उत्तरभागः - अध्यायः ५

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


श्रीगणेशाय नमः ।
अथ श्रीललितोपाख्यानं प्रारभ्यते ।
चतुर्भुजे चन्द्रकलावतंसे कुचोन्नते कुङ्कुमरागशोणे ।
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाणहस्ते नमस्ते जगदेकमातः ॥१॥

अस्तु नः श्रेयसे नित्यं वस्तु वामाङ्गसुन्दरम् ।
यतस्तृतीयो विदुषां तृतीयस्तु परं महः ॥२॥

अगस्त्यो नाम देवर्षिर्वेदवेदाङ्गपारगः ।
सर्वसिद्धान्तसारज्ञो ब्रह्मानन्दरसात्मकः ॥३॥

चचाराद्भुतहेतूनि तीर्थान्यायतनानि च ।
शैलारण्यापगामुख्यान्सर्वाञ्जनपदानपि ॥४॥

तेषु तेष्वखिलाञ्जन्तूनज्ञानतिमिरावृतान् ।
शिश्नोदरपरान्दृष्ट्वा चिन्तयामास तान्प्रति ॥५॥

तस्य चिन्तयमानस्य चरतो वसुधामिमाम् ।
प्राप्तमासीन्महापुण्यं काञ्चीनगरमुत्तमम् ॥६॥

तत्र वारणशैलेनद्रमेकाम्रनिलयं शिवम् ।
कामाक्षीं करिदोषध्नीमपूजयदथात्मवान् ॥७॥

लोकहेतोर्दयार्द्रस्य धीमतश्चिन्तनो मुहुः ।
चिरकालेन तपसा तोषितोऽभूज्जनार्दनः ॥८॥

हयग्रीवां तनुं कृत्वा साक्षाच्चिन्मात्रविग्रहाम् ।
शङ्खचक्राक्षवलयपुस्तकोज्ज्वलबाहुकाम् ॥९॥

पूरयित्रीं जगत्कृत्स्नं प्रभया देहजातया ।
प्रादुर्बभूव पुरतो मुनेरमिततेजसा ॥१०॥

तं दृष्ट्वानन्दभरितः प्रणम्य च मुहुर्मुहुः ।
विनयावनतो भूत्वा सन्तुष्टाव जगत्पतिम् ॥११॥

अथोवाच जगन्नाथस्तुष्टोऽस्मि तपसा तव ।
वरं वरय भद्रं ते भविता भूसुरोत्तमः ॥१२॥

इति पृष्टो भगवता प्रोवाच मुनिसत्तमः ।
यदि तुष्टोऽसि भगवन्निमे पामरजन्तवः ॥१३॥

केनोपायेन मुक्ताः स्युरेतन्मे वक्तुमर्हसि ।
इति पृष्टो द्विजेनाथ देवदेवो जनार्दनः ॥१४॥

एष एव पुरा प्रश्नः शिवेन चरितो मम ।
अयमेव कृतः प्रश्नो ब्रह्मणा तु ततः परम् ॥१५॥

कृतो दुर्वाससा पश्चाद्भवता तु ततः परम् ॥१६॥

भवद्भिः सर्वभूतानां गुरुभूतैर्महात्मभिः ।
ममोपदेशो लोकेषु प्रथितोऽस्तु वरो मम ॥१७॥

अहमादिर्हि भूतानामादिकर्ता स्वयं प्रभुः ।
सृष्टिस्थितिलयानां तु सर्वेषामपि कारकः ॥१८॥

त्रिमूर्तिस्त्रिगुणातीतो गुणहीनो गुणाश्रयः ॥१९॥

इच्छाविहारो भूतात्मा प्रधानपुरुषात्मकः ।
एवं भूतस्य मे ब्रह्मंस्त्रिजगद्रूपधारिणः ॥२०॥

द्विधाकृतमभूद्रूपं प्रधान पुरुषात्मकम् ।
मम प्रधानं यद्रूपं सर्वलोकगुणात्मकम् ॥२१॥

अपरं यद्गुणातीतं परात्परतरं महत् ।
एवमेव तयोर्ज्ञात्वा मुच्यते ते उभे किमु ॥२२॥

तपोभिश्चिरकालोत्थैर्यमैश्च नियमैरपि ।
त्यागैर्दुष्कर्मनाशान्ते मुक्तिराश्वेव लभ्यते ॥२३॥

यद्रूपं यद्गुणयुतं तद्गुण्यैक्येन लभ्यते ।
अन्यत्सर्वजगद्रूपं कर्मभोगपराक्रमम् ॥२४॥

कर्मभिर्लभ्यते तच्च तत्त्यागेनापि लभ्यते ।
दुस्तरस्तु तयोस्त्यागः सकलैरपि तापस ॥२५॥

अनपायं च सुगमं सदसत्कर्मगोचरम् ॥२६॥

आत्मस्थेन गुणेनैव सता चाप्यसतापिवा ।
आत्मैक्येनैव यज्ज्ञानं सर्वसिद्धिग्रदायकम् ॥२७॥

वर्णत्रयविहीनानां पापिष्ठानां नृणामपि ।
यद्रूपध्यानमात्रेण दुष्कृतं सुकृतायते ॥२८॥

येर्ऽचयन्ति परां शक्तिं विधिनाविधिनापि वा ।
न ते संसारिणो नूनं मुक्ता एव न संशयः ॥२९॥

शिवो वा यां समाराध्य ध्यानयोगबलेन च ।
ईश्वरः सर्वसिद्धानामर्द्धनारीश्वरोऽभवत् ॥३०॥

अन्येऽब्जप्रमुखा देवाः सिद्धास्तद्ध्यानवैभवात् ।
तस्मादशेषलोकानां त्रिपुराराधनं विना ॥३१॥

न स्तो भोगापवर्गौं तु यौगपद्येन कुत्रचित् ।
तन्मनास्तद्गतप्राणस्तद्याजी तद्गतेहकः ॥३२॥

तादात्म्येनैव कर्माणि कुर्वन्मुक्तिमवाप्स्यसि ।
एतद्रहस्यमाख्यातं सर्वेषां हितकाम्यया ॥३३॥

सन्तुष्टेनैव तपसा भवतो मुनिसत्तम ।
देवाश्च मुनयः सिद्धा मानुषाश्च तथापरे ।
त्वन्मुखांभोजतोऽवाप्यसिद्धिं यान्तु परात्पराम् ॥३४॥

इति तस्य वचः श्रुत्वा हयग्रीवस्य शार्ङ्गिणः ।
प्रणिपत्य पुनर्वाक्यमुवाच मधुसूदनम् ॥३५॥

भगवन्कीदृशं रूपं भवता यत्पुरोदितम् ।
किंविहारं किंप्रभावमेतन्मे वक्तुमर्हसि ॥३६॥

हयग्रीव उवाच
एषोंऽशभूतो देवर्षे हयग्रीवो ममापरः ।
श्रोतुमिच्छसियद्यत्त्वं तत्सर्वं वक्तुमर्हति ॥३७॥

इत्यादिश्य जगन्नाथो हयग्रीवं तपोधनम् ।
पुरतः कुम्भजातस्य मुनेरन्तरधाद्धरिः ॥३८॥

ततस्तु विस्मयाविष्टो हृष्टरोमा तपोधनः ।
हयग्रीवेण मुनिना स्वाश्रमं प्रत्यपद्यत ॥३९॥

इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने अगस्त्ययात्राजनार्दनाविर्भावो नाम पञ्चमोऽध्यायः


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP