अष्टादशो वेतालः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


ततः स्कन्धस्थितो भूयः स बभाषे भुको विभुम् ।
श्रृणु राजन्कथामेका कोऽन्यः कृन्तति संशयान् ॥९७५॥
चन्द्रप्रभाभिधानस्य नृपस्योज्जयिनीपतेः ।
द्विजो बभूव नगरे देवस्वामी महाधनः ॥९७६॥
चन्द्रस्वामीति तस्याभूत्तनयः श्रुतिसागरः ।
द्यूतव्यसनसंसक्तो निष्कलङ्काः क्क वा गुणाः ॥९७७॥
स वृद्धकितवैर्धूर्तैर्व्याजाद्बहुधनं जितः ।
बद्ध्वा लताभिरनिशं ताडितो मौनमास्थितः ॥९७८॥
मृतोऽयमिति कालेन त्यक्तस्तैर्निर्धनः कृशः ।
प्रययौ निशि निःशेषकोशक्लेशसमाश्रयः ॥९७९॥
स शून्यं देवनिलयं कथंचित्प्राप्य निःसहः ।
अपश्यत्तुङ्गस्वट्वाङ्गव्रतिनं भस्मभूषितम् ॥९८०॥
दीनं तपस्विना तेन क्षुत्क्षामोऽथ निमन्त्रितः ।
तद्विद्यानिर्मितं भेजे स विप्रः काञ्चनं पुरम् ॥९८१॥
तत्र बालमृगाक्षीभिः शशाङ्कशतकान्तिभिः ।
कृतराजोपचारेण स लेभे स्नानभोजनम् ॥९८२॥
विलोलमेखलादाम विरावयति सुन्दरम् ।
सुरतं सुरसुन्दर्यास्तत्र चित्रमवाप्तवान् ॥९८३॥
इति तद्विद्यया दिष्टमनुभूय समुत्थितः ।
प्रभाते तद्विरहितः पृथुशोकाकुलोऽभवत् ॥९८४॥
ततस्तत्कृपया चक्रे प्रत्यहं तन्महाव्रती ।
निशि यद्दृश्यते सर्वं वासरेषु न किंचन ॥९८५॥
ततः कदाचिदाराध्य स विप्रस्तमभाषत ।
भगवन्देहि मे विद्यामिमामीप्सितसिद्धिदाम् ॥९८६॥
इति तेनार्थ्यमानोऽसौ प्रोवाच वितताशयः ।
विद्येयं तीव्रनियमैश्छिन्नरागादिबन्धनैः ॥९८७॥
प्राप्यतेऽन्तर्जलजपादामुखं विघ्नकारिणीम् ।
सलिलान्तः प्रविष्टस्त्वं स्वप्नं द्रक्ष्यसि तत्क्षणात् ॥९८८॥
पुनः संजातमात्मानं बन्धुपुत्रकलत्रिणम् ।
तटस्थितेन च मया स्मारितो यदि विद्यया ॥९८९॥
वह्निं प्रवेक्ष्यसि तदा विद्यामेनामुपेष्यसि ।
इत्युक्त्वा स ददौ तस्मै निजविद्यां नदीतटे ॥९९०॥
द्विजोऽपि प्राप्य तां जप्तुं विवेश सलिलान्तरम् ।
तत्रापश्यत्स विस्मृत्य सर्वमात्मानमात्मना ॥९९१॥
हिरण्यपुर्यां संजातं शंकरस्य पुरोधसः ।
कालेन वर्धमानोऽसौ सह विद्याकलागुणैः ॥९९२॥
भार्यां शशिप्रभां नाम लेभे विश्रम्भसाक्षिणीम् ।
युवा वसन्तसंतोषविश्रान्तिसदने वने ॥९९३॥
विजहार तया हारिवपुषा हरिणीदृशा ।
दासीशतवृतां तत्र रममाणां ददर्श सः ॥९९४॥
तां दैवयोगाद्दयितां सर्पेण निहतां भुवि ।
तां वीक्ष्य विललापासौ कन्दर्पविषमस्थितिः ॥९९५॥
हा प्रिये हा मनःसिन्धुचन्द्रिके हा सुलोचने ।
लक्ष्मीरिवाविनीत्स्य क्क मे यातासि सुन्दरि ॥९९६॥
इत्यश्रुगद्गदगिरा विलपन्तं चिराय तम् ।
आयुषोऽर्धं प्रयच्छास्यै देवदूतोऽ‍भ्यधादिति ॥९९७॥
तच्छ्रुत्वा स ददौ तस्यै निजस्यार्धमथायुषः ।
अवाप्तजीवितां तेन तामालिङ्ग्य न््द सः ॥९९८॥
ततः कालेन तनयं लेभे कमललोचनम् ।
स्नेहस्य मन्दिरं कान्तं प्रतिबिम्बमिवात्मनः ॥९९९॥
इति मायाविकल्पोत्थं स तन्मायां व्यलोकयत् ।
अत्रान्तरे तदा तेन व्रतिना स विबोधितः ॥१०००॥
स्मृत्वा वह्निप्रवेशाय सहसैव समुद्यतः ।
बन्धूनां करुणाक्रन्दराविणामश्रृणोद्गिरः ॥१००१॥
तनयोत्सङ्गया पत्न्या तया सार्धं मृगीदृशा ।
प्रार्थ्यमानोऽपि यत्नेन वह्निमेव समाविशत् ॥१००२॥
स्वस्यानुमरणोद्युक्ता दृष्ट्वा भार्याः समातरः ।
हा पापोऽस्मीति संचिन्त्य मुहूर्तं जडतां ययौ ॥१००३॥
अनिर्दग्धतनुस्तेन पावकेन हिमत्विषा ।
उदतिष्ठन्नदीतीरादन्तर्जलजपास्थितः ॥१००४॥
एतदह्नश्चतुर्भागे दृष्ट्वा सर्वं सविस्मयः ।
न्यवेदयद्यथावृतं व्रतिने लम्बिताञ्जलिः ॥१००५॥
दुःखाकुलस्ततः प्राह व्रती हा धिग्विकल्पितः ।
त्वया विभंशिता सिद्धिस्ता विद्या विस्मृता इति ॥१००६॥
सोऽवदन्निर्विकल्पेन त्वदादिष्टं कृतं मया ।
न जाने केन विघ्नेन न दग्धोऽहं कृशानुना ॥१००७॥
इत्युक्त्वा शपथं चक्रे च विप्रो व्रतिनः पुरः ।
तपस्वी भ्रष्टविद्योऽथ तत्कारणमचिन्तयत् ॥१००८॥
कथयित्वेति वेतालः पप्रच्छ पृथिवीपतिम् ।
राजन्कृते विधानेऽपि सा विद्या किं न दृश्यते ॥१००९॥
इति पृष्टो नृपः प्राह कृतं तेन यथोदितम् ।
किंतु भावोऽस्य तत्कालं बान्धवेश्वार्द्रतां ययौ ॥१०१०॥  
तेन प्रणष्टा तत्कोपाद्गुरोरपि चिरस्थिता ।
विद्यासौ भावदुष्टानां विनश्यन्त्येव सिद्धयः ॥१०११॥
इत्याकर्ण्यैव वेतालः प्रययौ शिंशिपातरुम् ।
आनिनाय च तं भूयो निरुद्वेगो महीपतिः ॥१०१२॥
इत्यष्टादशो वेतालः ॥२०॥

N/A

References : N/A
Last Updated : October 25, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP