संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| पञ्चदशो वेतालः द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका पञ्चदशो वेतालः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत पञ्चदशो वेतालः Translation - भाषांतर सोऽथ स्कन्धस्थितः प्राह श्रृणु विश्वंभराप्रभो । त्वां विना संशयानेतान्को हि नश्छेत्तुमीश्वरः ॥७१७॥ नेपालविषये श्रीमान्यशःकेतुरभून्नृपः । पुत्री शशिप्रभा नाम तस्याभूद्भूषणं रतेः ॥७१८॥ तां वसन्तोत्सवे कान्तां कदाचिद्द्विजपुत्रकः । कुसुमावचयेऽपश्यन्मनःस्वामी सुलोचनाम् ॥७१९॥ यस्या लावण्यसलिलैरुह्यमान इवानिशम् ।आलम्बते रोमलतां त्रिवलीकूलजां स्मरः ॥७२०॥ तां वीक्ष्य कान्तिसर्वस्वकोशं कुसुमधन्वनः । बिम्बाधररुचिस्फारसिन्दूरेणेव मुद्रिताम् ॥७२१॥ सोऽभवन्मन्मथाक्रान्तः संक्रान्थ स्वेदवारिणि । संभ्रान्तो मोहगहने विश्रान्तः पुलकोत्तरे ॥७२२॥ अत्रान्तरे मदक्रोधान्निहताधोरणो गजः । आययौ मण्डलाकारकरकृष्टमहाद्रुमः ॥७२३॥ प्रेर्यमाणः स पवनैरिव प्रलयवारिदः । जगर्जोग्रं गलगुहागर्भगम्भीरविभ्रम म् ॥७२४॥ ततस्तद्भयवित्रस्तां कम्पासिञ्जानमेखलाम् । दैवेन दत्तावसरः स युवा तामसादयत् ॥७२५॥ रक्षिता द्विजपुत्रेण तत्र सा तरलेक्षणा । स्थित्वा क्षणं विभ्रमभूर्जगामान्तःपुरं निजम् ॥७२६॥ सोऽफि स्मरशरासारपक्षाग्रपवनैरिव । कम्पमानः प्रचलितं बभार विरहानलम् ॥७२७॥ क्षीणेन्दुरिव बिभ्राणः शरकाण्डविपाण्डुरम् ।सकान्तिं प्रययौ मित्रसदनं जीविताशयः ॥७२८॥ अवाप्य मूलदेवाख्यं शशिना सह संस्थितम् । बहुधूर्तशतावासं प्रणनाम स निःश्वसन् ॥७२९॥ विभ्रष्टवदनच्छायं मूलदेवोऽपि वीक्ष्य तम् । हसन्कंदर्पसप्रेण दष्टोऽसीति तमब्रवीत् ॥७३०॥ तद्वृत्तान्तमथाकर्ण्य स योगघटिकां ददौ । स्त्रीरूपकारिणीं तस्मै स्वयं वृद्धो बभूव ह ॥७३१॥ तं कान्तकन्यकारूपं समादाय द्विजात्मजम् । वृद्धर्षिरूपः प्रययौ मूलदेवो महीपतिम् ॥७३२॥ यथोचिताप्तसत्कारो यशःकेतुमुवाच सः । राजन्स्वपुत्रकायेयमानीता कन्यका मया ॥७३३॥ तरुणः क्कापि यातोऽसौ तमन्वेष्टुं व्रजाम्यहम् । न्यासभूतामिमां कन्यां जगद्रक्षाक्षम प्रभो । रक्षेत्युक्त्वा क्षणं दम्भादभवन्मीलितेक्षणः ॥७३४॥ शशिप्रभामथाहूय नरनाथो निजात्मजाम् । आदिदेश द्विजसुता रक्ष्येयमिति संभ्रमात् ॥७३५॥ मुनिवेषे प्रयातेऽथ तस्मिन्नन्तःपुरे स्थितः । स कूटकन्यकारूपो मनःस्वामी व्यचिन्तयत् ॥७३६॥ अहो नु धूर्तधुर्येण किमप्युपकृतं मम । यन्मयेयं सुवदना दृष्टा तैरेव लोचनैः ॥७३७॥ इति ध्यात्वा सविस्रम्भं तां कदाचिदुवाच सः । सखि त्वं सततोच्छ्वासा किमुद्विग्नेव लक्ष्यसे ॥७३८॥ ब्रूहीति कन्यारूपेण पृष्टा तेन सुमध्यमा । प्राह स्तनतटे हारं कुर्वाणा बाष्पनिर्झरैः ॥७३९॥ सखि दृष्टो मयोद्याने कुञ्जरत्रस्तया युवा । यदाकृतिसमुल्लेखे संकल्पोऽपि न पण्डितः ॥७४०॥ तस्य लोचनसंचारचतुरेण किमप्यहम् । विषेणेव भुजङ्गस्य मूर्च्छिता न लभे धृतिम् ॥७४१॥ स्वप्नेऽद्य तेन विहितो निर्वाच्यो मे रतोत्सवः । सखि सखेदपुलकैर्योऽङ्गैः किमपि सूच्यते ॥७४२॥ इत्याकर्ण्य मनःस्वामी धन्योऽस्मीति व्यचिन्तयत् । अपास्य योगगुटिकां बभूव पुरुषाकृतिः ॥७४३॥ प्रत्यभिज्ञाय तं सद्यः सुधासिक्तेव लज्जिता । तदालिङनसंजातकम्पा साभूदनङ्गभूः ॥७४४॥ मनोरथैर्यदभ्यस्तं हृदयेन यदार्थितम् । मन्मथेन यदादिष्टं तयोस्तदभवद्रतम् ॥७४५॥ तद्गाढसुरताश्लेषग्लपिताप्यथ सात्यजत् । संतापशान्तिं सहसा निर्वहन्हि मनःसुधाम् ॥७४६॥ सततं सेवमानस्तां स दिवा कन्यकाभवत् । राजपुत्री च कालेन गर्भमाधत्त पुष्पिता ॥७४७॥ अत्रान्तरे मातुलेयी स्वसा तस्याः सुमध्यमा । पित्रा मृगाङ्कवत्याख्या वितीर्णा मन्त्रिसूनवे ॥७४८॥ तदुत्सवे मातुलेन राजपुत्री निमन्त्रिता । कूटसख्या तया सार्धं प्रययौ जनकाज्ञया ॥७४९॥ तत्र मन्त्रिसुतो दृष्ट्वा कान्तां तां कूटकन्यकाम् । बभूव मन्मथोन्मादविधुरो नष्टचेतनः ॥७५०॥ तं तु मूर्खनृपो ज्ञात्व वल्लभं मन्त्रिणः सुतम् । विप्रनिःक्षेपितां कन्यां तस्मै सभ्यगिरा ददौ ॥७५१॥ वितीर्यमाणा सा प्राह क्रमः कोऽयं महीपते । न्यासीकृताहं विप्रेण यदन्यस्मै समर्पिता ॥७५२॥ अथवा बलिनो राज्ञः स्वाधीनैवास्मि किं त्वयम् । तीर्थयात्रां मन्त्रिसुतः कृत्वा स्पृशतु मामिति ॥७५३॥ ततस्तां प्राप्य तीर्थानि ययौ मन्त्रिसुतः क्षणात् । स्त्रीरूपः स तु तद्गेहे तस्थौ तद्भार्यया सह ॥७५४॥ तयापि जातविश्वासो दर्शयित्वा निजाकृतिम् । लेभे तत्सुरतं हृष्टो मनःस्वामी दिवानिशम् ॥७५५॥ मूलदेवोऽथ राजानं ययाचे निजकन्यकाम् । शापभीतस्ततो राजा कम्पमानो निरुत्तरः । विविच्य मन्त्रिभिस्तस्मै पुत्रार्थं स्वसुतां ददौ ॥७५६॥ ततः कपटपुत्राय शशिने तां नृपात्मजाम् । दापयित्वा प्रतिययौ मूलदेवो महामतिः ॥७५७॥ स व्रजञ्शशिना सार्धं राजपुत्र्या च वर्त्मनि । मनःस्वामिनमासाद्य तद्वृत्तान्तमथाश्रृणोत् ॥७५८॥ मनःस्वामी ततः प्राह धूर्तेश त्वदनुग्रहात् । अभीष्टं मम संपन्नं दीयतां मे नृपात्मजा ॥७५९॥ गान्धर्वेण विवाहेन प्राप्तैवा सुन्दरी मया । अन्तर्वत्नी च संजाता मत्त एव सुमध्यमा ॥७६०॥ इति श्रुत्वा शशी प्राह सेयं राज्ञा ममार्पिता । कन्यका जनकाधीना इति किं न श्रुतं मया ॥७६१॥ इत्थं तयोस्तद्विवादे मूलदेवोऽपि संशयम् । अवाप्य निर्णयस्थाने नो चेत्किंचिदधोमुखः ॥७६२॥ कथयित्वेति वेतालः पप्रच्छ वसुधाधिपम् । सा भार्या कस्य धर्मेण संशयो वार्यतां मम ॥७६३॥ इति पृष्टो नृपः प्राह शशी धर्मेण तत्पतिः । छन्नकामी मनःस्वामी पित्रा तस्मै न सार्पिता ॥७६४॥ श्रुत्वेत्यन्तर्हितः सोऽथ तरौ पुनरलम्बत । सोऽपि स्कन्धस्थितः प्राह कथां शृणु महीपते ॥७६५॥ इति पञ्चदशो वेतालः ॥१७॥ N/A References : N/A Last Updated : October 25, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP