संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| सप्तदशो वेतालः द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका सप्तदशो वेतालः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत सप्तदशो वेतालः Translation - भाषांतर पुनस्तमादाय ययौ जवेन जगतीपतिः । स्कन्धस्थितः स च प्राह कथेयं श्रूतामिति ॥९३६॥ रूठकाख्ये पुरे राजा श्रीमानासीद्यशोधनः । मांधातृरामनहुषा यत्कीर्त्या विस्मृता इव ॥९३७॥ स कदाचित्समब्येत्य विज्ञप्तो वणिजा भयात् । ममास्ति कन्यकारत्नं देव तस्यास्ति भाजनम् ॥९३८॥ इति श्रुत्वा नरपतिर्द्रष्टुं तां प्राहिणोद्द्विजान् । ते दृष्ट्वोन्मादिनी नाम्ना तामुन्मादं समाययुः ॥९३९॥ इमां भूमिपतिः प्राप्य प्रजाकार्यपराङ्मुखः । ध्रुवं नङ्क्ष्यति रागेण द्विजास्तत्रेति चिन्तयन् ॥९४०॥ ते नरेश्वरमभ्येत्य कन्यां दुर्लक्षणां जगुः । अनादृतां ततो राज्ञा सेनान्ये तां पिता ददौ ॥९४१॥ कदाचिदथ मत्तालिमालावलयिते मधौ । उत्फुल्लफुल्लधवले कोकिलालापमालिनि ॥९४२॥ मकरन्दपिशङ्गासु दिक्षु दक्षिणमारुतैः । कौङ्कुमेनाङ्गरागेण विलिखन्निव कामिभिः ॥९४३॥ राजा गजेन्द्रशैलस्थश्चम्पकापीडशेखरः । अशोकमालासच्चायो मधुमास इवापरः ॥९४४॥ पुरे चैत्रोत्सवं द्रष्टुं चचार कमलेक्षणः । विलोक्यमानः कान्ताभिः कुसुमायुधशङ्कया ॥९४५॥ दुर्लक्षणेत्यनेनाहं प्रत्याख्यातेति मानिनी । उन्मादिनी ततो राज्ञः सौधात्तनुमदर्शयत् ॥९४६॥ नेत्रांशुभिः कन्दलिता पाणिभ्यां जातपल्लवा । बभौ मूर्तेव चैत्रश्रीः सा मुग्धस्मितपुष्पिता ॥९४७॥ तारहारकरस्फीतफेनाङ्के कान्तिसागरे । तस्याः कटाक्षैरभवद्यमुनाभ्रान्तिविभ्रमः ॥९४८॥ बिम्बाधरारुणदलं लोललोचनषट्पदम् । सा बभार मुखाम्भोजं सुगन्धिस्मितशेखरम् ॥९४९॥ तां वीक्ष्य चन्द्रवदनां मदनोद्यानकौमुदीम् । अहो नु वञ्चितोऽस्मीति प्रदध्यौ वसुधाधिपः ॥९५०॥ राजधानीं प्रविश्याथ स्मरज्वरनिपीडितः । नोद्यानेषु न वापीषु न सौधेष्वाययौ धृतिम् ॥९५१॥ दुर्लक्षणेति यैरुक्ता दुर्नयैर्नयबुद्धिभिः । उन्मादिनी ब्राह्मणास्ते निर्गच्छन्तु पुरान्मम ॥९५२॥ इत्यादिश्य नृपस्तस्थौ दह्यमान इवानिशम् ।कदलीदलशय्यासु श्रीखण्डसलिलोच्छ्रितः ॥९५३॥ भिषग्भिः सेव्यमानोऽपि स्वास्थ्यं न प्राप भेषजैः । स्मरज्वरचिकित्सा हि दयितालिङ्गनामृतैः ॥९५४॥ विश्रम्भसाक्षिणैकेन सा तस्य विरहव्यथा । विराजनाम्ना विज्ञाता राजन्येन कथान्तरे ॥९५५॥ पृष्टोऽब्रवीन्नृपस्तेन सखे तां सुन्दरीं विना । सेनापतिवधूं प्राणाः क्कापि गन्तुं ममोद्यताः ॥९५६॥ यौवनोदयशीतांशुं तन्मुखं सुन्दरं दृशोः । धन्याः पश्यन्ति लावण्यरसायनतरङ्गितम् ॥९५७॥ भूपतेः परदारेषु संगमो मे न शोभते । प्रमादान्नृपमूढानां मरणं हि प्रमेयता ॥९५८॥ ( इत्युक्त्वा दीर्घमुष्णं च निःश्वस्य क्षामविग्रहः । आनीयतां सेति वचो वयस्याहं न चक्ष्महे ) ॥९५९॥ अन्येद्युर्ज्ञातवृत्तान्तः सेनापतिरुपेत्य तम् । स्वैरं बलधरो नाम सप्रणामं व्यजिज्ञपत् ॥९६०॥ भाजनं सर्वरत्नानामेकस्त्वं देवतापरः । गृहाणोन्मादिनीं कान्तां ललनारत्नमुत्तम म् ॥९६१॥ इति श्रुत्वा विहस्यैनमुवाच वसुधाधिपः । अहो भक्तोऽपि मे भृत्योऽहितं नैव प्रभाषते ॥९६२॥ अयं लोको निरालोकः कलिकर्दमसंकुलः । नृपाणां साधुशीलानां चरितैर्हि प्रकाश्यते ॥९६३॥ तदहं पृथिवीपालो दण्डधारपदे स्थितः । अनीतिगहनावृत्तं व्यसनाधिं कथं भजे ॥९६४॥ कुले जन्मगुणाः सन्ति धर्मे यशसि चादरः । मतिश्च परदारेषु सत्यं न सदृशं मम ॥९६५॥ इति ब्रुवाणं राजानं सेनापतिरभाषत । उन्मादिनीं करोम्येनां नर्तकीं सुरमन्दिरे ॥९६६॥ भजस्वैतां देवदासीं देव दोषो न विद्यते ।इति तेनार्थ्यमानोऽपि तं निनिन्द रुषा नृपः ॥९६७॥ ततः सेनापतौ याते तामेवोन्मादिनीं स्मरन् । यशःशरीरममलं विवेश भ्रष्टजीवितः ॥९६८॥ तस्मिन्नुपरते राज्ञि सेनानीः शोकविह्वलः । वह्निं विवेश सद्भक्तिः पर्यन्ते हि प्रदृश्यते ॥९६९॥ अभिधायेति वेतालः क्ष्मापालं पृष्टवान्पुनः । सेनानीभूमिपालाभ्यां कोऽधिकः सत्त्ववानिति ॥९७०॥ राजावदत्स्वामिभक्तिर्भृत्यानां किमिवाद्भुतम् । श्लाघ्यो नरेन्द्र एवैको र्पाणांस्तत्याज न स्थितिम् ॥९७१॥ उद्दाममदसंरुद्धा लीलामीलितदृष्टयः । न श्रृण्वन्ति न पश्यन्ति राजानः कुञ्जरा इव ॥९७२॥ नारीणामिव सद्भावो दौर्जन्यं महतामिव । विवेको भूमिपालानां कदा केनोपमीयते ॥९७३॥ इति श्रुत्वैव वेतालं प्रयातं शिंशिपातरुम् । पुनरादाय भूपालः प्रययौ पवनोपमः ॥९७४॥ इति सप्तदशो वेतालः ॥१९॥ N/A References : N/A Last Updated : October 25, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP