संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| अष्टमो वेतालः द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका अष्टमो वेतालः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत अष्टमो वेतालः Translation - भाषांतर ततः पुनस्तमादाय जगाम जगतीपतिः । तत्स्कन्धस्थोऽपि वेतालः प्राह तं श्रूयतामिति ॥४१९॥ बभूव चन्द्रसिंहाख्यस्ताम्रलिप्त्यधिपो नृपः । दिक्षु यद्विक्रमोत्साहश्लथा वीरकथाभवत् ॥४२०॥ तस्य सेवाव्रतः सत्वशीलाख्यो राजवंशजः । आसीत्कार्पटिको द्वारि शेतातपसहश्चिरम् ॥४२१॥ ततः कदाचिन्मृगयारसाकृष्टः स भूपतिः । पार्श्णिसंस्पर्शरोषेण हृतोऽश्वेतानियायिना ॥४२२॥ निर्मानुशं वनं प्राप्य स दूराध्वश्रमातुरः । नापश्यदनुगं कंचिदेकं कार्पटिकं विना ॥४२३॥ तत्र संदृश्य पानीयं वितीर्यामलकद्वयम् । नृपं साश्व समाश्वास्य मार्गं कार्पटिकोऽदिशत् ॥४२४॥ पुनः स्वनगरं प्राप्तो मन्त्रिभिर्विहितोत्सवः । तुष्टः कार्पटिकं श्रीमांश्चकारात्मसमं नृपः ॥४२५॥ ततः कदाचिद्दर्पेण स सिंहलपतेः सुताम् । मृगाङ्कलेखामुचितां विसृष्टो याचितुं ययौ ॥४२६॥ स प्रापाम्भोनिधिं तुङ्गतरङ्गालिङ्गिताम्बरम् । कैलासमिव चार्वर्कशिखरोल्लिखिताखिलम् ॥४२७॥ तत्रारुह्य प्रवहणप्रस्थिते सिंहलोन्मुखे । तस्मिन्महिषसंकाशः समुत्तस्थौ महाधनः ॥४२८॥ तदुद्भूतमहावात्या चण्डताण्डवितेऽम्बुधौ । प्रलयावर्तवित्रस्ताः क्कापीव ककुभो ययुः ॥४२९॥ ततः प्रवहणारूढा वणिजो ब्राह्मणास्तथा । चन्द्रसिंहमहीपालं चुक्रुशुर्भयकातराः ॥४३०॥ तं स्वामिशरणाक्रन्दं श्रुत्वा कार्पटिकोऽम्बुधौ । अमृष्यमाणः सहसा ममज्जाकोशखङ्गभृत् ॥४३१॥ ततो भग्ने प्रवहणे सर्वे ते जलचारिभिः । भक्षिताः सत्वशीलस्तु निजोत्साहेन रक्षितः ॥४३२॥ ध्वजयष्टिं जले दृष्ट्वा तत्पार्श्वेन प्रविश्य सः । अपश्यत्काञ्चनपुरं पाताले रत्नतोरणम् ॥४३३॥ मणिप्रासादमध्यस्थां तत्र तुष्टाव पार्वतीम् । भुजङ्गदैत्यकन्याभिः कृतपूजामहोत्सवाम् ॥४३४॥ जय गौरि गलद्गर्वगीर्वाणगणवन्दिते । जय काललघुग्रासहेलाहुंकृतिशालिनि ॥४३५॥ जय सोत्सुकचण्डिशनेत्रषट्पदपद्मिनि । जय दैत्येन्द्रहृत्पद्मसंकोचघनकौमुदि ॥४३६॥ जय मायागुणप्रोतजगद्यन्त्रविनोदिनि । यज स्फोटसमुन्मेषव्याप्तविश्वसरस्वति ॥४३७॥ इति स्तुत्वा भववधूं तत्पुराग्रे ददर्श सः । दासीसहस्रानुगतां कन्यां दिव्यविभूषणाम् ॥४३८॥ हरिणीहारिनयनां मत्तमातङ्गगामिनीम् । विलासलीलालसितां स्मरोपवनमञ्जरीम् ॥४३९॥ लावण्यवारिपरिस्वां मेखलायन्त्रमालिकाम् । रुद्धनेत्रानलध्वस्तस्मररक्शापुरीमिव ॥४४०॥ तां दृष्ट्वा स स्खलद्वीर्यो मुद्रितः पुष्पधन्वना । चित्रन्यस्त इव क्षिप्रमभूद्विस्मयनिश्चलः ॥४४१॥ स पूजयित्वा शर्वाणीं प्रविष्टां मणीमन्दिरे । अनुप्रविश्य तत्कान्तिं पपौ नयनचन्द्रिकाम् ॥४४२॥ तस्यां स्फाटिकपर्यङ्कनिषण्णायां स सादरम् । नीतः कार्पटिकः स्नातुं दासीभिर्विमलं सरः ॥४४३॥ स्नानार्थं नोदितस्तत्र ताम्रलीप्तान्तरस्थितात् । उत्तस्थौ भूमिपोद्यानक्रीदाकमलिनीतटात् ॥४४४॥ ततो नवमधुक्षीब इवानन्दितमानसः । कन्दर्पसर्पदष्टोऽभूत्स तत्रात्यन्तमूर्च्छितः ॥