द्वाविंशो वेतालः
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
अथ स्कन्धगतः प्राह वेतालः श्रृणु भूपते ।
ब्रह्मस्थलाग्रहारेऽभूद्विष्णुस्वामी द्विजोत्तमः ॥११४५॥
चत्वारस्तस्य तनया बभूवुः श्रुतिशालिनः ।
मृते पितरि ते जग्मुर्मातुलानां निवेशनम् ॥११४६॥
सावज्ञमीक्षमाणास्तैर्निर्धनास्तत्र ते स्थिताः ।
अचिन्तयन्नहो दुःखं दारिद्र्यं मरणाधिकम् ॥११४७॥
गृध्राः प्रयान्ति च शवं नित्यं मांसोपजीविनः ।
निष्पत्त्रमपि दग्धं च नित्यमागारिकास्तरुम् ।
न तु दारिद्र्यसंस्पृष्टं कश्चित्स्पृशति पूरुषम् ॥११४८॥
शीतलैर्दीर्घनिद्रैश्च निरुच्छ्वाससुखैः शवैः ।
दरिद्रस्तापनिर्निद्रः सोच्छ्वासः स्पर्धते कथम् ॥११४९॥
एकः प्राह गतोऽद्याहं स्मशानं भूतभीषणम् ।
दौर्गत्यदुःखादात्मानं परित्यक्तुं समुद्यतः ॥११५०॥
ततः केनापि कारुण्याद्बुधेनेवास्मि रक्षितः ।
अभुक्त्वा स्वकृतं कर्म मरणं प्राप्यते कुतः ॥११५१॥
इति ध्यात्वा ययुः स्वैरं सर्वे देशान्तरं पृथक् ।
पुनः संगमसंकेतस्थानमादिश्य ते ततः "॥११५२॥
ततः कालेन ते भ्रान्त्वा पृथिवीं बहुकौतुकाम् ।
अवाप्तविद्या मिलिताः परस्परमथोचिरे ॥११५३॥
अस्थिसंपादिनीं विद्यां जानामीत्यग्रजोऽभ्यधात् ।
तन्मांसयोजनज्ञोऽहमित्युवाच ततः परः ॥११५४॥
त्वग्रोमन्यसकुशलस्तत्रास्मीत्यपरोऽब्रवीत् ।
जीवितार्पणविज्ञाने दक्षोऽस्मीत्येव तत्परः ॥११५५॥
विद्याप्रभावं ते द्रष्टुं मिथस्तत्र संकौतुकाः ।
दैवादवापुः सिंहस्य कीर्णजीर्णास्थिसंचयम् ॥११५६॥
तं समग्रं समांसं च कृत्वा त्वग्रोमसंकुलम् ।
क्रमैश्चतुर्थो विद्यानां पञ्चननमजीवयत् ॥११५७॥
दंष्ट्राविटङ्कवदनः क्षुत्क्षामः समजायत ।
जघान तीक्ष्णं करजैः पुरस्ताद्द्विजपुत्रकान् ॥११५८॥
कथयित्वेति वेतालः पप्रच्छ धरणीपतिम् ।
ब्रूहि राजन्द्विजवधोद्भूतं तत्कस्य पातकम् ॥११५९॥
इति पृष्टोऽब्रवीद्राजा यो मृगेन्द्रमजीवयत् ।
तस्य तत्पातकं घोरमन्येषां नास्त्यसंशयम् ॥११६०॥
इति श्रुत्वेति वेतालो गत्वा पुनरलम्बत ।
नृपोऽपि तं गृहीत्वा तु प्रायादतुलविक्रमः ॥११६१॥
इति द्वाविंशो वेतालः ॥२४॥
N/A
References : N/A
Last Updated : October 25, 2017
TOP