एकविंशो वेतालः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


ततः स्कन्धस्थितः प्राह वेतालः श्रृणु भूपते ।
गतागतपरिश्रान्तः कथामेकां विनोदिनीम् ॥१११०॥
अभूत्पुरि विशालायामर्थदत्ताभिधो वणिक् ।
अनङ्गमञ्जरी नाम पुत्री तस्याभवत्प्रिया ॥११११॥
स तां ददौ रूपवतीं ताम्रलिप्तानिवासिने ।
धनाभिजनतुल्याय वणिजे मणिकर्मणे ॥१११२॥
शक्तः क्शणमपि स्थातुं न यदा रहितस्तया ।
तदा न तत्याज पिता स तां निजगृहात्सदा ॥१११३॥
कदाचित्स्वपुरीं याते सा पत्यौ मणिकर्मणि ।
जहर्ष कृश्णसर्पेण निर्मुक्तेव निरर्गला ॥१११४॥
राज्यमेतत्सुधा चैषा चन्द्रोऽयमयमुत्सवः ।
यत्क्षणं नयनेनेष्टो जनः पुण्येन दृश्यते ॥१११५॥
ततः सा यौवनोन्मत्ता ग्रीष्मे चन्दनचर्चिता ।
उत्फुल्लमल्लिकादामधम्मिल्लहृतषट्पदा ॥१११६॥
ददर्श हर्म्यमारुह्य सौन्दर्यकुसुमायुधम् ।
कमलाकरनामानं युवानं द्विजपुत्रकम् ॥१११७॥
तं वीक्ष्य नयनानन्दबान्धवं साभवत्क्षणात् ।
नलिनीव विलीनेव दष्टेव मुषितेव च ॥१११८॥
तदालोकनसंजातपृथुवेपथुमोहिता ।
नेदं युक्तमितीवोक्ता सिञ्जानमणिभूषणैः ॥१११९॥
चन्द्रारागमुखीं पद्मरागरक्तकरोज्ज्वलाम् ।
सोऽपि तां चिरमालोक्य लावण्यमणिपुत्रिकाम् ॥११२०॥
ययौ विलोलयन्मौलिं रूपातिशयविस्मितः ।
प्रविष्टामिव तद्वक्त्रे कर्षन्निव शनैर्दृशम् ॥११२१॥
ततः सा प्रौढतापेन ग्लपिता मदनाग्निना ।
दाहोपकरणं मेने मृणालकदलीवनम् ॥११२२॥
तुषारकिरणस्मेरां शर्वरीं मदनोज्ज्वलाम् ।
दावानलैर्वलयितामिव घोराममंस्त सा ॥११२३॥
स्तौति स्म पार्वतीमेत्य सा निजोद्यानवर्तिनी ।
तेन पुष्पशरेणेव संगमो मे भवत्विति ॥११२४॥
कृष्णपक्षेन्दुलेखेव शरन्निर्झरिणीव वा ।
कान्तिमात्रावशेशाभूत्केयूराहतकङ्कणा ॥११२५॥
तां पाण्डुरमुखीं क्षामां स्मरज्वरभयातुराम् ।
सखी मालतिका नाम दृष्ट्वा शोकाकुलाभवत् ॥११२६॥
साथ गत्वा तदादिष्टा कमलाकरमन्दिरम् ।
तं ददर्श निजोद्याने प्रच्छन्ना विरहातुरम् ॥११२७॥
तामेव विलपन्तं तु सुहृदाश्वासितं मुहुः ।
तं समभ्येत्य सा प्राह सख्यास्तां मन्मथव्यथाम् ॥११२८॥
ध्यायति ग्लपते क्षिप्रं शेते मुह्यति वेपते ।
व्यावर्तते च सुभगा त्वां विना सा सुलोचना ॥११२९॥
चन्दनानीन्धनं यस्मिन्निन्दवो विषबिन्दवः ।
हारो वह्निविकारश्च तेन तापेन सार्दिता ॥११३०॥
इति तद्वचसा सद्यः सुधासारैरिवोत्थितः ।
निशि प्रायात्तदुद्यानं स तया चारसूचितः ॥११३१॥
सख्या गिरा तमायातं विज्ञायानङ्गमञ्जरी ।
उन्मिमील प्रदीपश्रीरिव स्नेहेन पूरिता ॥११३२॥
ततस्तमागतं दृष्ट्वा व्याकोशनयनोत्पला ।
लज्जां विहाय सोत्कण्ठं कण्ठे जग्राह सुन्दरी ॥११३३॥
अयं लब्धोऽसि सुभग क्क गमिष्यसि मे पुरः ।
अभिधायेति सास्रं तं तन्वी तत्याज जीवितम् ॥११३४॥
सहसा विगतप्राणां दृष्ट्वा तां कमलाकरः ।
विलप्य सुचिरं गाढं परिष्वज्याभवव्द्यसुः ॥११३५॥
ततः प्रभाते तद्दुःखमिलिते बन्धुमण्डले ।
अर्थदत्ते सुतां कोपलज्जाशोकैश्च निन्दति ॥११३६॥
तस्याः स मणिकर्णाख्यः कौमारः पतिराययौ ।
उत्कण्ठानिर्भरः पश्यन्प्रेयस्याः कुशलं जनम् ॥११३७॥
उद्यानमथ संप्राप्य तामन्यनरसंगताम् ।
दृष्ट्वैव जीवितत्यक्तां रागी प्रायात्स पञ्चताम् ॥११३८॥
सान्यरागेण निर्दग्धा विपन्नः स च तां विना ।
अहो नु कोऽप्यरं कामो विदग्धोऽप्याहितभ्रमः ॥११३९॥
ततो भगवती गौरी वणिजां कुलदेवता ।
गुणैरभ्यर्थिता सर्वान्कृपया तानजीवयत् ॥११४०॥
अभिधायेति वेतालः पप्रच्छ पॄथिवीपतिम् ।
रागः कस्याधिको राजन्नेतेभ्यः कथ्यतामिति ॥११४१॥
नृपः प्राह वणिक्पुत्री विप्रश्च झषकेतुना ।
अवस्थां दशमीं नीतौ भ्रमेण न तदद्भुतम् ॥११४२॥
गाढरागोऽत्र कौमारः पतिरस्या मुमोच यः ।
सहसा दयितान्प्राणाम्वज्रेणेव विदारितः ॥११४३॥
इति श्रुत्वेति वेतालो गत्वा पुनरलम्बत ।
स चानिनाय तं यत्नादखिन्नो मेदिनीपतिः ॥११४४॥
इत्येकविंशो वेतालः ॥२३॥

N/A

References : N/A
Last Updated : October 25, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP