संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| विंशो वेतालः द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका विंशो वेतालः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत विंशो वेतालः Translation - भाषांतर स शीघ्रगामिनं प्राह नृपं स्कन्धगतः पुनः । निःशब्देऽस्मिन्निरालोके दीर्घाध्वनि कथां श्रृणु ॥१०६६॥चन्द्रावलोक इत्यासीच्चित्रकूटपुरे नृपः । जहार भूरिरत्नौघः सदा रत्नाकरश्रियम् ॥१०६७॥ स मृगव्यरसाकृष्टः कदाचिद्वातरंहसा । तुरगेण हृतः प्राप वनं रुचिरपादपम् ॥१०६८॥ तत्र फुल्ललताजालकलितालिकुलोत्सवे । विशालतालहिन्तालतमालश्यामलावलौ ॥१०६९॥ ददर्श दर्पणस्वच्छं सरो नीरजराजितम् । स्नातसिद्धवधूवृन्दकुचकुङ्कुमपिञ्जरम् ॥१०७०॥ समाश्वास्य कृताहारस्तत्र बालबिसाङ्कुरैः । ददर्श कन्यां त्रैलोक्यसारं सारङ्गगामिनीम् ॥१०७१॥ कटाक्षमधुपां हासपुष्पां किसलयाधराम् । स्तनस्तबकिनीं मूर्तां काननस्येव देवताम् ॥१०७२॥ तां वीक्ष्य मन्मथशरव्याकुलीकृतचेतनः । दत्तशाप इवानेकसायकाभिहतैर्मृगैः ॥१०७३॥ मुनेः कण्वस्य तां ज्ञात्वा तत्सख्याभिहितां सुताम् । इन्दीवरप्रभां नाम सुभगां मेनकात्मजाम् ॥१०७४॥ गत्वा ययाचे प्रणतः स्थितं निजतपोवने । मुनीन्द्रं चन्द्रवदनां स चास्मै तां ददौ मुदा ॥१०७५॥ ततः प्रतिनिवृत्तस्तामादाय तरुणीं नृपः । व्रजन्प्राप सरस्तीरं संध्ययालिङ्गितेऽहनि ॥१०७६॥ अस्तं च तिग्मकिरणे याते भुवनभूषणे । अभूतां रोदसी भूरितिमिरैरावृताम्बरे ॥१०७७॥ ततो हरकिरीटेन माद्यन्मदनबन्धुना । शर्वरी शर्वरीशङ्खवलयेनेन्दुनोदितम् ॥१०७८॥ केतकीदलतां कर्णे तनौ कर्पूरपूरताम् । हारतां च ययौ ज्योत्स्ना कुचयोर्हरिणीदृशाम् ॥१०७९॥ अथाश्वत्थतरोर्मूले बालपल्लवसंस्तरे । एलावल्लीलताकुञ्जे राजा भेजे नवां वधूम् ॥१०८०॥ सद्भावभोगसुभगं मन्दलज्जाभरं शनैः । सिषेवे चारुसुरतं सविदग्धोऽतिमुग्धया ॥१०८१॥ ततः प्रभाते विकटाकारदंष्ट्रोत्कटाननः । ज्वालामुखाभिधोऽभ्येत्य प्राह तं ब्रह्मराक्षसः ॥१०८२॥ अस्मिन्ममाश्रमे पाप कन्यया दुर्विनीतया । अहो निज इवोद्याने रमसे विगतत्रपः ॥१०८३॥ व्यात्ताननगताटालविकटैर्दन्तसंपुटैः । पिष्टो विभ्रष्टपुण्यस्त्वं राजन्न भवसि क्षणात् ॥१०८४॥ चन्द्रावलोकः श्रुत्वेति तमेव शरणं ययौ । देशकालावनालोक्य प्रभवन्ति न पण्डिताः ॥१०८५॥ नृपतौ प्रश्रयजुषि प्रयातः किंचिदार्द्रताम् । ज्वालामुखोऽवदद्राजञ्श्रृणु येनाभिरक्ष्यसे ॥१०८६॥ सत्त्ववर्षः स्वयं पित्रा जनन्या च धृतो दृढम् । पादाभ्यां च कराभ्यां च त्वयैवोद्धृतमस्तकः ॥१०८७॥ शिशुर्ममोपहाराय कृताभ्युपगमः स्वयम् । विशस्यतां काननेऽत्र ब्राह्मणः सप्तमेऽहनि ॥१०८८॥ नान्यथा तव मोक्षोऽस्ति सानुगस्येति तद्गिरा । बाढमुक्त्वा नरपतिः सभार्यो दुःखितो ययौ ॥१०८९॥ अवाप्य श्वखुराङ्केन सभार्यः स्वपुरं ययौ । प्रदध्यौ पन्त्रिचक्रेण राक्षसाय प्रतिश्रुतम् ॥१०९०॥ मुख्यामात्यस्ततो धीमा(न्सुमतिर्नाम धीमतः । हैमं पुरुषमादाय महार्हं मणिभूषितम् ॥१०९१॥ चचारात्मानमेतेन को ददातीति घोषयन् । ) निशम्य ब्राह्मणः कश्चिद्बालोऽप्यङ्गीचकार तम् ॥१०९२॥ सुवर्णपुरुषं पित्रे दापयित्वा महाशयः । उवाच मातरं दीनां निर्धनं पितरं च सः ॥१०९३॥ राज्ञः सपौरभृत्यस्य श्रेयसे वितराम्यहम् । आत्मानं राक्षसायाद्य मूल्येनानेन भूरिणा ॥१०९४॥ युष्मद्दारिद्र्यनाशाय कुशलं प्रस्तुतं मया । पवनाकम्पिदीपाग्रशिखालोलैर्निजासुभिः ॥१०९५॥ इदं मेदोस्थिमांसासृग्बीभत्सं क्षणिकं वपुः । सत्यं परोपकारेण यात्येव स्पृहणीयताम् ॥१०९६॥ इत्यादि कुत्सयन्कायं जनकं शनकैः शिशुः । चकार धीरं संनद्धो भूमिपालसमीहिते ॥१०९७॥ ततः स मन्त्री राजानं कृत्वा विदित््कथम् । निनाय पित्रा मात्रा च सहाश्वत्थतलं द्विजम् ॥१०९८॥ स्वयमेत्य नृपस्तत्र मण्डलं ब्रह्मरक्षसे । पुरोधसा विधायाशु तं बालं हन्तुमुद्ययौ ॥१०९९॥ स च स्तब्धकरो मात्रा प्रत्यक्षं वीक्ष्य राक्षसम् । पित्रा निरुद्धचरणः प्रदध्यौ हृदये शिशुः ॥११००॥ उद्दामकरवालेन राज्ञाद्य निहतस्य मे । भूयात्परोपकारैकप्रवणं जन्म सर्वदा ॥११०१॥ विचिन्त्येति हि सस्मेरं जहास द्विजदारकः । ते नृपप्रमुखा येन बभूवुर्विस्मयाकुलाः ॥११०२॥ तं कृताञ्जलयः सर्वे निवृत्ता वधसाहसात् । किमेतदिति साशङ्काः प्रशसंसुः सराक्षसाः ॥११०३॥ कथयित्वेति वेतालो भूपालं बहलच्छलः । पप्रच्छ ब्राह्मणशिशोरकाण्डस्मितकारणम् ॥११०४॥ राजा जगाद यः कश्चिदबलः परिभूयते । केनापि याति शरणं मातरं पितरं च सः ॥११०५॥ तदसंरक्षितस्त्राणं राजानमधिगच्छति । ततोऽप्यप्राप्य निर्वाणं देवं स्मरति पूजितम् ॥११०६॥ ते सर्व एव तत्रास्य निधनाय समुद्यताः । तान्वीक्ष्याचिन्तयद्बालः स सत्वविपुलाशयः ॥११०७॥ अहोऽतिदुःखसारस्य शरीरस्यास्य भङ्गिनः । कृते कुकर्मप्रारम्भो मतेरिति जहास सः ॥११०८॥ इति श्रुत्वेति वेतालः प्रययौ शिंशिपां पुनः । आनिनाय च तं भूयो लम्बमानं नरेश्वरः ॥११०९॥ इति विंशो वेतालः ॥२२॥ N/A References : N/A Last Updated : October 25, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP