संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| मन्दारवत्याख्यायिका द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका मन्दारवत्याख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत मन्दारवत्याख्यायिका Translation - भाषांतर इति विप्रः समाश्वास्य ददौ मे मन्त्रमुत्तम म् । येन सिद्धेन वेतालः स मया वाहनीकृतः ॥१२२२॥ तत्प्रभावान्मया दृष्टस्त्वमिहस्थः समागतः । इत्युक्त्वा हर्षमतुलं लेभे विक्रमकेसरी ॥१२२३॥ मृगाङ्कदत्तस्तच्छ्रुत्वा तां शशाङ्कवतीं स्मरन् । व्रजन्नुज्जयिनीं प्राप सोऽटवीं निर्जलद्रुमाम् ॥१२२४॥ ग्रीष्मोष्माश्लेषविषमं वर्त्मोत्तीर्य क्रमेण ते । तृष्णासंतापविधुरा ददृशुर्विशदं सरः ॥१२२५॥ व्याप्तं विकाशिभिः पद्मैः सरसैर्गुणशालिभिः ।श्रुत्वा मृगाङ्गनानीतं हर्शोत्कण्टकितैरिव ॥२२६॥ ललनालोचनौपम्यपत्तैरुत्पलसंस्तरैः । कृष्णवक्षःस्थलप्रीतिं विदधानमिव श्रियः ॥१२२७॥ हंसांसघटितस्फारफेनोर्मिवलयोज्ज्वलम् । इन्दुगर्भामृतोत्तुङ्गतरङ्गमिव सागरम् ॥१२२८॥ प्रावृषेण्यघनश्यामैर्वराहैः सेवितान्तरम् । चक्रवाकवियोगाग्निधूमपुञ्जैरिवामृतम् ॥१२२९॥ लोलाम्बुजदलभ्रान्तैर्मुक्ताभैर्जलबिन्दुभिः । दर्शयन्तमिवाश्चर्यं संसारे तरलां स्थितिम् ॥१२३०॥ मुहुः करिकुलाकृष्टबिसदण्डविपाण्डुरम् । कुमुदाकान्तचन्द्रांशुसहस्त्रैरिव पूरितम् ॥१२३१॥ तद्विलोक्य जहुः क्लान्तिं ते हर्षविकचेक्षणाः ।दृष्टमात्रा दिशन्त्येव संतोषं विपुलाशयाः ॥१२३२॥ पश्चिमे तस्य विस्तीर्णं तीरे शाखासहस्त्रिणम् । विशालं फलपुष्पाढ्यं ददर्श वरपादपम् ॥१२३३॥ ऐश्वर्यमिव सच्छायमभिमानमिवोन्नतम् । सौहार्दमिव संश्लिष्टं संतोषमिव सौख्यदम् ॥१२३४॥ तं वीक्ष्य संपदां पात्रं सेव्यसंतापवारणम् । सर्वाशापूरणे शक्तमभिजातमिवेश्वरम् ॥१२३५॥ मृगाङ्कदत्तसचिवाः सहसा श्रुतधिं विना । हर्षादारुरुहुर्भूरिफलं भोजनवाञ्छया ॥१२३६॥ शाखान्तरालं संप्राप्ताः क्षिप्रमन्तर्हितास्ततः । मृगाङ्कदत्तो विक्रोशन्नापश्यत्सुहृदोऽथ तान् ॥१२३७॥ स तद्विरहविधुरो मुमोह पतितः क्षितौ ।वीजमानः श्रुतधिना पल्लवैर्धृतिमाप्तवान् ॥१२३८॥ ततः शरीरमुत्स्रष्टुं राजपुत्रं समुद्यतम् ।दुःखार्तस्य सरित्तीरे वागुवाचाशरीरिणी ॥१२३९॥ देवो गणाधिनाथोऽयं स्वेच्छातरुवराकृतिः । एतदुल्लङ्घनात्तस्य शाखाः सुफलतां गताः ॥१२४०॥ तपसाराध्य हेरम्बं तत्सङ्गं समुपेश्यसि । अन्यथा दुर्लभा मुक्तिस्तेषां वर्षशतैरपि ॥१२४१॥ इति दिव्यवचः श्रुत्वा धॄतिं प्राप नृपात्मजः । पूजयित्वा नृपवरं तुष्टाव प्रथमप्रभुम् ॥१२४२॥ गजेन्द्र जयति स्फुरत्पृथुलकान्तिसद्दैर्घ्यभृ - च्छशीय विशदो रदस्तव मुखोदयाद्रेस्तटे । विलासरसफूत्कृताकुलकपोलभृङ्गावली निशाप्रणयिसीकरप्रकरहारतारागणः ॥१२४३॥ गणेश्वरमिति स्तुत्वा द्वादशाहमुपोषितः । स्वप्ने तद्वरमासाद्य वाञ्छितं प्राप्स्यसीत्यथ ॥१२४४॥ प्रीतः प्रबुद्धः सचिवान्ददर्श प्रणतान्दश । तान्दृष्ट्वा विस्मयाविष्टो हृष्टः प्राह मुदान्वितान् ॥१२४५॥ अहो नु विपुलो लाभः कोऽप्यरण्ये ममोदितः । यदहं सुहृदो लब्ध्वा प्रीतः शेशैः सहाभरैः ॥१२४६॥ दृढमुष्टे मेघबलस्थूलबाहो सुदुःसहः । व्याघ्रसेन क्क युश्माभिर्मद्वियोगोऽतिवाहितः ॥१२४७॥ सप्तभिः सहितेनेति चतुर्षु नृपसूनुना । पृष्ठेषु तेषु मतिमान्व्याघ्रसेनोऽभ्यभाषत ॥१२४८॥ स्वस्ति देव वयं तत्र तेन नागेन शापिताः । क्षिप्ताः पारापताक्षेण दिक्षु मोहविमूर्च्छिताः ॥१२४९॥ ततोऽहं निशि नीरन्ध्रे नीलशैलशिलाघने । तिमिरे शोकतिमिरैरभवं नष्टचेतनः ॥१२५०॥ सहस्रयामेव चिरात्त्रियामा यमकाङ्क्षिणा । अटव्यां सा मया नीता दुर्नीतेनेव दुःखदा ॥१२५१॥ ततः प्रभाते संप्राप्य सरो विकचपङ्कजम् । निषण्णोऽहं कृतस्नानस्तीरे चिन्तानलाकुलः ॥१२५२॥ तत्रापश्यमथायातान्क्रन्दितोच्छूनलोचनान् । दृढमुष्टिं मेघबलं स्थूलबाहुं च संगतान् ॥१२५३॥ ततो दुःखात्तनुत्यागसंभृता मुनिसूनुना । वयं नीताः समाश्वास्य शुभच्छायं तपोवनम् ॥१२५४॥ तत्र कण्वमुनिः साक्षात्कृशानुरिव तेजसा । ब्रह्मलोक इवानेकैः सेव्यमानो मुनीश्वरैः ॥१२५५॥ अरौद्ररूपः सततं जितकालमनोभवः । अकृष्णचरितः पुण्यसमाधानपदाच्च्युतः ॥१२५६॥ कृष्णाजिनोत्तरासङ्गस्तेजसा पिङ्गलच्छविः । अब्जासन इवाब्जोत्थभङ्गमालारजःश्रितः ॥१२५७॥ दृष्टोऽस्माभिः कुलगृहं शमसंतोषसंपदाम् । स हस्ततलविन्यस्तमुक्तायितजगत्त्रयः ॥१२५८॥ सोऽस्मान्विलोक्य शोकार्तानाकर्ण्यास्मान्कथां च ताम् । उवाच करुणासिन्धुः पीयूषं विकिरन्निव ॥१२५९॥ तेन दन्तांशुनिवहैः पूरिता विबभुर्दिशः । सोमपानसमुद्गीर्णैरिव शीतांशुसंचयैः ॥१२६०॥ विचित्रकर्मनिर्माणैर्भवन्त्येव भवे नृणाम् । संयोगैश्च वियोगैश्च सुखदुःखे विपर्ययाः ॥१२६१॥ मा निमज्जत निश्पारे विस्फारे शोकसागरे । तूर्णं मृगाङ्कदत्तेन भविता वः समागमः ॥१२६२॥ पुरा सुन्दरसेनस्य राजसूनोरभूच्चिरात् । भार्यया च सुहृद्भिश्च हारितैरिह संगमः ॥१२६३॥ श्रुत्वेति पृष्टः सोऽस्माभिर्मुनिभिश्च सकौतुकैः । तत्कथां प्राह भगवान्कृत्वा निखिलमाह्निकम् ॥१२६४॥ अलका नाम नगरी निषधेष्वस्ति विश्रुता । यस्यां पौरवधूवक्त्रैर्जायते दिनकौमुदी ॥१२६५॥ यस्याः सुरगृहश्वेतपताकापङ्क्तिभिर्मुहुः । बहुधा विप्रकीर्णेव दृश्यते व्योम्नि जाह्नवी ॥१२६६॥ शक्तिमानभवत्तस्यां महासेनाभिधो नृपः । शक्रशङ्कास्पदोत्साहो महासेन इवापरः ॥१२६७॥पाणिबाधारुणान्तेषु कपोलेश्वरियोषिताम् । नेत्रेषु चाश्रुताम्रेषु यत्प्रतापोऽभजत्स्थितिम् ॥१२६८॥ का निशा नेन्दुतिलका को नु गौरीगुरुर्गिरिः । यद्यशोभिरभूच्छुभ्रैः को वा देवो न धूर्जटिः ॥१२६९॥ लक्ष्मीरक्षामणिस्तस्य गुणपालित इत्यभूत् । मन्त्री सर्वोपधाशुद्धः षाङुण्यनयभूषणः ॥१२७०॥ राज्ञः शशिप्रभा तस्या पौलोमीव शतक्रतोः । भार्या बभूव सौभाग्यवसन्तोपवनस्थली ॥१२७१॥ स तस्यासदृशं लेभे सशरीरमिव स्मरम् । पुत्रं सुन्दरसेनाख्यं विलाससदनं द्युतेः ॥१२७२॥ बभूवुः सचिवास्तस्य श्रीपरिष्वङ्गसाक्षिणः । चत्वारश्चारुकटका मुरारेरिव बाहवः ॥१२७३॥ चण्डप्रभादिभिर्मित्त्रैः स तैः सह नृपात्मजः । कदाचित्पुरयात्रायां निर्ययौ द्रष्टुमुत्सवम् ॥१२७४॥ पूजयित्वा द्विजवरान्मणिकाञ्चनमौक्तिकैः । सुहृदत्साहितो दाता विचचार पुरोत्सवे ॥१२७५॥ स तत्र विबबहु मत्तकुञ्जरेन्द्रघटा इव । संपूर्ण इव शेतांशुर्मेघमालाविनिर्गतः ॥१२७६॥ गोरोचनापत्त्रभङ्गैस्तस्योरुयुगलं बभौ । हरेरिव चिरोत्पिश्तकैटभासृक्छटाङ्कितम् ॥१२७७॥ रराज तारहारेण लक्श्मीलीलास्मितेन सः । निर्झरेणेव गाङ्गेन स्फटिकाचलशेखरः ॥१२७८॥ शौर्यद्विपालाननिभौ जयतोरणविभ्रमौ । प्रतापमद्निरस्तम्भौ भुजौ तस्य विरेजतुः ॥१२७९॥ स लोलकुण्डलासक्तलसन्मरकतांशुभिः । बभौ विभूषितो भोगिभोगैरिव महेश्वरः ॥१२८०॥ व्यूढोरस्कं हरिस्कन्धं प्रांशुं कमललोचनम् । तं वीक्ष्य पौरललना बभूवुर्मन्मथाकुलाः ॥१२८१॥ मोट्टायितैः कुट्टमितैर्जॄम्भितैः किलकिञ्चितैः । तासां तद्दर्शनोद्भूतैरयं किल सखीजनः ॥१२८२॥ महोत्सवं समालोक्य कामिनीनयनोत्सवः । अपरेद्युर्मृगरणक्रीदायै सानुगो ययौ ॥१२८३॥ तं व्रजन्तं ददर्शाथ यदृच्छासंगता पथि । प्रौढा कात्यायनी नाम तापसी कौतुकाकुला ॥१२८४॥ आश्चर्यशालिनीं पृथ्वीं भ्रान्त्वा सा वीक्ष्य तं पुरः । विस्मयस्तब्धनयना लिखितेवाभवत्क्षणात् ॥१२८५॥ अभिनन्द्य तमाशीर्भिः प्रहृष्टा गन्तुमुद्यता । अनेकसेवकासक्तदृशा तेन न वीक्षिता ॥१२८६॥ सदर्पमिव तं मत्वा किम्चिदुच्चैरुवाच सा । अहो नु रूपसंमत्तो राजपुत्रो मदाकुलः ॥१२८७॥ हंसद्वीपपतेः पुत्रीं कान्तां दारवतीं यदि । प्राप्नोति तन्न जानीमः कीदृशोऽयं भविष्यति ॥१२८८॥ इति तद्वचनं श्रुत्वा सेवका गर्वमन्थरम् । न्यवेदयन्समभ्येत्य राजपुत्राय विस्मिताः ॥१२८९॥ स तामानाय्य पप्रच्छ प्रणम्य विनयानतः । यथोक्तमवदत्सा च पृष्टा तेन पुनः पुनः ॥१२९०॥ नानभोजनसन्मानैः पूजनीयेयमित्यथ । आदिश्य मन्त्रिणं प्रायान्मृगयायै नृपात्मजः ॥१२९१॥ ततः परिनिवृत्याशु राजधानीमुपेत्य ताम् । पप्रच्छ पुनरेकान्ते सचिवैः सह निर्वृतः ॥१२९२॥ सा प्राह राजपुत्रास्ति हंसद्वीपनराधिपः । श्रीमान्मन्दरदेवाख्यो राजसागरमन्दरः ॥१२९३॥ तस्य मन्दारवत्याख्या तनयास्ति सुलोचना । यां विधाय विधेर्मन्ये चिरादुच्छ्वसितं मनः ॥१२९४॥ मासि मासि समभ्यस्य विधिः शङ्के शशिक्रियाम् । तन्मुखाशेषसादृश्येनैवाद्यापि प्रगल्भते ॥१२९५॥वन्द्रस्पर्धैव लज्जायै दूरे जलजसंकथा । तन्मुखस्योपमापात्रं स्वबिम्बं यदि दर्पणे ॥१२९६॥ सौन्दर्यवसनं लोके सा च संवननं दृशः । तथा च पश्य चित्रस्थं तदाकारं ददाम्यहम् ॥१२९७॥ मयेयं लिखितां तत्र तत्सौन्दर्यानुरक्तया । एवंविधा सुधामूर्तिर्नेत्राभ्यां लभ्यते कुतः ॥१२९८॥ इत्युक्त्वा कौतुकज्ञाय राजपुत्राय तां ददौ । चित्रस्थां वीक्ष्य तां सोऽपि चित्रन्यस्त इवाभवत् ॥१२९९॥ साक्षादिव स्थितां दृष्ट्वा किंचिद्वक्तुमिवोद्यतः । स तां प्रदध्यादाक्रान्तौ विस्मयेन स्मयेन च ॥१३००॥ यस्याः कान्तितरङ्गिणी स्तनतटे हारांशुकेनोज्ज्वले भ्रूवीचीचटुले विलाससुभगे वक्त्रे रुचिस्यन्दिनि । लावण्यामृतविभ्रमे कृतमहावर्ते च नाभीह्रदे मज्जन्तीव मयार्पिता स्मरभरादानन्दगुर्व्या दृशः ॥१३०१॥ इत्युक्त्वा सर्ववृत्तीनां निर्दिशन्नेव नेत्रताम् । योगीव तन्मयः क्षिप्रं निर्विकल्पो बभूव सः ॥१३०२॥ तं वीक्ष्य पुलकापूर्णं स्वेदबिन्दुविराजितम् । ध्यात्वा तत्सचिवाः प्राहुस्तापसीं विस्मयाकुलाः ॥१३०३॥ आर्ये तत्सदृशी कन्या चित्रस्था कैः प्रतीयते । लिख्यतां राजपुत्रोऽयं सादृश्ये कुशलासि चेत् ॥१३०४॥ इत्युक्त्वा तैर्लिलेखाथ तापसी भूमिपात्मजम् । अविसंवादिलावण्यं संक्रान्तमिव दर्पणे ॥१३०५॥ ते दृष्ट्वा लिखितं चित्रे तुल्यं राजसुतं तथा । साधु साध्वित्यभाषन्त प्रहर्षोत्फुल्ललोचनाः ॥१३०६॥ तापस्यां प्रतियातायां राजपुत्रस्ततोऽभवत् । अरतिस्मरतापानां करात्करमिवागतः ॥१३०७॥ श्वासताम्राधरदलो ध्यानस्तिमितलोचनः । आपाण्डुगण्डः कदलीदलशय्यां ततोऽभजत् ॥१३०८॥ विज्ञाय तत्सुहृद्वाक्यात्पुत्रं कामज्वरातुरम् । तापसीकथितं कन्यावृत्तान्तं च निशम्य त त् ॥१३०९॥ महासेनोऽथ दूतेन हंसद्वीपाधिपं सुताम् । योग्यां सुन्दरसेनाय ययाचे दिक्षु विश्रुताम् ॥१३१०॥ लिखितं चित्रफलके राजपुत्रमदर्शयत् । महासेनविसृष्टोऽसौ दूतस्तत्र महीभुजे ॥१३११॥ हंसद्वीपाधिपः पुत्र्यै चित्रस्थं भूमिपात्मजम् । प्रदिश्य तत्प्रयाणाय प्रति दूतं समादिशत् ॥१३१२॥ मन्दारवत्यथालोक्य तं कान्तं प्रतिमापदम् । बभूवाभोनवोद्भिन्नमनोभवविभूषिता ॥१३१३॥ ततस्तच्चिन्तनैकाग्रा तत्सौन्दर्यकथादरा । भेजे प्रलापिनी तापं हृदयान्ते मुखश्रिया ॥१३१४॥ कान्तां विज्ञाय तां तुल्यवरव्यासक्तमानसाम् । आपादसहमानां च कालं परिणयोत्सवे ॥१३१५॥ विससर्ज प्रवहणैर्महासेनपुरीं स्वयम् । पुत्रीं मन्दरदेवोऽथ हृष्टो दासीशतैर्वृताम् ॥१३१६॥ रत्नपूर्णं प्रवहणं सा समारुह्य सोत्सुका । अवाप जलधेर्मध्यं तरङ्गावर्तभीषणम् ॥१३१७॥ अथोदतिष्ठव्द्यालोलविद्युत्पिङ्गललोचनः । तमालज्जालमलिनो गर्जञ्जलदराक्षसः ॥१३१८॥ तदुद्भूतमहावातवलयावर्तनर्तितः । कैलासशिखराकारतरङ्गः सागरोऽभवत् ॥१३१९॥ तेन कल्पान्तसंरम्भगम्भीरेण नभस्वता । अभज्यत प्रवहणं राजपुत्र्याः कृतश्रम म् ॥१३२०॥ किमेतदिति निस्पन्दचेतनामोहविप्लवैः । वीचिहस्तैस्ततो न्यस्ता भवितव्यतयैव सा ॥१३२१॥ तत्र संज्ञां समासाद्य चिरात्तरललोचना । एकाकिनी त्रासशोकशङ्कातङ्काकुलाभवत् ॥१३२२॥ तालतालीवनश्यामे निर्जने जलधेस्तटे । बभ्राम चक्रवाकीव बाला तारप्रलापिनी ॥१३२३॥ स्तनस्तबकिनी तस्याः साञ्जनैर्बाश्पबिन्दुभिः । आलीनभृङ्गमालेव बभूव तनुवल्लरी ॥१३२४॥ वीक्ष्य शून्य दश दिशो निश्चलोत्पललोचना । त्रस्तेव बालहरिणी क्षिप्रमुत्कन्धराभवत् ॥१३२५॥ हा तात हा प्रियतम क्क नु व्यग्रोऽसि पश्य माम् ।इति चक्रन्द सा तन्वी दृषदामपि दारणम् ॥१३२६॥ अत्रान्तरे महाम्भोधिवेलाबिरचिताश्रमः । तं देशमागतः स्नातुं मतङ्गो मुनिपुंगवः ॥१३२७॥ यमुनाभिधया पुत्र्या सहितस्तां ददर्श सः । विलापक्षामवदनां निःश्वासग्लपिताधराम् ॥१३२८॥ तां वीक्ष्य करुणासिन्धुः सान्त्वयन्मुनिरब्रवीत् । समाश्वसिहि मा भैषीः पुत्रि मा विक्लवा भव । अस्यां तनौ न विपदश्चिरं तिष्ठन्ति सुन्दरि ॥१३२९॥ इत्युक्त्वा तेन सा पृष्टा कारुण्याद्दुःखकारणम् । उवाच तत्समाश्वाससुधया लब्धजीविता ॥१३३०॥ हंसद्वीपपतेः पुत्री हताशा भगवन्नहम् । पित्रा सुन्दरसेनाय विसृष्टाम्भोधिवर्त्मना ॥१३३१॥ अचिरप्रस्तुतोद्वाहा भग्ने प्रवहणे विभो । तीरेऽस्मिन्सलिलैः क्षिप्ता जीवामि कठिनाशया ॥१३३२॥ निषधाधिपतेः पुत्रः प्राप्तो नाधन्यया मया । श्रीमान्सुन्दरसेनोऽसौ वरो दिव्यवरोचितः ॥१३३३॥ इत्युदश्रुदृशस्तस्या निशम्य वचनं मुनिः । निनाय पुत्र्या सहितस्तामाश्वास्य निजाश्रम म् ॥१३३४॥ भविष्यत्यचिरादेव तवेप्सितसमागमः । इति तत्र त्दादिष्टा कंचित्कालमुवास सा ॥१३३५॥ अस्मिन्नवसरे तीव्रमन्मथानलतापितः । दूतैः सुन्दरदेनोऽपि ज्ञात्वा पुत्रीं प्रतिश्रुताम् ॥१३३६॥ राज्ञा मन्दरदेवेन कृतार्ह्तोऽस्मीति वादिना । अक्षमः कालसहने सामात्यः पितुराज्ञया ॥१३३७॥ प्रतस्थे विपुलानीकैर्विवाहोचितया श्रिया । हंसद्वीपं हरिखुरोट्टङ्कितावनिमण्डलः ॥१३३८॥ स शशाङ्कपुरं प्राप्य क्रमेण जलधेस्तटे । राज्ञा महेन्द्रादित्येन पूजितः सादरं गृहम् ॥१३३९॥ तमेवाग्रे समाधाय सोत्साहं सचिवैः सह । आरुरोह प्रवहणं तूर्णं परिणयोत्सुकः ॥१३४०॥ ततः संहारपुशिनैरकाण्डोच्चण्डमारुतैः । समुद्भूतैर्महाम्भोधावभज्यत सचेटकः ॥१३४१॥ बाहुभ्यां तरणोद्युक्ताः पवनप्रेरितैर्जलैः । पृथक्तीरेषु विन्यस्ताः सर्वे प्रवहणाश्रयाः ॥१३४२॥ एकेन सुहृदा सार्धं तीरं प्राप्य नृपात्मजः । अचिन्तयद्विलसितं भुजङ्गकुटिलं विधेः ॥१३४३॥ हा सुन्दरि न लब्धासि यत्नेरेवंविधैरपि । कुतो वा हीनपुण्यानां संकल्पाः फलयोगिनः ॥१३४४॥ तैः सुहृद्भिर्वियुक्तस्य निष्फलोद्योगदुःखिनः । ममास्मिन्व्यसनापाते निधानान्नापरं सुखम् ॥१३४५॥ इति प्रलापमुखरः सुहृदाश्वासितो मुहुः । तापसाभ्यां समादिष्टं शनैः प्राप तपोवनम् ॥१३४६॥ अत्रान्तरे महासेनो विज्ञाय निषधेश्वरः । रहितं राजपुत्रेण प्रतीपं सैन्यमागतम् ॥१३४७॥ श्रुत्वा समुद्रवृत्तान्तं घोरं कुलिशदारुणम् । हा पुत्रेति विलप्योच्चैर्निपपात महीतले ॥१३४८॥ भूपतौ शोकपतिते रुरोदेव वसुंधरा । अन्तःपुरवधूच्छिन्नहारमुक्ताश्रुबिन्दुभिः ॥१३४९॥ देवी शशिप्रभा तत्र पुत्रशोकप्रलापिनी । चक्रे केलिकुरङ्गीणां मुहुः साश्रुलवा दृशः ॥१३५०॥ अस्मिन्नवसरे ज्ञात्वा हंसद्वीपाधिपः सुताम् । निमग्नां सागरावर्ते सोऽभ्ययादलकां स्वयम् ॥१३५१॥ तूर्णं समुद्रमुत्तीर्य संबन्धिनि नराधिपे । पुत्रीवियोगविधुरे संप्राप्ते वल्लभासखे ॥१३५२॥ महसेनपुरं तारं चचाराक्रोशनारवः । समानदुःखसङ्गेन बाष्पग्रन्थिर्हि भिद्यते ॥१३५३॥ शनैराश्वासितास्तेऽथ वृद्धामात्यपुरःसरैः । बहवः सागरे तीर्णा दृष्टा इति निदर्शनैः ॥१३५४॥ ततस्तौ भूपती तत्र सभार्यौ शोककर्शितौ । अभूतां नियताहारौ शिवार्चनपरायणौ ॥१३५५॥ अत्रान्तरे राजपुत्रः सुहृदा सह दुःखितः । प्राप्तः सुन्दरसेनस्तं मतङ्गाश्रमकाननम् ॥१३५६॥प्रसन्नसुभगच्छायमञ्जुगुञ्जद्विहङ्गमे । मृदुलानिललोलाग्रफुल्लवल्लीमनोहरे ॥१३५७॥ तत्राश्रमोपान्तनदीतीरे तरललोचनाः । जलकेलिकलालोला ददर्श मुनिकन्यकाः ॥१३५८॥ तासां मध्ये ततोऽपश्यत्ताराणामिव रोहिणीम् । शोककञ्चुकसंवीतां कन्यां कुवलयेक्षणाम् ॥१३५९॥ निर्दोषेणातिकान्तेन शतपत्त्रविकाशिना । अभिभूतेन्दुबिम्बेन वदनेन विराजिताम् ॥१३६०॥ निषिद्धमावयोरैक्यं श्रोत्राभ्यां नासया तथा । रोषादतीव रक्तान्तं बिभ्राणां लोचनद्वयम् ॥१३६१॥ नागवल्लीकिशलयैर्भूषितामधरांशुभिः । लक्श्मीमिवाब्धिसंक्रान्तबालविद्रुमपल्लवाम् ॥१३६२॥ अत्युच्चकुचसंरुद्धं न पश्याम्येतदाननम् । इतीव चिन्तया मध्यं दधती क्षामतां गतम् ॥१३६३॥ फुल्लोत्पलवरामोदां कुन्ददन्तां हिमस्मिताम् । अशोकपल्लवकरां मल्लीमुकुलकोमलाम् ॥१३६४॥ केतकीकलिकाकोटितीक्ष्णान्तनयनच्छटाम् । स तां विलोक्य साकारमिव सर्वर्तुदेवताम् ॥१३६५॥ बभूव विस्मयोत्तालनयनः सुहृदा सह । अग्राम्यमधुरं तस्याः प्रशंसन्नेष विभ्रम म् ॥१३६६॥ साथ तत्र जलक्रीदाव्यग्रा ग्राहेण हारिणी । गृहीता मोहमगमत्त्रासकम्पिपयोधरा ॥१३६७॥ तां विलोक्य तदाक्रान्तां मुनिकन्याः प्रचुक्रुशुः ।हा हा मन्दारवत्येषा सखी ग्राहेण कृष्यते ॥१३६८॥ इति प्रयतमानामश्रवणोत्फुल्लकाननः । क्षिप्रं सुन्दरसेनस्तु हत्वा ग्राहं ररक्ष ताम् ॥१३६९॥ सखीभिर्वीज्यमानाथ सा बाला कदलीदलैः ।लब्धसंज्ञा नृपसुतं पुरो दृष्ट्वा व्यचिन्तयत् ॥१३७०॥ अहो बत स एवायं यश्चित्रस्थो मया पुरा । दृष्टः सैवेयमम्लाना रेखा सौन्दर्यशालिनी ॥१३७१॥इति लज्जाकुले तस्याः कान्तिदर्शनसंशये । लेभे मनोभवः क्षिप्रं दोलारोहणविभ्रम म् ॥१३७२॥ ततः सुन्दरसेनस्तां पप्रच्छ मुनिकन्यकाम् । लावण्यललिताकारा कस्येयमिति सादरम् ॥१३७३॥ इयं मन्दरदेवस्य हंसद्वीपपतेः सुता । ख्याता मन्दारवत्याख्या प्रस्थिता पितुराज्ञया ॥१३७४॥ वरं सुन्दरसेनाख्यं निषधाधीशितुः सुतम् । तरीतुं जलयानेन ततार जलधिं ततः ॥१३७५॥ भग्ने प्रवहणे वातैर्दैवात्तटमधिश्रिता । न्यस्तेयं वीचिहस्तेन भग्ने प्रवहणेऽब्धिना ॥१३७६॥ प्राप्ता मतङ्गमुनिना कन्येव प्रतिपालिता । इति स श्रुतवृत्तान्तस्तस्थावानन्दसंप्लुतः ॥१३७७॥ पृष्टो मन्दारवत्याथ तत्सखा प्राह तत्कथाम् ।यथावृत्तं तदाकर्ण्य प्रपेदे निर्वृत्तिं पराम् ॥१३७८॥ इति श्रुत्वा परिज्ञाय मिथो वृत्तान्तविस्तरम् ।दयितौ जग्मतुर्मूर्च्छां तौ बाश्पपिहितेक्षणौ ॥१३७९॥ स्वयं ततः समभ्येत्य भगवाञ्ज्ञात््कथः । मतङ्गमुनिरानन्दाद्ददौ तां नृपसूनवे ॥१३८०॥ अथ संप्राप्तदयितो राजपुत्रो मुनीश्वरम् । यमुनं च समामन्त्र्य प्रतस्थे सुहृदा सह ॥१३८१॥ किंचिन्मार्गं समुल्लङ्घ्यततः स जलधेस्तते । आलुलोके प्रवहणं वणीजो वल्लभासखः ॥१३८२॥ वणिक्सोऽपि विलोक्यैव दूरात्तां हंसगामिनीम् । आरुह्यतां प्रवहणं प्रोवाचेति नृपात्मजः ॥१३८३॥ तदाकर्ण्य प्रियां पूर्वमारोप्य स समीहते । यावत्स्वयं समारोढुं वणिक्तावज्जहार ताम् ॥१३८४॥ क्रोशन्तीं तां समादाय याते तस्मिन्नदृश्यताम् । मूर्च्छान्धकारितः क्षिप्रं निपपात नृपात्मजः ॥१३८५॥ हा प्रिये क्क नु यातासि वद दृष्टासि पश्य माम् । इत्युन्मत्त इवानेकं विललाप मुहुर्मुहुः ॥१३८६॥ भृङ्गावलीषु कबरीमुत्पलेषु विलोकितम् । लीलां च बालवल्लीषु स शुशोच मृगीदृशः ॥१३८७॥ तन्व्या संभाषितोऽस्मीति स वदन्बालवल्लरीम् । मञ्जुसिञ्जानमधुपामालिलिङ्गानिलाकुलाम् ॥१३८८॥ कान्ताकटाक्षमालेयमिति बर्हिशिखावलीम् । मोहाद्बाल इवाधावद्बालेन्दुफलकाम्यया ॥१३८९॥ तस्मिन्र्पियावियोगाग्निदह्यमाने दिनेश्वरः । चित्रमस्ताद्रिमारुह्य ममज्ज जलधेर्जले ॥१३९०॥ अथाभूत्सांध्यरागेण मञ्जिष्ठपटशोभिना । चक्राह्वशोकशिखिना मूर्तेनेवावृतं जगत् ॥१३९१॥ ततः सुन्दरसेनोऽग्रदुःखानिलसमुच्छ्रितैः । सान्द्रधूमैरिव ध्वान्तैर्बभूव पिहिता दिशः ॥१३९२॥ ततश्चन्द्रोदयारम्भपाण्डुरा रजनी बभौ । वियोगिनीव संसिक्ता कर्पूरहरिचन्दनैः ॥१३९३॥ अथादृश्यत शीतांशुर्नूतनोदयलोहितः । दह्यमानः स संतापैः प्रोषितावीक्षितैरिव ॥१३९४॥ व्योमलक्ष्मीः शशिकरैः करिणीदन्तपाण्डुरैः । बभूव स्मरतप्तेव मण्डिता विषमण्डलैः ॥१३९५॥ तत्र सुन्दरसेनोऽभूत्कौमुदीधवलत्विषि । कटाह इव विन्यस्तः शोचन्हरिणलोचनाम् ॥१३९६॥ ज्योत्स्नाट्टहासधवलो वेताल इव चन्द्रमाः । प्राणान्समुद्यतो हन्तुं ममेत्युक्त्वा पपात सः ॥१३९७॥ तं मूर्च्छितं निपतितं दृष्ट्वा साश्रुविलोचनः । विललापातिकरुणं तद्वयस्योऽपि विह्वलः ॥१३९८॥ ततः प्रभाते शनकैः संज्ञामासाद्य दुःखितः । राजपुत्रोऽविशद्धोरामटवीं विस्खलद्गतिः ॥१३९९॥ ददर्श तत्र चमरीवालैराच्छादितां पुरः । पुलिन्दपल्लीं शार्दूलकृत्तिप्रालम्बिभीषणाम् ॥१४००॥ गजेन्द्रमांसकूटेषु काकरक्षाविराविभिः । विकृतैर्वृद्धशबरैः पिशाचैरिव सेविताम् ॥१४०१॥ लम्बमानोरुतूणीरां संसक्तमृगवागुराम् । सारमेयकृतारावां तां पश्यन्प्रययौ द्रुतम् ॥१४०२॥ तत्र दुर्गोपहाराय शबरैश्चापपाणिभिः । निहतानेकशबरो बद्धो राजसुतस्ततः ॥१४०३॥ वयस्यसहितो नीतः स तैः कारागृहोदरम् । प्रविश्य सुचिरं वृद्धान्सचिवान्स्वान्ददर्श च ॥१४०४॥ तांश्चण्डप्रमुखान्दृष्ट्वा निबद्धान्निगडैर्दृढैः । उवाच संगता दिष्ट्या वयमस्मिन्वधक्षणे ॥१४०५॥ इति ब्रुवाणं शबरा निन्युस्तं चण्डिकालयम् । सहापरैस्तैः सचिवैः सायकव्रणपीडितम् ॥१४०६॥ तत्र कात्यायिनीं दृष्ट्वा स प्रणम्य निराकुलः । तुष्टाव विरहात्क्षामः पदैरस्खलिताक्षरैः ॥१४०७॥ जय देवि नमश्चन्द्रचूदाचूडाशशित्विषा । संपूर्यमाणपादाम्बुप्रवृद्धनखचन्द्रिके ॥१४०८॥ इत्यादि पार्वतीं स्तुत्वा स्थिते तस्मिन्नसंभ्रमे । हन्तुं पुलिन्दराजस्तान्विन्ध्यकेतुः समाययौ ॥१४०९॥ निर्विकारं तमालक्ष्य स तत्र निधनक्षणे । हा धिङ नः स्वामितनुभूरयमित्याह संभ्रमात् ॥१४१०॥ अहमाटविको राजा महासेनेन भूभुजा । कृतः सुन्दरसेनोऽयं पुत्रस्तस्योर्जिताशयः ॥१४११॥ इत्युक्त्वा पादयोः सास्रं राजसूनिर्निपत्य सः ।तैः सुहृद्भिः परिवृतं तं निनाय निजालयम् ॥१४१२॥ तत्र विज्ञातवृत्तेन तेन प्रणयशालिना । पूज्यमानः स्मरन्कान्तां कंचित्कालमुवास सः ॥१४३३॥ ततः कदाचिदासीनं शबरेन्द्रं तदन्तिके । व्यजिज्ञपत्समभ्येत्य सेनानीर्विहिताञ्जलिः ॥१४१४॥ देवादेशान्निरुद्धोऽसौ सार्थो बहुधनो वने । संयम्य समरे जित्वा समानीतश्च तत्पतिः ॥१४१५॥ पश्चात्स्थिता तस्य कन्या हरिणीहारिलोचना । शङ्के शशाङ्को यत्कान्त्या क्षीणः क्षीणोऽपि पूर्यते ॥१४१६॥ श्रुत्वेति भिल्लराजेन राजपुत्रमतेन सः । दर्शयेति समदिष्टः सेनानीरानिनाय तम् ॥१४१७॥ तस्यानुगां ततो दृष्ट्वा तां सौन्दर्यसुधानदीम् । राजपुत्रः परिज्ञाय मुमोह विरहातुरः ॥१४१८॥ मन्दारवत्यपि पुरो विलोक्य हृदयप्रियम् । सहसा शोकहर्षाभ्यां निष्पन्देवाभवत्क्षणात् ॥१४१९॥ ततः पुलिन्दराजेन स पृष्टो दुष्टचेष्टितः । वणीक्प्रोवाच पापेन पर्याप्तं सदृशं फलम् ॥१४२०॥ वञ्चितो राजपुत्रोऽयं हृतेयं राजकन्यका । स्ववेश्मनि विधास्यामि विवाहं विभवोचितम् ॥१४२१॥ इति निश्चितसंकल्पो बद्धोऽहं भवता वने । प्राप्नुवन्ति कथं नाम परद्रोहरताः सुखम् ॥१४२२॥ पुलिन्दराजः श्रुत्वेति हन्यतामेष दुर्मतिः । इत्यादिदेश सेनान्यं भृकुटीभीमविक्रमः ॥१४२३॥ राजपुत्रस्ततः प्राह धनमेवास्य गृह्यताम् । वणीजां द्रविणं प्राणः शरीरं तृणमेव यत् ॥१४२४॥ इति सुन्दरसेनेन रक्षितः करुणाब्धिना । निरम्बरो वणिक्प्रायात्कृतकोलाहलः श्वभिः ॥१४२५॥ ततो दिदेश संदेशं विन्ध्यकेतुर्महीभुजे ।महासेनाय तनयप्राप्तिपीयूषनिर्भरम् ॥१४२६॥ शबराधिपलेख्येन निषधाधिपतिस्ततः । विज्ञाय सुतवृत्तान्तं तदग्रे सानुगो ययौ ॥१४२७॥ हंसद्वीपाधिनाथेन सहामात्यसुतैस्तथा । स चक्रे कुञ्जरानीकैर्व्रजन्भुवि घनागम म् ॥१४२८॥ ततः सुन्दरसेनोऽपि सानुगो दयितासखः । समेत्य दृष्ट्वा पितरं ववन्दे साश्रुलोचनः ॥१४२९॥ ततः प्रविश्य ते सर्वे पुरीं कोलाहलाकुलाम् । अलकां हर्षसंपूर्णामिव चक्षुर्महोत्सवम् ॥१४३०॥ अथोचिता विवाहश्रीर्मुहूर्ते शुभलक्षणे । मन्दारवत्या राजेन्द्रसूनोः क्षिप्रमवर्तत ॥१४३१॥ चिरं महोत्सवे तस्मिन्नानन्दामृतनिर्भरः । हंसद्वीपपतिः पुत्रीं परिष्वज्य पुनः पुनः । स्वपुरीं प्रययौ हृष्टः सानुगो वल्लभासखः ॥१४३२॥ इति सुन्दरसेनेन प्राप्तास्ते सुहृदश्चिरात् । प्रिया च सा सुवदना नेत्रामृततरङ्गिणी ॥१४३३॥ इत्येवमुद्भुता धातुर्विलासकुटिला गतिः । युष्माकमपि संकल्पः फलिष्यति न संशयः ॥१४३४॥ इति कण्वेन मुनिना कृपयैवोपवर्णिताम् । कथामेतां समाकर्ण्य धैर्यं वयमुपागताः ॥१४३५॥ इति मन्दारवत्याख्यायिका ॥२८॥ N/A References : N/A Last Updated : October 25, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP