चतुर्विंशो वेतालः
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
पुनः स्कन्धस्थितः प्राह निर्बन्धोऽयं महामते ।
भोक्तुं गच्छ श्रियं राजन्न चेदेकां कथां श्रृणु ॥११८३॥
दाक्षिणात्यो नरपतिर्धीमान्नाम महाबलः ।
शत्रुभिर्विजितः पत्न्या पुत्र्या च सहितो ययौ ॥११८४॥
तद्भार्या चन्द्रवत्याख्या कन्या लाव्ण्यवत्यपि ।
दूराध्वस्वेदिते चन्द्रविलासे खेदितः शनैः ॥११८५॥
ताभ्यां सहैव भूपालः समुत्तीर्य महाटवीम् ।
भिल्लपल्लेवनं प्राप छादितं द्वीपिचर्मभिः ॥११८६॥
मयूरपत्रवसनैर्गुञ्जास्रग्दामशेखरैः ।
शबरैराचितं संध्यारक्तश्रृङ्गैरिवारिभिः ॥११८७॥
तत्र तैः स महीपालो रत्नभूशणलोलुपैः ।
निहतानेकशबरः पतितः संमुखो रणे ॥११८८॥
तस्मिन्हते भयात्प्रायाद्दुहित्रा सह तद्वधूः ।
शार्दूलपातवित्रस्ता हरिणीव सुलोचना ॥११८९॥
सा गत वा दूरमुत्कम्पिकुचश्रोणीभरालसा ।
पुत्र्या त्रासचलन्नेत्रनीलोत्पलरुचा सह ॥११९०॥
वनं प्रविश्य लवलीलवङ्गैलालताकुलम् ।
निषसाद सरस्तीर कमलामोदमन्दिरे ॥११९१॥
अत्रान्तरे मृगकुलक्रीदारसकुतूहली ।
क्षत्रियश्चण्डसिंहाख्यः सपुत्रः प्राप तद्वनम् ॥११९२॥
नारीचरणमुद्रां तौ तत्र पांसुचयश्रियाम् ।
विस्मयं जग्मतुर्वीक्ष्य रम्यलेखाविभूषिताम् ॥११९३॥
लघुपादाम्बुजामेका मत्वा दीर्घाङ्गुलिं पराम् ।
चण्डसिंहः सुतं प्राह हर्शात्सिंहपराक्रम म् ॥११९४॥
कान्तायुगलमेतन्नो यदि दृक्पथमेश्यति ।
तदेषा दीर्घचरणा योग्या मे तव चापरा ॥११९५॥
इत्युक्त्वा नर्मवचने कृत्वा तौ सत्यसंविदौ ।
प्रापतुर्वीक्ष्य यत्नेन पूर्णेन्दुवदनायुगम् ॥११९६॥
तौ प्राप्य ललिते नार्यो स्मृत्वा तां निजसंविदम् ।
लेभाते स्वगृहं गत्वा ताभ्यां स्मरमहोत्सवम् ॥११९७॥
कन्यां विशालचरणां चण्डसिंहोऽभजत्स्वयम् ।
चण्डसिंहसुतः प्राप तां कन्याजननीमपि ॥११९८॥
इति तौ सत्यवचसा बद्धौ विनिमयेन च ।
लब्ध्वा भार्या सुताः काले प्रापस्तनयास्तथा ॥११९९॥
वर्णयित्वेति वेतालः पप्रच्छ पृथिवीपतिम् ।
ते तयोर्वंशसंभूताः के भवन्ति परस्परम् ॥१२००॥
इति पृष्टो नृपः प्रायादजानन्प्रश्ननिर्णयम् ।
तेनाथ तुष्टो वेतालः प्रशंसंस्तमभाषत ॥१२०१॥
अनेन राजन्धैर्येण तव प्रज्ञाबलेन च ।
रोमाञ्चकर्कशः कायः कस्य नाम न जायते ॥१२०२॥
पापोऽसौ क्षान्तिशीलस्ते प्रस्तुतो विपुले छले ।
प्रपञ्चनीयो यत्नेन क्षिप्रं बुद्धिमता त्वया ॥१२०३॥
घोरे महाप्रेतयागे स त्वां वक्ष्यति दुर्मतिः ।
अष्टाङ्गकृतभूस्पर्शः प्रणामः क्रियतामिति ॥१२०४॥
ततो वाच्यो मृदुगिरा स दुष्टः श्रमणः स्वयम् ।
अहम समस्तसामन्तमौलिनीताङ्घ्रिपङ्कजः ।
अशिक्षितप्रणामोऽहं तं त्वमेव प्रदर्शय ॥१२०५॥
इति त्वयोक्तः स यदा प्रणामं दर्शयिश्यति ।
तदा खङ्गेन हन्तव्यो हन्ति त्वामन्यथा तु सः ॥१२०६॥
स चक्रवर्तितां प्राप्तुं विद्याधरधराभुजाम् ।
समीहिते पशुं कृत्वा त्वां त्रैलोक्यविभूषणम् ॥१२०७॥
इति सर्वं तवाख्यानं स्वस्ति तेऽस्तु व्रजाम्यहम् ।
प्रायादुक्त्वेति वेतालो निर्गत्य प्रेतविग्रहात् ॥१२०८॥
राजापि शवमादाय क्षान्तिशीलान्तिकं ययौ ।
यामिन्यां भागशेषायामुत्साहविपुलेक्षणः ॥१२०९॥
इति चतुर्विंशो वेतालः ॥२६॥
N/A
References : N/A
Last Updated : October 25, 2017
TOP