४४५॥ क्षिप्रमुद्यानपालेन विज्ञप्तोऽहं तदागम म् । चण्डसेननृपोऽभ्येत्य तं ददर्श तथास्थितम् ॥४४६॥ स कथंचित्परिज्ञाय नृपमुन्मील्य लोचने । मन्दमन्देन वचसा निजवृत्तान्तमभ्यधात् ॥४४७॥ तच्छ्रुत्वा विस्मितो राजा तमुवाच स्मरातुरम् । समाश्वसिहि पातालं गच्छावः पुनरब्धिना ॥४४८॥ इत्युक्त्वा सचिवन्यस्तराज्यः प्रणयिवत्सलः । सह कार्पटिकेनैव चण्डसेनोऽम्बुधिं ययौ ॥४४९॥ तत्र प्रवहणारूढः सलिले तत्प्रदर्शिते । निमज्य तेन सहितः क्षिप्रं पातालमाप्तवान् ॥४५०॥ ततो गौर्याश्रमे कन्यां तामपश्यत्सुलोचनाम् । नवां स्मरमयूरस्य निवासकदलीमिव ॥४५१॥ सैंहिकेयपरित्रासाल्लक्ष्मी हरिणलक्ष्मणः । चक्रिचक्रसमाक्रान्तामिव पातालमाश्रिताम् ॥४५२॥ तां दृष्ट्वा भूमिपालोऽभूद्गाढप्रमदविस्मयः । अहो स्थानेऽनुरक्तोऽयमिति लोलितशेखरः ॥४५३॥ सापि संपूज्य वरदां प्राप्तोद्वाहवरा सती । दृष्ट्वा राजानमवदन्निजदासीं सविस्मया ॥४५४॥ ब्रूहि सत्वोचिताकारं गत्वैनं पुरुषोत्तम म् । देव पूजां गृहाणेति तमादिष्टेत्यभाषत ॥४५५॥ इह स्थितेनैव मया गृहीता सुभ्रु सत्कृतिः । इति भूमिभुजाप्युक्ता कन्यकामेत्य सावदत् ॥४५६॥ निर्विकारेण सत्त्वेन तस्यावष्टम्भशालिना । सा भुजङ्गी ततः कृष्टा मन्त्रेणेवान्तिकं ययौ ॥४५७॥ सुवर्णवल्लरीरम्ये रत्नपादपकानने । सर्वर्तुफलपुष्पाढ्ये विश्रान्तं सा तमब्रवीत् ॥४५८॥ पूजां देव गृहायातो गृहाण मम सादरम् । इत्यर्थितस्तया राजा जगाद सहितोऽमुना ॥४५९॥ द्रष्टुं गौरीमहं प्राप्तस्त्वां ज्ञात्वा त्वर्थिवत्सलाम् । इति श्रुत्वा परिज्ञाय तं कार्पटिकमानतम् ॥४६०॥ मुहूर्तं लज्जया तस्थौ स्मृत्वा तां तस्य वञ्चनाम् । ततोऽब्रवीत्सा राजेन्द्र सुताहमसुरप्रभोः ॥४६१॥ कालनेमेः पुरयुगं ममेदं भोगमोक्षदम् । सर्वसिद्धिप्रदं दीप्तं रत्नहाटकनिर्मितम् ॥४६२॥ जन्ममृत्युजराव्याधिवर्जितं दिव्यसौरभम् । अहं पुरद्वयोपेता त्वदधीना नरेश्वर ॥४६३॥ इत्याकर्ण्य नृपः प्राह स्पृशन्कार्पटिकं दृशा । प्रेमविश्रम्भभूरेको मम मानसदर्पणः ॥४६४॥ सुहृत्पिता सुतो बन्धुः स्वामी सर्वमयं मम । कुलोन्नतः सत्त्वशीलस्तदस्मै त्वं मयार्पिता ॥४६५॥ ( पुत्रीव सुभ्रु गुणिने भव्यस्ते प्रणयो यदि । निशम्य तां नरपतेर्गिरमौचित्यमन्थराम् ॥४६६॥ तथेति लज्जिता प्राह सा लिखन्ती दृशा भुवम् । कन्यामसुरराज्यं च दत्त्वा तस्मै नृपोऽब्रवीत् ) ॥४६७॥ एकस्यामलकस्यैतत्फलमन्यद्गुणं मम । तावापृच्छत्ततस्तस्मिन्स निमज्य सरोवरे ॥४६८॥ उन्ममज्ज निजोद्यानलीलापुष्करिणीतटात् । कथां राज्ञे निवेद्येति वेतालः पुनरभ्यधात् ॥४६९॥ वद कः सत्त्ववानत्र नृपः कार्पटिको नु वा । इति पृष्टोऽब्रवीद्राजा किं चित्रं यदि भूपतिः ॥४७०॥ कृते प्रतिक्रियां कर्तुं निमग्नो दृष्टवर्त्मना । श्लाघ्यः कार्पटिको येन भीताक्रन्दासहिष्णुना ॥४७१॥ अदेशिके निरालम्बे निमग्नो मकरालये । श्रुत्वेत्यलक्षितो यातो वेतालो विपुलच्छलः । शिंशिपाप्रान्तमागत्य पुनरुल्लम्बितः स्थितः ॥४७२॥ इत्यष्टमो वेतालः ॥१०॥ N/A References : N/A Last Updated : October 23, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP