संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| एकादशो वेतालः द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका एकादशो वेतालः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत एकादशो वेतालः Translation - भाषांतर ततः स्कन्धस्थितः प्राह वेतालः प्रहसन्मुहुः । अहो राजन्निरुद्वेगो व्यवसायस्तवायतः ॥५५३॥ राजा धरम्ध्वजो नाम बभूवोज्जयिनीपतिः । तिस्रस्तस्याभवन्भार्यास्तरुण्यः कान्तिभूषणाः ॥५५४॥ इन्दुलेखाभिधानैका कान्ता तारावली परा । अन्या मृगाङ्कवत्याख्या चेत्युन्नतकुचोद्धताः ॥५५५॥ कदाचिद्दक्षिणमरुत्तरङ्गितलतावने । वसन्ते संततोत्फुल्लचूतचम्पककेसरे ॥५५६॥काले केसरिणि स्मेरसिन्दुवारसटोद्भटे । मानिनीमानमातङ्गदारणे कलिकानखे ॥५५७॥ शर्वरीकबरीपाशत्विषि षट्पदमण्डले । दिक्शु कालागरुस्यन्दपत्रभङ्गतुलास्थिते ॥५५८॥ सेव्यतां ललनाभोगः पीयतां पातलं मधु । न ह्यनन्तो वसन्तोऽयं वदतीवेति कोकिले ॥५५९॥ राजा चूतरजःपुञ्जपिञ्जरे वल्लभासखः । विजहार निजोद्याने विराजितमधूत्सवः ॥५६०॥ ( अथ तत्रेन्दुलेखायाः केलिलोलदिशा दिशः । इन्दीवरदलोदारा बभूवुर्नन्दनोत्सवे ) ॥५६१॥ अत्रान्तरे मृगदृशस्तस्या भ्रमणविभ्रमात् । कर्णोत्पलेन पतता क्शिप्रमूरुरभज्यत ॥५६२॥ निजमन्तःपुरं नीत्वा दासीभिः कथमप्यसौ । तस्थौ स्फतिकपर्यङ्के मूर्च्चामोहनिमीलिता ॥५६३॥ ततस्तिमिरमायूरतालव्रुन्तसमाहृते । जगद्गृहे गृहपतौ गते दीप इवाखिले ॥५६४॥ सीत्काराचार्यतां याते निशीथे हरिणीदृशाम् । संकुचत्पद्मकोशाग्रबद्धभृङ्गरवैरिव ॥५६५॥ उदिते व्योमनलिनीराजहंसे सितत्विषि ।कान्तास्मितामृतासक्त इवालोके विलासिनि ॥५६६॥ रजनीराजतनयाकन्दुकेनेन्दुना मुहुः । यामिनीकामिनीहारैः करैरापूरितेऽम्बरे ॥५६७॥ उत्सवेन विलासस्य विभ्रमेण मदश्रियः । जीवितेन मनोजस्य शशिना भूषिते मधौ ॥५६८॥ आखण्डलद्विपाखण्डदन्तदण्डोरुडम्बरैः । रश्मिखण्डैः शशाङ्कस्य मण्डिते क्षितिमण्डले ॥५६९॥ तारावलीसखो राजा सौधे लीलारतालसः । कर्पूरशुभ्रः सुष्वाप द्वितीय इव चन्द्रमाः ॥५७०॥ मधुमत्ता रतिक्लान्ततनुवल्ली श्रमाम्बुभिः । संमृष्टतिलका क्षिप्रं देवी निद्रां समाययौ ॥५७१॥ तस्याः शीताभिलाषिण्यास्तत्र गात्रे निरम्बरे । पतितैश्चन्द्रकिरणैरुत्तस्थौ स्फोटकावली ॥५७२॥ ततो भुजगदष्टेव प्लुष्टेव शिखिनोत्थिता । ययावाश्वासिता राज्ञा कदलीशयनं शनैः ॥५७३॥ मृगाङ्कवत्यथाहूता रतये भूभुजा निशि । समाययौ विभ्रमभूः क्कणन्नूपुरमेखला ॥५७४॥ निःशब्दजनसंचारे कुतोऽपि मुसलध्वनिम् । श्रुत्वा तदा जातकिणौ धुन्वाना करपल्लवौ ॥५७५॥ दष्टा इवैत्य मधुपैरुत्फुल्लकमलाशया । हा हतास्मीति चुक्रोश तारसीत्कारशालिनी ॥५७६॥ श्रीखण्डरससंसिक्तकरामाशु स भूपतिः । परिसान्त्व्य क्षपां क्षिप्रं क्षीणां वीक्ष्य समुत्थितः ॥५७७॥ कथयित्वेति वेतालः पप्रच्छ वसुधाधिपम् । सुकुमारतरा राजन्का तासां कथ्यतामिति ॥५७८॥ नृपोऽवदन्मृदुतनुः सुकुमारतरैव सा । यस्या मुसलशब्देन जातौ पाणी किणाङ्कितौ ॥५७९॥ इति श्रुत्वैव वेतालः सहसादर्शनं गतः । वृक्षाग्रात्पुनरादाय ययौ राजा महाजवः ॥५८०॥ इत्येकादशो वेतालः ॥१३॥ N/A References : N/A Last Updated : October 23, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP