संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| द्वादशो वेतालः द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका द्वादशो वेतालः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत द्वादशो वेतालः Translation - भाषांतर सोऽथ स्कन्धगतः प्राह कथां श्रृणु विशांपते । अशेषसंशयच्छेत्ता देवदेवो मतोऽसि मे ॥५८१॥ नृपोऽभूदङ्गविषये यशःकेतुरिति श्रुतः । यद्यशःपुण्डरीकस्य मृणालं फणिनायकः ॥५८२॥ पृथुवेपथुसिञ्जानैर्यतिं संधाय भूषणैः । यस्य किन्नरकान्ताभिर्गीयते चरितावली ॥५८३॥ यत्पराक्रममाकर्ण्य लङ्कालोडनसाक्षिणः । स्मरन्ति रामचरितं ते जीर्णा रजनीचराः ॥५८४॥ अमात्यो दीर्घदर्शीति तस्याभूदुचिताभिधः । यन्मन्त्रैः शत्रुसर्पाणां नाभवन्क्कचिदुद्भवाः ॥५८५॥ तस्मिन्विन्यस्य पृथिवीभारं स वसुधाधिपः । सिषेवे चन्द्रवदनां श्यामां श्यामामिवोडुपः ॥५८६॥ तस्मिन्स्मररसासक्ते स श्रीमान्मन्त्रिपुंगवः । कोशदुर्गबलाधानव्यग्रोऽभूत्सततोत्थितः ॥५८७॥ दीर्घदर्शी श्रियं भुङ्क्ते नाममात्रं नृपो नृपः । जनप्रवादं श्रुत्वेति सोऽभूच्चिन्ताकुलस्ततः ॥५८८॥ मेधाविन्याथ संचिन्त्य भार्यया सह तां कथाम् । तीर्थयात्रापदेशेन ययावेको निशामुखे ॥५८९॥ ( व्रजन्क्रमेण संप्राप्य तीरोपान्तं महोदधेः । निधिसत्ताभिधानेन सार्थवाहेन संगतः ॥५९०॥ तेन संजातसौहार्दः सौवर्णद्वीपगामिना ) । आरुह्य तत्प्रवहणं मध्यं प्राप महोदधेः ॥५९१॥ ततस्तत्र निवातेऽपि ददर्श सहसोत्थितम् । स्फटिकाचलश्रृङ्गाभं सलिलस्तम्भमुन्नतम् ॥५९२॥ पृथुं ददर्श तन्मध्ये कान्तं कनकपादपम् । पारिजातमिवोत्सृष्टं मन्थभीत्याब्धिना पुनः ॥५९३॥ विद्रुमस्तम्भसुभगे चित्ररत्नलतोज्ज्वले । ( तस्मिन्माणीक्यपर्यङ्के स्थितां कन्यां ददर्श सः ) ॥५९४॥ पद्मरागाधरां नीललोलालकविभूषिताम् ।मूर्तां रत्नाकरस्येव देवतां मौक्तिकस्मिताम् ॥५९५॥ तां दृष्ट्वा विस्मयोत्फुल्लस्तस्या गीतमथाशृणोत् । तन्मुखाम्भोजलुब्धानां भृङ्गाणामिव गुञ्जितम् ॥५९६॥ येन यदा यद्विहितं प्प्राप्तुमसौ तत्तदा स्वयं याति । आक्रम्य नीयते वा कर्मगुणैरायतैस्तत्र ॥५९७॥ देहभृतां किल सततं सर्वत्र शुभाशुभं याति । आमोदः कुसुमानां कीटमणीनामिवालोकः ॥५९८॥ सस्मिन्कर्मक्षेत्रे येन यदुप्तं स एव तद्भुङ्क्ते । लभते नान्धेन धृतं चक्षुष्मानप्युपायेन ॥५९९॥ इति वीणास्वजनुषा गीतेन श्रवणामृतम् । विकीर्य तरुपर्यङ्कसहिता सा तिरोदधे ॥६००॥ ततस्तद्दर्शनाश्चर्यनिश्चलं दीर्घदर्शिनम् ।कर्णधारो विहस्याह सहेलं बर्बराभिधः ॥६०१॥ किं विस्मितोऽसि कन्यैषा सदैवात्र प्रदृश्यते । ज्ञायते नाम शीलं वकुलं वास्या न केनचित् ॥६०२॥ इति ब्रुवाणे शनकैः कर्णधारे महाद्भुतम् । पवनस्यानुकूल्येन द्वीपं प्राप स सार्थपः ॥६०३॥ कृतकृत्ये गृहं प्राप्ते तस्मिन्रत्नवति क्षणात् । तद्वेश्मनि चिरं स्थित्वा मन्त्री स्वनगरं ययौ ॥६०४॥ अत्रान्तरे यशःकेतुस्तद्वियोगाग्नितापितः । आगतो दीर्घदर्शीति विज्ञप्तो द्वाररक्षिणा ॥६०५॥ ततो नरपतिः क्षिप्रं हृष्टस्तेन समागतः । मेने वराकं त्रैलोक्यराज्यं विस्तारिलोचनः ॥६०६॥ तमपृच्छत्परिष्वज्य परित्यज्य गतोऽसि किम् । गृहं बन्धुजनं भार्यां श्रियं मां च निरादरः ॥६०७॥ इति राजवचः श्रुत्वा पुण्यतीर्थार्थितां वदन् । समुद्रदृष्टमाश्चर्यं दिव्यकन्यामवर्णयत् ॥६०८॥ तां निशम्य नवोत्कण्ठानिर्भरोऽभून्महीपतिः । श्रुतो ह्येव विशत्यन्तः प्राग्जन्मदयितो जनः ॥६०९॥ स दीर्घदर्शिने राज्यं न्यासीकृत्य स्मरातुरः । द्रष्टुं शशाङ्कवदनां भिक्षुवेषोऽम्बुधिं ययौ ॥६१०॥ सरित्पुराकरारण्यग्रामशैलान्समुत्तरन् । क्रमाच्छ्रीपर्वतं प्राप्य नत्वा देवीं हरिप्रियाम् ॥६११॥ कुशनाभेन मुनिना दयितां प्राप्स्यसीत्यथ । कृताश्वासस्तदादिष्टं सार्थवाहं समभ्ययात् ॥६१२॥ लक्ष्मीदत्ताभिधानस्य तूर्णं प्रवहणं ततः । स समारुह्य जलधेर्मध्यं प्राप्य प्रियाशया ॥६१३॥ तत्र वैडुर्यशिखराकारकल्लोलमालिते । समुत्थिते जलस्तम्भे ददर्श मणिपादपम् ॥६१४॥ धात्रा वैचित्र्यनिर्माणरम्योपकरणश्रियम् । निधानमिव रक्षायै हस्ते न्यस्तं महोदधेह ॥६१५॥ तस्य कल्पतरोः स्कन्धे गायन्तीं दिव्यकन्यकाम् । निषण्णां रत्नपर्यङ्के ददर्शानङ्गमङ्गलाम् ॥६१६॥लावण्यपुण्यनिर्मज्जद्गात्रलेखां महोदधेः । सुधाकल्लोलकलितां पुनर्लक्ष्मीमिवोद्गताम् ॥६१७॥ वीक्ष्य तां सोऽभवद्भूरिकम्पप्रमदविस्मयः । अहो रूपमहो कान्तिरित्यालोलितकन्धरः ॥६१८॥ लयं तालानुगं चित्रपदमालास्थितस्वरम् । संगीयतां निमज्जन्तीं सवृक्षां वीक्श्य सोऽब्रवीत् ॥६१९॥ जय भगवञ्शशिकौस्तुभकमलापीयूषवारुणीसूते । रत्नाकर मम कान्तां लोचनपात्रामृतं वितर ॥६२०॥ उक्त्वेति चिक्षेप नृपः सह्सा सलिले तनुम् । ( स्मरदवाग्निनिर्वाणधियेवाहितसाहसः ॥६२१॥ सार्थवाहोऽपि तं वीक्श्य निमग्नं मकराकरे । ममज्ज दुःखसलिले तद्वियोगोरुसागरे ) ॥६२२॥ पूर्वभार्यां समन्वेष्टुं यशःकेतुरसौ नृपः । प्रविष्टोऽब्धिमिति क्षिप्रमुच्चचार वचस्ततः ॥६२३॥ तदाकर्ण्य समाश्वास्य कृतकार्यो वणिक्पतिः । प्रययावानुकूल्येन मरुतां स्वपुरं शनैः ॥६२४॥ नृपोऽप्यम्भोधिमाविश्य काञ्चनोदारमन्दिरे । ( ददर्श निर्जनं रत्नप्राकारप्रवरं पुरम् ) ॥६२५॥ शून्यामन्वेष्य यत्नेन माणिक्यभवनाबलीम् । हेमवेश्मन्यपश्यत्तां मणिपर्यङ्कशायिनीम् ॥६२६॥ ददर्शांशुकमुद्धाट्य ततोऽस्याः संमुखाम्बुजम् । नलिन्या इव नीहारं विनिवार्य दिवाकरः ॥६२७॥ सा प्रबुद्धा नरपतिं वीक्ष्य विस्मितमानसा ।प्रदध्यौ छन्नवेषोऽयं चक्रवर्तिपदोचितः ॥६२८॥ ध्रुवं राजा यशःकेतुः श्रीमान्कमललोचनः । विचिन्त्येत्यभवत्कम्पतरला स्मरवल्लरी ॥६२९॥ संबभार समुद्धूतसंभूतपुय्लकाङ्कुरा । अङ्गैरनङ्गसुभगैः कदम्बमुकुलश्रियम् ॥६३०॥ ततो विदितसत्कारस्तया लज्जाविलोलया । पृष्टो निजकथामुक्त्वा पर्यङ्के निषसाद सः ॥६३१॥ नामाभिजनमाकर्ण्य यशःकेतुरिति स्फुटम् । सस्वेदकम्पा लोलाम्बुबिम्बितेव विधोः कला ॥६३२॥ तेनाथ राजभृङ्गेण तैस्तैः किमपि वर्णनैः । बालिका कलिकेवासौ कृता हर्शविकासिनी ॥६३३॥ततस्तयोरभूत्स्पष्टं संभोगाभिमुखं मनः । यूनोः प्रथमसङ्गेऽपि लज्जां न क्षमते स्मरः ॥६३४॥ अहं नाथ त्वदायत्ता विना कृष्णाचतुर्दशीम् । अष्टमीं चेति विदधे सा तेन सह संविदम् ॥६३५॥ पेशला सह तेनैषा प्रौढा समुचितं रतम् । इतीवाराविणीं राजा चकर्ष रशनां ततः ॥६३६॥ हृते तेन स्मररसात्सहसा जघनांशुके । आलोकनभयात्तस्य सा गाढालिङ्गनं व्यधात् ॥६३७॥ अविभागममर्यादमपास्तविनयक्रम म् । ततस्तयोः किमप्यासीद्विकल्पविरतं रतम् ॥६३८॥ विस्रस्तमाल्यधम्मिल्लं स्वेदमज्जद्विशेषकम् । व्यामीलितार्धनयनं तस्याः कान्तमभूद्वपुः ॥६३९॥ एवं प्रतिनिशं तेन रममाणा सुमध्यमा । ज्ञात्वा चतुर्दशीं प्राप्तां प्रययौ तदनुज्ञया ॥६४०॥ नलिनीमण्डपे नास्मिन्प्रवेष्टव्यं त्वया विभो । उक्त्वेति तस्यां यातायामन्वगात्सोऽप्यलक्षितः ॥६४१॥ गत्वाथ खङ्गी दूरस्थो ददर्श जलदत्विषा । राक्षसेन निगीर्णां तां राहुणेव विधोः कलाम् ॥६४२॥ दृष्ट्वा वृत्तान्तसंत्रासन्नाम्नातीतेन रक्षसा । ग्रस्तां दुःखाच्च कोपाच्च खङ्गीनाथ जघान तम् ॥६४३॥ तत्कृपाणाग्रनिकृतं शिरस्तस्यापतद्भुवि । श्रृङ्गं नीलाचलस्येव पिङ्गकेशदवानलम् ॥६४४॥ततस्तस्योदरदरीदेहगर्ताद्विनिर्गता । क्षीणशापा निजकथां स्मृत्वा कान्तमुवाच सा ॥६४५॥ अहं मृगाङ्कवत्याख्या विद्याधरमहीपतेः । ज्येष्ठा मृगाङ्कसेनस्य पुत्री पुत्रसहिस्रिणः ॥६४६॥ न भुङ्क्ते मां विना नित्यं स दिव्यरसभोजनम् । अप्यात्मसदृशैः पुत्रैर्बहुभिः परिवारितः ॥६४७॥ गौरीव्रते कदाचित्तु चतुर्दश्यामुपोषिता । अहं तेनाभवत्तातो दिनक्मेकमभोजनः ॥६४८॥ तत्कोपान्मां शशापासौ चतुर्दश्यां निशाचरः । अष्टभ्यां च सदैव त्वां भुक्त्वा त्यक्ष्यत्यवीक्षिताम् ॥६४९॥ शून्ये च स्थाव्स्यसि चिरं भ्रष्टविद्या रसातले । अङ्गराजेन भर्त्रा ते हतो यावन्न राक्षसः ॥६५०॥ इत्यहं गुरुणा शप्ता तच्च रक्षस्त्वया हतम् । नष्टशापा सविद्या च स्वस्ति गच्छाम्यहं विभो ॥६५१॥ इति श्रुत्वाङ्गनृपतिर्वियोगचकितोऽवदत् । गमिष्यसि मया सुभ्रु विहृत्य दिनसप्तकम् ॥६५२॥ इति तेनार्थिता मुग्धा प्रेम्णा सा हरिणेक्षणा । सिषेवे रुचिरोद्याने तं हेमकदलीवने ॥६५३॥ ततस्तया सह नृपस्तस्मिन्पुष्करिणीजले । निमज्ज्य केलिरम्भसादुन्ममज्ज निजात्पुरात् ॥६५४॥ दीर्घदर्शिनमासाद्य निवेद्यास्मै निजां कथाम् । भेजे राज्यं प्रियाप्राप्तिविस्तारितमहोत्सवः ॥६५५॥ अत्रान्तरे नभो गन्तुमुद्यता दिनसप्तके । प्रयाते सा न सस्मार विद्यां मानुषसंगताम् ॥६५६॥ विद्याविहीनां तां ज्ञात्वा ननर्त जगतीपतिः । तां सेवमानः सुचिरं विललास सुलोचनाम् ॥६५७॥ तस्मिन्नेवोत्सवदिने दीर्घदर्शी व्यपद्यत । अज्ञातकारणः सर्वैर्निशीथे स्फुटिताशयः ॥६५८॥ कथयित्वेति वेतालः पृष्टवान्पृथिवीश्वरम् । मन्त्रिणः प्रलये तस्य हेतुं ब्रूहि महीपते ॥६५९॥ किं वा दृष्ट्वा नृपतिना तामानीतां मृगेक्षणाम् । प्राप्ता मयैव किं नेयमित्यभूत्तस्य चेतसि ॥६६०॥ उत प्राप्तं मया राज्यं राजा तस्मिन्महार्णवे । मग्नोऽपि नष्टः किमिति किं तु दुःखार्दितोऽभवत् ॥६६१॥ राजन्कथय मे तत्त्वमिति पृष्टोऽब्रवीन्नृपः । स मन्त्री प्रलयं यातो येन तच्छ्रूयतां सखे ॥६६२॥ स्वभावरागिणा प्राप्ता राज्ञाः दिव्येयमङ्गना । कष्टमुत्सन्नकार्योऽयमित्यभूत्तस्य हृद्गतम् ॥६६३॥ इति श्रुत्वेति वेतालं क्षिप्रमन्तर्हितं पुनः । आदाय वृक्षशाखाग्राज्जगाम जगतीपतिः ॥६६४॥ इति द्वादशो वेतालः ॥१४॥ N/A References : N/A Last Updated : October 23, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP