संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| पुरुषदुष्टाख्यायिका द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका पुरुषदुष्टाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत पुरुषदुष्टाख्यायिका Translation - भाषांतर राजा पुनस्तमादाय ययौ तूर्णं महाजबः । स च स्कन्धस्थितः प्राह नृपते श्रूयतामिति ॥१८४॥ श्रीमान्पाटलिपुत्रेऽभून्नृपो विक्रमकेसरी । तस्योचितोऽभवत्पुत्रः श्रीपराक्रमकेसरी ॥१८५॥ प्रियः क्रीदाशुकस्तस्य बभूव भुवि विश्रुतः । सर्वशास्त्रेषु कुशलः कलासु च विचक्षणः ॥१८६॥ कान्ताप्रसादनोपायप्रगल्भो नर्मकोविदः । अतीतानागतज्ञानपरिनिष्ठितमानसः ॥१८७॥तं राजपुत्रः पप्रच्छ भार्या मे का भविष्यति । इति पृष्टः शुकः प्राह निजपक्षाङ्घ्रिभिर्मुहुः ॥१८८॥ कुर्वन्मरकताबद्धमिव काञ्चनपञ्चरम् । राज्ञश्चन्द्रावलोकस्य मगधाधिपतेः सुता ॥१८९॥ चन्द्रप्रभा नाम विभो भाविनी ते वधूरिती । तच्छ्रुत्वा राजतनयो वशगोऽभून्मनोभुवः ॥१९०॥ कामः संकल्पवसतिरिति सत्या जनस्थितिः । तस्या मगधपुत्र्याश्च सोभिका नाम सारिका ॥१९१॥ बभूव विभ्रमसखी शुकस्य सदृशी गुणैः । तयापि तस्याः कथितो राजपुत्रः कथान्तरे ॥१९२॥ श्रुत्वैव राजतनया येनाभूत्स्मरतापिता । कालेन मगधाधीशो याचितस्तां सुतां ददौ ॥१९३॥ तस्मै नरेन्द्रपुत्राय महार्हविहितोत्सवः । स तया संगतः श्रीमान्रोहिण्येव निशाचरः ॥१९४॥ विजहार मनोहारिकेसरोद्यानभूमिषु । अथैकपञ्जरासक्तः शुकः सारिकया सह ॥१९५॥ तामुवाच प्रिये प्रेमभाजनं भज मामिति । सारिका प्राह पुरुषाः कृतघ्नाः क्रूरकारिणः ॥१९६॥ न मह्यं रोचते तस्मात्त्वया प्रणयसंगमः । श्रुत्वेति सारिकावाचं शुकः प्रोवाच सर्वथा ॥१९७॥ पापस्यायतनं नार्यो विपरीतं प्रभाषसे । इत्युत्पन्नविवादे ते समभ्येत्य नृपात्मजम् ॥१९८॥ पप्रच्छतुः पणं दास्ये कृतस्त्रीपुरुषान्तरम् । ताभ्यां पृष्टः स्मितमुखो राजपुत्रोऽभ्यभाषत ॥१९९॥ श्रुत्वा स्त्रीपुंसयोर्दोशांस्ततो न्यायं प्रचक्ष्महे । इति तद्वचसा पूर्वं श्यामाङ्गी सारिकाब्रवीत् ॥२००॥ चम्पकस्येव कलिकां बिभ्राणां चञ्चुकन्दलीम् । अवन्तीवासिनः सूनुरर्थदत्तस्य संमतः ॥२०१॥ बभूव धनदत्ताख्यो वणीजो धनदश्रियः । कालेन याते पितरि त्रिदिवं दयितासखे ॥२०२॥ सोऽभवद्वुर्जनासक्तः किंचिदुन्मत्तशैशवः । स तैर्नित्यमकार्योऽपि साधु साध्विति वादिभिः ॥२०३॥ मित्रैर्निःशेषविभवः कृतः स्त्रीद्यूतपानकैः । एक एव ततः प्रायाद्वित्तहीनो दिगन्तरम् ॥२०४॥ जडास्त्यजन्ति पर्यन्ते धूर्ता भोगाब्जषट्पदाः । स प्राप चन्दनपुरं भ्रान्त्वा पृथ्वीं निराश्रयः ॥२०५॥ संतापार्त इव व्यालः शीतं चन्दनकाननम् । तत्र तस्यै परिझ्ञाय पुत्रीं रत्नवतीं ददौ ॥२०६॥ हिरण्यगुप्तो निष्पुत्रः प्रवरो धनिनां वणिक् । सुखं स पूजितस्तेन स्थित्वा तत्र तया चिरम् ॥२०७॥ श्वशुरं प्राह गच्छामि स्वदेशं मातुरन्तिकम् । इति श्रुत्वा भृशं तेन वारितोऽपि वधूसखः ॥२०८॥ अचिरात्पुनरेष्यामीत्युक्त्वा प्राप्तधनो ययौ । स गच्छन्नार्यया सार्धं दास्या चानुगतः शनैः ॥२०९॥ निर्जनामटवीं प्राप्य श्वभ्रोपान्ते व्यचिन्तयत् । करण्डिकविनिक्षिप्तमादायास्या विभूषणम् ॥२१०॥ कुहरे प्रक्षिपाम्येनां बध्वा रज्ज्वा किमेतया । ध्यात्वेति हृत्वालंकारं सदासीकां निपात्य ताम् ॥२११॥ ययौ कुतः कृतघ्नानां हृदये करुणाकराः । सापि बाला लताजालधृता नैव व्यपद्यत ॥२१२॥ पञ्चतां त्वगमद्द्वासी भिनकर्मा हि संसृतिः । ततः समुद्धृताभ्येत्य पान्थैः करुणकूजिनी ॥२१३॥ नीता पौरैः परिज्ञाता पितुरेव निवेशनम् । सत्रासकम्पतरला पृष्टा पित्रा जगाद सा ॥२१४॥ हृतो मे भूषणैः सार्धं भर्ता दस्युजनैरिति । श्रुत्वेत्याश्वासिता तेन दत्वान्यां भूषणावलीम् ॥२१५॥ तस्थौ तमेव ध्यायन्ती स्निग्धमुग्धाशया पतिम् । सोऽपि कालेन तत्सर्वं भक्षयित्वा विभूषणम् ॥२१६॥ कितवः पुनरभ्यायान्निःशङ्कः श्वशुरालयम् । मृतासौ नैव विज्ञाता दुहिता भवतो ध्रुवम् ॥२१७॥ याचे धनं तत्कृतेऽहं स ध्यात्वेति समाविशत् । प्रविश्य दृष्ट्वा तां तत्र स्वभार्यां भयकम्पितः ॥२१८॥ हा हतोऽस्मीति संचिन्त्य शिलाहत इवाभवत् । सपि व्यालोक्य दुहिता सहसैवोपसृज्य तम् ॥२१९॥ कर्णेऽवदन्न तातेन तज्ज्ञातं यत्त्वया कृतम् । विश्रब्धो भव मा भैषीस्तयेत्याश्वासितो रहः ॥२२०॥ उवास पूजितो हृष्टः श्वशुरावसथे चिरम् । ततः कदाचित्स द्यूतव्यसनादर्थलोलुपः ॥२२१॥ विश्वासमगमत्सापि दृष्टवेषान्यसुन्दरीम् । तां हत्वा तदलंकारमादाय प्रययौ निशि ॥२२२॥ इत्येवं पापचरिताः पुरुषा निर्घृणाशयाः । को नु दुष्टभुजङ्गानां तद्विधानां हि विश्वसेत् ॥२२३॥ इति पुरुषदुष्टाख्यायिका ॥३॥ N/A References : N/A Last Updated : October 23, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP