सप्तमो वेतालः
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
राजा पुनस्तमादाय प्रययौ वीतसंभ्रमः ।
स च स्कन्धस्थितः प्राह वेतालः श्रृणु भूपते ॥३८९॥
शोभावत्यां पुरि श्रीमान्यज्ञकेतुः क्षितीश्वरः ।
गौर्या भक्तिपरश्चक्रे तीर्थयात्रामहोत्सवम् ॥३९०॥
स्नातुं स्निग्धा समायाते जने गौरीसरस्तदा ।
चेरुः सरोजनयना नूपुराहूतसारसा ॥३९१॥
तां नीतां वक्त्रपद्मैश्च दोर्मृणालीवनैस्तथा ।
तासां भूवीचिजालैश्च पुनरुक्तमभूत्सरः ॥३९२॥
वराङ्गनानां कुचयोः ससंप्लुतनखव्रणा ।
स्वच्छफेनावली चीरैः प्रीत्येवाबन्धि वारिणा ॥३९३॥
स्नानधौताञ्जनसिता तासां दृष्टिर्व्यरोचत ।
निष्कृष्टकालकोऒटाशा चटुलैवामृतच्छटा ॥३९४॥
स्नातोत्थिता वारिधाराहारिभिस्ताः स्तनैर्बभुः ।
दृष्टाग्रबिससूत्रास्यैश्चक्रवाकैरिवाङ्किताः ॥३९५॥
धवलो नाम तत्राथ रजकः स्नातुमागतः ।
युवा ददर्श रजकीं कन्यां मदनसुन्दरीम् ॥३९६॥
स्नात्वा बाहुलताक्षेपतरलोत्क्षेपितैर्मुहुः ।
यस्या लावण्यसलिलैः प्रक्षालितमिवाम्बरम् ॥३९७॥
कटाक्षशफरोत्फाला या विभ्रमतरङ्गिता ।
रजकानामिव गृहे जाता मूर्तिमती नदी ॥३९८॥
मुहुर्लीलास्मितस्मेरच्छायाव्याजैर्दिदेश या ।
यात्रोत्सवे जनस्येव धौतपीतपटावली ॥३९९॥
तां चन्द्रबिम्बवदनां विलोक्य स्तबकस्तनीम् ।
स्वगृहं रजको गत्वा बभूव स्मरतापितः ॥४००॥
पिता विदितवृत्तान्तस्तस्य दृष्ट्वा स्मरव्यथाम् ।
कन्यां ययाचे रजकं गत्वा शूद्रपटाभिधम् ॥४०१॥
आदरेण ततः पित्रा दत्तां मदनसुन्दरीम् ।
अवाप्य धवलो लेभे जीवितं विततोत्सवः ॥४०२॥
दत्तां कदाचित्तां पुत्रीं भर्तृगेहे चिरस्थिताम् ।
आनेतुं ग्राहिणोत्पुत्रं स्वीयं शुद्धपटस्ततः ॥४०३॥
भ्रात्रा निमन्त्रिता साथ भर्त्रा सह समागता ।
पथि गौर्याश्रमं प्राप्य निषण्णा तत्सरस्तटे ॥४०४॥
द्रष्टुं ततो भगवतीं प्रविष्टो धवलः स्वयम् ।
उपहारं निजशिरः प्रददौ दैवनोदितः ॥४०५॥
भगिनीपतिमन्वेष्टुं प्रविष्टो वीक्ष्य तं पुरः ।
तथैव निजमूर्धानं चिच्छेदाकुलिताशयः ॥४०६॥
अथैका तावपश्यन्ती देवीं रजकसुन्दरी ।
द्रष्टुं प्रविष्टा तौ दृष्ट्वा पतितौ मर्तुमुद्यता ॥४०७॥
अशोकशाखिनः प्रान्ते पाशं सज्जीचकार सा ।
ज्वलितास्तस्य तद्दुःखवह्निना कुसुमश्रियः ॥४०८॥
मुहुः स्तनाग्रविन्यस्तसाञ्जनाश्रुकणावली ।
लतेव स्तबकासक्तभृङ्गाली सास्तवीत्सतीम् ॥४०९॥
श्रीकण्ठकण्ठनीलाब्जनवषट्पदमालिका ।
दृष्टिर्जयति ते देवि दैत्यसंहारयामिनी ॥४१०॥
त्रिलोचनमनःसिन्धुहर्षवीचिर्विलासिनी ।
कान्तिर्जयति ते गौरी शुम्भकैरवकौमुदी ॥४११॥
व्याजृम्भि वाहशार्दूलदंष्ट्रांशुविशमण्डलम् ।
अम्बिके जयति स्मेरं पादाम्बुजयुगे तव ॥४१२॥
श्रुत्वेति पार्वती तुष्टा शिरःसंघट्टने तयोः ।
द्राग्जीवितुं व्यादिदेश भक्तिः कल्पलतेव यत् ॥४१३॥
भर्तुर्भ्रातुश्च सा शीर्षयोजने संभ्रमाकुला ।
दैवाद्विनिमयं चक्रे मुग्धा तत्र शरीरयोः ॥४१४॥
भ्रातरं भर्तृवदनं भर्तारं चाग्रजाननम् ।
ततस्तावुत्थितौ दृष्ट्वा सा संदेहाकुलाभवत् ॥४१५॥
कथयित्वेति वेतालः पृष्टवानुर्वरापतिम् ।
भर्तारं सेव्यतां बाला कं ताभ्यां सा सुलोचना ॥४१६॥
श्रुत्वेति राजा प्रोवाच यस्या भर्तृमुखः पतिः ।
शिरः सर्वेन्द्रियाधारं सकलं हि कलेवरम् ॥४१७॥
इति मौनपरित्यागाद्राज्ञः क्षणमलक्षितः ।
वेतालो वृक्षमभ्येत्य तथैवोल्लम्बितः स्थितः ॥४१८॥
इति सप्तमो वेतालः ॥९॥
N/A
References : N/A
Last Updated : October 23, 2017
TOP