षष्ठो वेतालः
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
( पुनस्तमादाय ययावखिन्नो वसुधाधिपः ।
स च स्कन्धस्थितः प्राह श्रृणु राजन्कथामिमाम् ॥३६४॥
अस्ति धर्मस्य वसुधा लक्ष्म्याः क्षेत्रं स्थितिः स्थितेः ।
संपदां सदनं स्वर्गं जयत्युज्जयिनी पुरी ॥३६५॥
पुण्यसेनाभिधानस्य तस्यामासीन्महीपतेः ।
ब्राह्मणः सेवको धीमान्हरिस्वामीति विश्रुतः ॥३६६॥
देवस्वामी सुतस्तस्य बभूव श्रुतिपारगः ।
सोमप्रभा च तनया मूर्तेव श्रीर्मनोभुवः ॥३६७॥
विज्ञानिने ज्ञानिने वा देया शूराय वा त्वया ।
अहमित्याप्तनियमा पितरं सा व्यजिज्ञपत् ॥३६८॥
अत्रान्तरे दाक्षिणात्ये नृपे जेतुं समागत ।
पुण्यसेनो नरपतिः सहामात्यैरचिन्तयत् ॥३६९॥
सर्वथा सामसाध्योऽसौ रक्तामात्यो महाधनः ।
शूरश्च राजा तेनास्मै दूतो धीमान्विसृज्यताम् ॥३७०॥
इति मन्त्रिगिरा राजा वर्चस्वी गुनवान्द्विजः ।
हरस्वामी विसृष्टस्तत्कटकं सहसाभ्यधात् ॥३७१॥
तत्र राज्ञा समाधाय संधिं तस्मिन्स्थिते क्षणम् ।
विप्रः कश्चित्तमभ्येत्य ययाचे रुचिरः सुताम् ॥३७२॥
सोऽब्रवीज्ज्ञानिविज्ञानिशूरेभ्यो नापरः सखे ।
योग्यः पुत्री मयोद्वोढुमिति नः समयो दृढः ॥३७३॥
तत्सुता ब्राह्मणयुवा विज्ञानं स्वमदर्शयत् ।
क्षणेन दृष्टवान्येन हरिस्वामी जगत्त्रयम् ॥३७४॥
हृष्टस्ततः स्वतनयां विस्मितो वचसा ददौ ।
शुभे दिने सप्तमेऽस्तु विवाह इति संविदा ॥३७५॥
अत्रान्तरेऽपरो विप्रः शोरो धीमान्कृतश्रमः ।
देवस्वामिनमब्येत्य तत्स्वसारमयाचत ॥३७६॥
ज्ञानिविज्ञानिशूराणां मध्यादेको लभेत ताम् ।
इत्यसौ तद्वचः श्रुत्वा धनुर्विद्यामदर्शयत् ॥३७७॥
अनेकमल्लसंचार्यं दृष्ट्वा तस्यानतं धनुः ।
देवस्वामी ददौ तस्मै विस्मितो भगिनीं गिरा ॥३७८॥
मात्रापि द्विजपुत्राय कस्मैचिज्ज्ञानशालिने ।
पुत्री वाक्येन दत्तासौ तत्प्रभावोदितस्मयात् ॥३७९॥
सप्तमेऽह्नि वृतस्तेषां लग्ने प्राप्ते गृहाधिपः ।
हरस्वामी स्वतनयां ददर्शोज्ज्वलभूषणाम् ॥३८०॥
ज्ञानिविज्ञानिशूरेषु तुल्यं प्राप्तेष्वथोत्सवे ।
अन्विष्टापि प्रयत्नेन कन्या नैव व्यदृश्यते ॥३८१॥
ततस्तज्जनकः प्राह दुःखितः साश्रुलोचनः ।
ज्ञानिन्वद क्क यातासौ निकषेयं तवागता ॥३८२॥
इति पृष्टः स चोवाच धूम्राक्षेणाद्य रक्षसा ।
सा नीता रूपलुब्धेन घोरां विन्ध्याटवीमितः ॥३८३॥
विज्ञानिना कल्पितेऽथ समारुह्य रथोत्तमे ।
शूरस्तं राक्षसं हत्वा कन्यकामानिनाय ताम् ) ॥३८४॥
ततो लग्नक्षणे प्राप्ते तत्पिता श्रान्तमानसः ।
सर्वे कृतोपकाराश्च तुल्याश्चेति व्यचिन्तयत् ॥३८५॥
कथयित्वेति वेतालः पप्रच्छ धरणीपतिम् ।
कस्तेभ्यः कन्यकालाभयोग्य इत्युच्यतां विभो ॥३८६॥
पृष्टोऽब्रवीन्नरपतिः स पात्रं येन निर्जिता ।
सा कन्यान्यौ तु विधिना दिष्टौ तौ सिद्धिकारणम् ॥३८७॥
इति श्रुत्वेति वेतालो गत्वा क्षिप्रमलक्षितः ।
तस्मि९न्विटपिपर्यन्ते तथैवोल्लम्बितः स्थितः ॥३८८॥
इति षष्ठो वेतालः ॥८॥
N/A
References : N/A
Last Updated : October 23, 2017
TOP