संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| चतुर्थो वेतालः द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका चतुर्थो वेतालः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत चतुर्थो वेतालः Translation - भाषांतर मुक्ताट्टहासमादाय ततस्तं गतसंभ्रमः । ययौ जवेन नृपतिस्कन्धस्थः सोऽप्यभाषत ॥२६०॥ मोहः पृथ्वीपते कोऽयं तवापि हृदि जृम्भते । दुष्टश्रमणसंपर्काद्यत्प्राप्तोऽसि महीमिमाम् ॥२६१॥ दूरेऽध्वनि विनोदाय श्रृणु राजन्कथामिमाम् । अनायासं हि पाथेयं यथेष्टं कथनं पथि ॥२६२॥ अस्ति शोभावती नाम नगरी संपदां निधिः । भुवो भूषणमालेव भूरिरत्नविराजिनी ॥२६३॥ बभूव शूद्रकस्तस्यां यशस्वी पृथिवीपतिः । भार्गवादिकथाः कार्श्यं यद्वीरचरितैर्ययुः ॥२६४॥ नेत्राम्बु शत्रुनारीणां पातयन्ती निरन्तरम् । धूमावली प्रतापाग्नेर्बभौ यस्यासिवल्लरी ॥२६५॥ यस्योरुरत्नवलये दोष्णि कर्पूरपाण्डूरे । निषसादेव पृथिवी निःशेषाशेषसंख्यया ॥२६६॥ चतुर्गुणगुणोपेतपृथुसत्त्वसखं मनः । यस्य संभागिवैश्वर्यमद्वितीयस्तु विक्रमः ॥२६७॥ तस्य सोमप्रभा नाम लावण्यामृतशालिनी । बभूव वल्लभा चित्तकैरवस्थलशालिनी ॥२६८॥ तं कदाचिन्महास्थाने स्थितं शक्रमिवापरम् । व्यजिज्ञपत्प्रतीहारो मौलिपल्लविताञ्जलिः ॥२६९॥ मालवीयो महासत्त्वः करवालसखो द्विजः । देव वीरवरो नाम सेवार्थं द्रष्टुमिच्छति ॥२७०॥ इत्युक्त्वा प्राप स नृपभ्रूसमुल्लासशासनम् । अवेशयद्वीरवरं राजसिंहगुहां सभाम् ॥२७१॥ स प्रविश्य महीपालं ददर्श धवलांशुकम् । लग्नदुग्धाब्धिकल्लोलं विश्रान्तमिव मन्दरम् ॥२७२॥ बिभ्राणं धवलोष्णीषमट्टहासं जयश्रियः । आवर्तमानं व्योम्नीव हेलाकुटिलितं यशः ॥२७३॥ मौलिनीलमणिच्छायावल्लयैर्दूरसर्पिभिः । ( दिशन्तं दिक्षु भूपानां मुखेषु श्यामिकामिव ॥२७४॥ विलोलकुन्तलोद्योतैर्विराजद्गण्डमण्डलम् ) । रणलीलासमुद्भूतैः पुलकैरिव नोज्झितम् ॥२७५॥ हेमसिंहासनासीनं तारहारविराजितम् । मार्तण्डमिव मेरुस्थं दर्शावष्टेन्दुमण्डलम् ॥२७६॥ इन्द्रनीलमहानीलशिलान्यस्ताङ्घ्रिपङ्कजम् । करालकालीयशिरोन्यस्तपादमिवाच्युतम् ॥२७७॥ तं वीक्ष्य सोचिताभिख्यः स प्रणम्यावदद्विभो । खङ्गद्वितीयः सेवान्ते करोमीत्युन्नताशयः ॥२७८॥ सदा पञ्चप्रदीयन्तां रूपकानां शतानि मे । पुत्रः कुमारी भार्या चेत्येतावान्मत्परिग्रहः ॥२७९॥ इति तद्गिरमाकर्ण्य तद्वितीर्य नरेश्वरः । इयतां किं करोतीति चारैः शुश्राव तत्कथाम् ॥२८०॥ शतद्वयेन संपूज्य स्नातौ हरिमहेश्वरौ । शतद्वयं ब्राह्मणेभ्यो दीनेभ्यश्च प्रदाय सः ॥२८१॥ गृहे विधत्ते निःशेषं शतेनैकेन तु व्ययम् । कृत्वैतदास्ते र्त्वाद्द्वारि दिवारात्रिमतन्द्रितः ॥२८२॥ श्रुर्त्वेति कथितं चारैः प्रदध्यौ विस्मितो नृपः । सत्यं यत्पृथिवीमूल्यमेकस्यापि मणेरिति ॥२८३॥ ततः कदाचिद्गम्भीरधनग्रस्त इवाखिले । करालकालमहिषश्यामले दुर्विनागमे ॥२८४॥ बलाकामण्डलस्मेरकपालशकलाकुले । विद्युच्चित्तानलालोले श्मशान इव भीषणे ॥२८५॥ मिथो मेघपिशाचानां विनिष्पेषैः सगर्जितैः । पतन्तीष्वम्बुधारासु दन्तमालास्विवानिशम् ॥२८६॥ नीहारजालच्छिन्नासु दिक्षु संघट्टितास्विव । निवृत्तजनसंचारे कल्पापाय इवागते ॥२८७॥ निषण्णो निशि भूपालो धवलाशयशेखरे । सिंहद्वारे स्थितः कोसावित्युच्चैरभ्यभाषतः ॥२८८॥ देव स्थितोऽहं किं कार्यमिति वीरवरोऽब्रवीत् । अर्धरात्रे पु नः पृष्टस्तदेव प्राह निर्व्यथः ॥२८९॥ ततः शुश्राव नृपतिस्तारमाक्रन्दितं मुहुः । रजन्या इव पर्जन्यराक्षसात्ते क्षपाकरे ॥२९०॥ हा नाथ कमलाकेलिकमलायतलोचन । हा हा प्रचण्डदोर्दण्डखण्डितारातिमण्डल ॥२९१॥ हा हा दिक्कमिनीकर्णकर्पूरापूरसद्यशः । इत्याकर्ण्याब्रवीत्कोऽत्र स्थित इत्यवनीश्वरः ॥२९२॥ ततो वीरवरं दूरात्स्थितोऽहमिति वादिनम् । कः क्रन्दतीति कृपयादिदेश वसुधाधिपः ॥२९३॥ तस्मिन्गते तदन्वेष्टुं वारिधारावृताम्बरे । नृपोऽप्यलक्षितः पश्चात्स्वयं खङ्गसखो ययौ ॥२९४॥ तस्याः स्फारानिलावर्तनर्नितासीत्करावली । मुखं चुचुम्ब नक्षत्रमालेव शशिशङ्कया ॥२९५॥ कण्ठे हारानुकाराभिर्धाराभिर्धरणीभृतः । खङ्गेऽपि लेभे भिन्नेभसक्तमुक्तावलीश्रियम् ॥२९६॥ आक्रन्दितानुसारेण गत्वा वीरवरः स्त्रियम् । मत्वा तां मधुरालापां शुचः पप्रच्छ कारणम् ॥२९७॥ कमलाकरमध्यस्था सा प्राह तमलक्षिता । शिक्षयन्तीव माधुर्यं कलहंसकुलं गिरा ॥२९८॥ अहं देवी महीभर्तुः शूद्रकस्याग्रवल्लभा । स च देवस्तृतीयेऽह्नि पूर्णायुर्दिवमेष्यति ॥२९९॥ तेन रोदिमि न त्वेषा प्राप्ताहं तद्भुजे चिरम् । वराहशय्यापर्यङ्का विलाससुभगां स्थितिम् ॥३००॥ इति वीरवरः श्रुत्वा तामपृच्छत्कृताञ्जलिः । अप्यस्त्युपायः क्ष्मापालरक्षणे देवि कथ्यताम् ॥३०१॥ पृष्टेति पृथ्वी प्राहैनमस्त्येव यदि शक्यते । पुत्रं शक्तिवरं बालं चण्डिकायै ददासि चेत् ॥३०२॥ स्वयमुत्कृत्य खङ्गेन ततो जीवति पार्थिवः । इति श्रुत्वा निजं गेहं ययौ वीरवरो निशि ॥३०३॥ अलक्षितेनानुयातो राज्ञा विस्मयशालिना । गृहे विबोध्य दयितां शिशुं शक्तिवरं वरम् ॥३०४॥ पृथिवीभाषितं सर्वमुवाचाविचलाशयः । तच्छ्रुत्वा बालकः प्राह धन्योऽहं प्रभुरक्षणात् ॥३०५॥ उत्सवो निधनं नाम भर्तृपिण्डोपजीविनाम् । भृत्यैरेव स्वयं मूल्ये क्रियते कायविक्रयः ॥३०६॥ इति वादिनमाधाय स्कन्धे शक्तिवरं सुतम् । स्वपुत्र्या भार्यया सार्धं स ययौ चण्डिकालयम् ॥३०७॥ तत्र दीपांशुकपिशसंचरद्योगिनीगणम् । राज्ञः श्रेयोऽस्त्विति प्राह छित्वा पुत्रस्य मस्तकम् ॥३०८॥ अथोच्चचार चतुरं चण्डिका वचनं दिवि । तुष्टा च भूभुजा प्राप्तमायुर्वर्षशतं पुनः ॥३०९॥ इति भूमिपतिश्छन्नो निशम्याचिन्तयत्स्मयात् । अहो धैर्यममर्यादमहो सत्त्वं द्विजन्मनः ॥३१०॥ इति ध्यायति भूपाले भ्रातरं वीक्ष्य कन्यका । हतं वीरवती नाम पञ्चतां प्रययौ क्षणात् ॥३११॥ भार्या वीरवरस्यापि तेनैव रचितेऽनले । शोकासहा धर्मवती प्रियः तत्याज जीवितम् ॥३१२॥ कृतार्थोऽस्मीति संचिन्त्य हृष्टो वीरवरस्ततः । आत्मोपहारं दुर्गायै दातुमभ्युद्यतोऽवदत् ॥३१३॥ जय देवि जगज्जन्मजरामरणकारिणि ।जय संरब्धदैत्येन्द्रहृदयाम्भोजदारिणि ॥३१४॥ जय पातालकुहराकारविस्फारितानने । उरुरावस्फुरत्खण्डब्रह्माण्डभयदीक्षिते ॥३१५॥ जय ताण्डवितोद्दण्डचण्डवातहताचले । लडत्कङ्कालमालोग्रव्यावल्गव्द्यालकुण्डले ॥३१६॥ जय दानवहृत्पद्ममालासृक्प्लावशालिके । अकाण्डसंध्यासंमत्तभूतवेतालमालिके ॥३१७॥ जय व्याकोशखङ्गांशुश्यामीकृतदिगन्तरे । महिषासुरनिष्कृष्टचर्मणैवावृताखिले ॥३१८॥ इति स्तुत्वा भगवतीं शिरश्छित्वासिना निजम् । देव्यै निवेद्य सत्त्वाब्धिः स पपात महीतले ॥३१९॥ गणयित्वा क्षितिपतिस्तस्य तत्सर्वमूर्जितम् । बभूव विस्मयोत्साहैः स्पष्टरोमाञ्चकञ्चुकः ॥३२०॥ एवंविधं विना भृत्यं किं श्रिया जीवितेन वा । ( ध्यात्वेति निजमूर्धानं सोऽपि च्छेत्तुं समुद्ययौ ) ॥३२१॥ जीवितेन मदीयेन जीवत्वेषः सपुत्रकः । देवि वीरवरो ग्वीरः प्रोवाचेत्यथ शूद्रकः ॥३२२॥ सहसा खङ्गधाराग्रसंगते तस्य मस्तके । देवी साक्षादुवाचेदं मा कृथाः पुत्र साहसम् ॥३२३॥ सत्वेनानेन ते राजंस्तूर्णं वीरवरो द्विजः । सपुत्रपुत्रीदयितः समुत्तिष्ठतु मद्वरात् ॥३२४॥ इति चण्डीगिरा तस्मिन्सानुगे सहसोत्थिते । अलक्षितः क्षणात्प्रायान्निजमन्तःपरं नृपः ॥३२५॥ ततो वीरवरो गत्वा विस्मयाकुलितो गृहे । धृत्वा सदारिकां भार्यां राजद्वारं समाययौ ॥३२६॥ राजा महिष्यै हर्षाय वृत्तान्तं विनिवेद्य तम् । पुनः पप्रच्छ कोऽप्यत्र स्थित इत्यनाभिज्ञवत् ॥३२७॥ अहं वीरवरो देव स्थितः सा स्त्री मयेक्षिता । न दृष्टा राक्षसीं नूनं रुरोद निशि मायया ॥३२८॥ इति वीरवरेणोक्तमाकर्ण्य जगतीपतिः । प्रशशंसास्य तद्धैर्यमविकत्थनतां च ताम् ॥३२९॥ ततः प्रभाते भूपालः सभास्थानमुपागतः । निवेद्य रात्रिवृत्तान्तं मन्त्रिभ्यो निश्चलस्ततः ॥३३०॥ ददौ वीरवरायाशु लाटराज्यं ससागरम् । नर्मदाकूलसहितं सगौडं दक्षिणापथम् ॥३३१॥ तं च शक्तिवरं दत्वा राजानं दक्शिणापथे । मेने तदुपकारस्य शतांशस्य प्रतिक्रियाम् ॥३३२॥ कथयित्वेति वेतालो भूपालं पृष्टवान्पुनः । शंस कोऽभ्यधिकस्तेभ्यो राजन्सत्ववतां वर ॥३३३॥ ( श्रुत्वेत्याह महीपालः सर्वे वीराः किमुच्यते ) । किं तु वीरव्रतस्यैषा धैर्यलक्ष्मीः कुलव्रतम् । भृत्योऽसौ तत्किमाश्चर्यं सेवा हि प्राणविक्रयः ॥३३४॥ तस्य पुत्रस्य तत्तुल्यो यदि तत्किमिवाद्भुतम् । नहि सौवर्णशैलाग्रात्काचखण्डः प्रजायते ॥३३५॥ किं चित्रं यदि सत्त्वाद्या भार्या तस्य कुलोचिता । नहि श्रिता कल्पतरुं वल्ली काचिदकाञ्चनी ॥३३६॥ अत्र सत्त्ववतां धुर्यः श्रीमानेको नरेश्वरः । विक्रीतजीविते भृत्ये यस्य प्राणैः प्रतिक्रिया ॥३३७॥ श्रुत्वेत्यदर्शनं यातो वेतालः शिंशिपातरौ । अधोमुखो निरुच्छ्वासस्तथैवालम्बितः स्थितः ॥३८८॥ इति चतुर्थो वेतालः ॥६॥ N/A References : N/A Last Updated : October 23, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP