संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| एकोनविंशो वेतालः द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका एकोनविंशो वेतालः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत एकोनविंशो वेतालः Translation - भाषांतर सोऽथ स्कन्धस्थितः प्राह राजानं वेगगामिनम् । श्रृणु नाथ कथामेकां निशा यावन्न शीर्यते ॥१०१३॥ वङ्कोलके लवपुरे सार्वभौमः क्षमापतिः । सूर्यप्रभाभिधानोऽभोद्यशःकुसुमकाननम् ॥१०१४॥ आख्यातविक्रमे तस्मिन्निखिलां रक्षति क्षितिम् । वणिजस्ताम्रलिप्ताया धनदत्तस्य पुत्रिका ॥१०१५॥ विद्याधरी शापबलान्मानुषं भोगमास्थिता । हिरण्यवत्यां जायायामजायत सुलोचना ॥१०१६॥ यत्कान्तिमधुना मत्तः प्रबलो विजयी स्मरः । सा यौवनं शनैः प्राप नाम्ना धनवती तनुः ॥१०१७॥ कालेन त्रिदिवं याते तस्याः पितरि गोत्रजैः । हर्तुं द्रविणमाक्षिप्ता तद्भार्या राजसंश्रितैः ॥१०१८॥ सा दुःखिता च भीता च गृहेत्वाभरणं निजम् । अलक्षिता निशि प्रायाद्दुहित्रा सह विह्वला ॥१०१९॥ यान्ती तूर्णं निरालोके शोकैरिव तमोभरैः । विलुप्तदृष्टिः शूलस्थं जघानांसेन सा नरम् ॥१०२०॥ स चौरः स्कन्धनिर्घातसंजातविपुलव्यथः । चुक्रोश हा हतोऽस्मीति पर्यन्तश्वासगद्गदम् ॥१०२१॥ वणिक्पत्न्या स दृष्टोऽथ प्राह चौरोऽस्मि पापकृत् । इयं तृतीया मे रात्रिः शूलस्थस्यैव वर्तते ॥१०२२॥ तीव्रव्यथोऽपि जीवामि पातकैः पूर्वसंचितैः । अकृच्छ्रेण कथं यान्ति प्राणाः कलुषकर्मणः ॥१०२३॥ इत्युक्त्वा तेन पृष्टासौ निजदुःखमभाषत । ततः प्रणयशोकार्ता येन स्वपुरमत्यजत् ॥१०२४॥ अत्रान्तरे शशी नित्यक्षयशोकादिवाधिकम् । उद्ययौ पाण्डुरः स्थूलः कपालशकलच्छविः ॥१०२५॥गतेऽह्नि मित्रदयिते शान्ते संध्याचितानले । तारास्थिसंचयं कर्तुमिवेन्दुरुत्सृजन्करान् ॥१०२६॥ दिशः सितांशुकच्छन्ना ज्योत्स्नापूरैः प्रचक्रिरे । शोकादिवोद्धसलिलक्रियां कुमुदपाण्डुराः ॥१०२७॥ ततश्चौरोऽवदद्दृष्ट्वा प्रकाशे तत्सुतां पुरः । कन्यैषा दीयतां मह्यं सुवर्णं वितरामि ते ॥१०२८॥ मुमूर्षुर्विलसत्येष मा वदेति पृथुस्मिता । त्वया मात्रा वितीर्णेयमवाप्स्यति मदाज्ञया ॥१०२९॥ केनापि सह संगम्य पुत्रं त्राणं परत्र मे । अस्ति काञ्चनलक्षं मे तेनेमां देहि कन्यकाम् ॥१०३०॥ इति श्रुत्वा सुतां तस्मै सा प्रादाद्वारिपूर्वकम् । ददौ तरुतलन्यस्तं तस्यै सोऽप्यखिलं धनम् । पुत्रार्थे तामनुज्ञाय कन्यां चौरो व्यपद्यत ॥१०३१॥ ततो भर्तुर्वयस्यस्य गृहं प्राप्य सुपुत्रिका । सती कुमारदत्तस्य युक्त्या चौरं ददाह सा ॥१०३२॥ अथ कालेन सा गत्वा निःशेषधन्वर्जिते । सूर्यप्रभस्य नगरे तस्यौ हेमचयैः सुखम् ॥१०३३॥ तत्रस्था यौवनवती कदाचित्सौधमास्थिता । क्रतौ ददर्श पञ्चेषुसुभगं द्विजपुत्रकम् ॥१०३४॥ सोमस्वामीति विख्यातः सुवेषां सुरतप्रियः । यस्यां विलासरसिकः स विप्रो यौवनोन्मदः ॥१०३५॥ तस्या हारावललिता नर्तकी लोकविश्रुता । हृदये तां समाधत्त विना भूरिधनव्ययम् ॥१०३६॥ तथाभूतं व्यसनिनं सा दृष्ट्वा तं द्विजात्मजम् । वणिक्पुत्री स्मराक्रान्ता बभूव ध्याननिश्चला ॥१०३७॥ ततो विहाय सा लज्जां मात्रे सर्वं न्यवेदयत् । चौरस्याज्ञां च तां स्मृत्वा तदाह्वानेऽदिशत्सखीम् ॥१०३८॥स च द्विजो मृषा यातः पुत्रार्थं तामभाषत । शतानि पञ्च रूप्याणां दीयतां व्ययिनो मम ॥१०३९॥ इति श्रुत्वा सखी तस्मै दत्त्वा तच्छतकद्वयम् । एकक्षपाभ्युपगमादानिनाय द्विजं रहः ॥१०४०॥ तं दृष्ट्वा कान्तमानीतं निशि शय्यागॄहस्थिता । हर्षोत्सिक्ता वणिक्पुत्री नवं भेजे रतोत्सवम् ॥१०४१॥ अदृष्टपूर्वसंभोगा वेश्याशतविलासिना । नीता प्रौढेन सा तेन रतौ कामपि निर्वृतिम् ॥१०४२॥ तस्मिन्प्रयाते प्रच्छन्नं निशान्ते साभवत्क्षणात् । स्रस्ताङ्गी क्लान्तवदना कृशा मुकुलितेक्षणा ॥१०४३॥ ततः कालेन सा पुत्रमसूत रविवर्चसम् । कुन्तीव वर्णसंपूर्णराजलक्षणलक्षितम् ॥१०४४॥ तस्मिञ्जाते वणिक्पुत्रीं स्वप्ने तज्जननी तथा । आदिदेश शिवः साक्षात्पुत्रोऽयं द्वारि भूपतेः ॥१०४५॥ हेम्नः सहस्रमाधाय मञ्चके त्यज्यतां रहः । इति तद्वचसा सर्वं चक्राते ते यथाश्रुतम् ॥१०४६॥ राजापि शंभुना स्वप्ने निर्दिष्टं प्राप्य तं शिशुम् । कौशेयवस्त्रसंछन्नं दिव्यरूपं सकाञ्चनम् ॥१०४७॥ सूर्यप्रभस्य तनयः सोऽपि चन्द्रप्रभाभिधः । कालेन यौवनं प्राप कलाविद्याविशारदः ॥१०४८॥ तं सर्वगुणसंपन्नं दृष्ट्वा पुत्रं स पार्थिवः । चक्रवर्तिश्रियं तस्मै दत्त्वा वाराणसीं ययौ ॥१०४९॥ तपसा तत्र भूपाले प्रयाते शाश्वतं पदम् । चन्द्रप्रभः शोकतप्तो ज्ञात्वा चक्रे जलक्रियाः ॥१०५०॥ ततः स राज्यं मन्त्रिभ्यो विन्यस्य पितृवत्सलः । गयाश्राद्धे कृतोत्साहो ब्राह्मणैः सहितो ययौ ॥१०५१॥ सुहार्दस्योपकारस्य गुरुभक्तेः कुलस्य च । महतां हि वियोगेषु गयाश्राद्धे प्रतिक्रिया ॥१०५२॥ स वाजिकुञ्जरानीकैः संछादितदिगन्तरः । व्रजन्मन्दाकिनीं प्राप्य पितुश्चक्रे यथोचितम् ॥१०५३॥ ततः सर्वेषु तीर्थेषु दत्त्वा बहुधनो धनम् । गयामवाप कालेन पुण्यां कुलविभूषणः ॥१०५४॥ ततः शास्त्रोदितं कृत्वा धर्मारण्येऽवसत्त्रयम् । राजकूपं समासाद्य पिण्डं क्षेप्तुं समुद्ययौ ॥१०५५॥ सूर्यप्रभस्य नृपतेः स्वगोत्रे नाम्न्युदीरिते । पुरोहिताग्रतस्तत्र त्रयो हस्ताः समुत्थिताः ॥१०५६॥ तद्वीक्ष्य विस्मयाविष्टो मुहूर्तं स्थगितक्रियः । किमेतदिति पप्रच्छ राजा वृद्धगुरून्द्विजान् ॥१०५७॥ ते प्राहुः शिवमालोक्य श्रुतिस्मृतिविचक्षणाः । एकश्चौरस्य हस्तोऽहं लाञ्छितः शस्त्रशङ्कुना ॥१०५८॥ पवित्रकालंकरणः पाणीरन्यो द्विजन्मनः । अयं पद्मनिभो राज्ञः करः कङ्कणभूषितः ॥१०५९॥ निश्चयं नाधिगच्छामः कस्मै पिण्डोऽर्प्यतामिति । राजा विप्रवचः श्रुत्वा संदेहाकुलितोऽभवत् ॥१०६०॥ वर्णयित्वेति वेतालः पप्रच्छ क्ष्मापतिं पुनः । राजन्कस्मै स धर्मेण पिण्डस्तेन प्रदीयताम् ॥१०६१॥ इति पृष्टो नृपः प्राह स विप्रस्तस्य नो पिता । यो मूल्येन क्षपामेकां तन्मात्रा संगमं व्यधात् ॥१०६२॥ राजापि तस्य संस्कारकर्ता संप्राप्तकाञ्चनः । न पिता कर्मसंबन्धाद्राज्यभागी स केवलम् ॥१०६३॥ चौर एव पिता तस्य यो दत्त्वा हेमसंचयम् ।कन्यां तज्जननीं प्राप पिण्डस्यार्हति वापनम् ॥१०६४॥ श्रुत्वेत्यलक्षितः स्कन्धाद्वेपालः प्रययौ जवात् । वृक्षावल्म्बिनं तूर्णमानिनाय च तं नृपः ॥१०६५॥ इत्येकोनविंशो वेतालः ॥२१॥ N/A References : N/A Last Updated : October 25, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP