द्वितीयो वेतालः
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
भूयो वृक्षमथारुह्य तमादाय ययौ नृपः ।
स च स्कन्धगतः प्राह नरेन्द्र श्रूयतामिति ॥१५६॥
ब्रह्मसेनाग्रहारेऽभूत्कालिन्दीकूलसंश्रये ।
अग्निस्वामीति विप्रेन्द्रो दाता श्रुतिविदां वरः ॥१५७॥
तस्य मन्दारवत्याख्या पुत्री दिव्योचिताभवत् ।
कान्ता मन्दारमालेव नेत्रषट्पदहारिणी ॥१५८॥
रूपेण विश्रुतां दिक्षु तामायतविलोचनाम् ।
अयाचन्त द्विजवरा बहवः सत्कुलोचिताः ॥१५९॥
ततः कदाचित्तरुणाः कान्तिमन्तो द्विजास्त्रयः ।
मिथो दर्पेण संक्रान्तां इव तुल्याकृतिश्रियः ॥१६०॥
कन्याजनकमभ्येत्य सुन्दरीं तां ययाचिरे ।
ममैवासौ ममैवासाविति स्पर्धानुबन्धिनः ॥१६१॥
एकस्मै चेद्ददास्येनां द्वौ मृतावेंव विद्धि नौ ।
इति तेषां समाकर्ण्य पिता तां न ददौ भयात् ॥१६२॥
तोषितां नयनानन्दसौन्दर्यामृतवाहिनीम् ।
सदा विलोक्य प्रययुस्तत्रैव विहिताश्रयाः ॥१६३॥
ततः कालेन सा धातुर्नैर्घृण्यात्पेशलाकृतिः ।
जगाम पञ्चतां बाला लोचनाब्जोत्सवैः सह ॥१६४॥
चित्तसंवर्धनं यच्च यच्च नेत्ररसायनम् ।
चिराय निरनुक्रोशः सहते तद्विधिः कथम् ॥१६५॥
निर्यातजीवितां बालां पतितां कदलीमिव ।
तत्कान्तिचन्द्रिकाचन्द्रचकोरा शुशुचुर्द्विजाः ॥१६६॥
एकस्ततो ययौ दुःखी जटाभस्मविलेपनः ।
अन्यस्तदस्थीन्यादाय तीर्थाय प्रययौ कृती ॥१६७॥
श्मशाने चापरस्तस्थौ तद्भस्मशयनाश्रयः ।
रागिणां किमकार्यं हि स्त्रिया संहृतचेतसाम् ॥१६८॥
प्रथमः पृथिवीं भ्रान्त्वा भस्मस्मेरशरीरकः ।
रुद्रशर्माभिधानस्य गृहं प्राप्तो द्विजन्मनः ॥१६९॥
तत्रोपमन्त्रितस्तेन प्रस्तुतो भोक्तुमैक्षत ।
क्षिप्तं तज्जायया वह्नौ पुत्रं रोदनकोपतः ॥१७०॥
तस्मिन्निःशेषनिर्दग्धे भोजनाद्विरतो व्रती ।
उवाच चण्डालगृहं प्राप्तोऽहमशनाशया ॥१७१॥
इत्याकर्ण्य गृहस्थोऽपि जग्राह निजपुस्तकम् ।
सिद्धमन्त्रं समुद्धृत्य ततः पुत्रमजीवयत् ॥१७२॥
दृष्ट्वेति विस्मितः क्षिप्रं ध्यात्वा रात्रौ जटाधरः ।
तं मन्त्रमनयत्कान्ताजीवनायाशु पुस्तकात् ॥१७३॥
सोऽथ संप्राप्य तरसा तत्स्मशानमभोजनः ।
ददर्श तीर्थादायतमेकं तत्र निवासिनम् ॥१७४॥
तावपास्य प्रियाभस्मकूटोपान्तात्स मन्त्रवित् ।
रजश्चिक्षेप येनासौ समुत्तस्थौ द्विजात्मजा ॥१७५॥
लावण्यललिताकारां मन्मथानलदीपिकाम् ।
पीयूषकालकूटाङ्कां दुग्धाब्धिलहरीमिव ॥१७६॥
वदनप्रतिमा चन्द्रो रणन्नूपुरमेखलाम् ।
नलिनीमिव कामस्य विलोलनयनोत्पलाम् ॥१७७॥
ते दृष्ट्वा विस्मयानन्दस्मरसंघर्षशालिनः ।
ममैवेयं ममैवेयमित्यूचुस्ते ससंभ्रमाः ॥१७८॥
मन्मन्त्रेणोत्थिता तन्वी मयाप्ता तीर्थसेवया ।
मयास्या रक्षितं भस्म तेशामित्यभवत्कलिः ॥१७९॥
कथयित्वेति वेतालः पप्रच्छ पृथिवीपतिम् ।
राजन्धर्मेण सा कस्य दयिता सत्यमुच्यताम् ॥१८०॥
इति पृष्टो नृपस्तेन बभाषे शापकम्पितः ।
तस्यास्तं जनकं मन्ये यस्तां मन्त्रैरजीवयत् ॥१८१॥
पुत्रकार्येण परेणास्याः शङ्के तीर्थेषु यत्कृतम् ।
वेताल तस्य धर्मेण तद्भस्मशयनः पतिः ॥१८२॥
श्रुत्वेत्यलक्षितो गत्वा क्षिप्रं स्कन्धान्महीपतेः ।
स शिंशिपातरुप्रान्ते तथैवोल्लम्बितः स्थितः ॥१८३॥
इति द्वितीयो वेतालः ॥२॥
N/A
References : N/A
Last Updated : October 23, 2017
TOP