं शुभ्रबन्धूकपुष्पवत्
हन्ति तं बिन्दुकं यस्तु चित्रयोधा स उच्यते ॥१५७॥
काष्ठगोलयुगं क्षिप्रं दूरमूर्द्धं पुरा स्थितैः
असम्प्राप्तं शरं पृष्ठे तद्गोपुच्छमुखेन हि ॥१५८॥
यो हन्ति शरयुग्मेन शीघ्रसन्धान योगतः
स स्याद्धनुर्भृतां श्रेष्ठः पूजितः सर्वपार्थिवैः ॥१५९॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP