उत्तरभागः - अध्यायः १५

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


तच्छ्रुत्वा वचनं देवी मन्दस्मितमुखांबुजा ।
उवाच स ततो वाक्यं ब्रह्मविष्णुमुखान्सुरान् ॥१॥

स्वतन्त्राहं सदा देवाः स्वेच्छाचारविहारिणी ।
ममानुरूपचरितो भविता तु मम प्रियः ॥२॥

तथेति तत्प्रतिश्रुत्य सर्वेर्देवैः पितामहः ।
उवाच च महादेवीं धर्मार्थसहितं वचः ॥३॥

कालक्रीता क्रयक्रीता पितृदत्ता स्वयंयुता ।
नारीपुरुषयोरेवमुद्वाहस्तु चतुर्विधः ॥४॥

कालक्रीता तु वेश्या स्यात्क्रयक्रीता तु दासिका ।
गन्धर्वोद्वाहिता युक्ता भार्या स्यात्पितृदत्तका ॥५॥

समानधर्मिणी युक्ता भार्या पितृवशंवदा ।
यदद्वैतं परं ब्रह्म सदसद्भाववर्जितम् ॥६॥

चिदानन्दात्मकं तस्मात्प्रकृतिः समजायत ।
त्वमेवासीच्च तद्ब्रह्म प्रकृतिः सा त्वमेव हि ॥७॥

त्वमेवानादिरखिला कार्यकारणरूपिणी ।
त्वामेव हि विचिन्वन्ति योगिनः सनकादयः ॥८॥

सदसत्कर्मरूपां च व्यक्ताव्यक्तो दयात्मिकाम् ।
त्वामेव हि प्रशंसंति पञ्चब्रह्मस्वरूपिणीम् ॥९॥

त्वामेव हि सृजस्यादौ त्वमेव ह्यवसि क्षणात् ।
भजस्व पुरुषं कञ्चिल्लोकानुग्रहकाम्यया ॥१०॥

इति विज्ञापिता देवी ब्रह्मणा सकलैः सुरैः ।
स्रजमुद्यम्य हस्तेन चक्षेप गगनान्तरे ॥११॥

तयोत्सृष्टा हि सा माला शोभयन्ती नभस्थलम् ।
पपात कण्ठदेशे हि तदा कामेश्वरस्य तु ॥१२॥

ततो मुमुदिरे देवा ब्रह्मविष्णुपुरोगमाः ।
ववृषुः पुष्पवर्षाणि मन्दवातेरिता घनाः ॥१३॥

अथोवाच विधाता तु भगवन्तं जनार्दनम् ।
कर्तव्यो विधिनोद्वाहस्त्वनयोः शिवयोर्हरे ॥१४॥

मुहुर्तो देवसम्प्राप्तो जगन्मङ्गलकारकः ।
त्वद्रूपा हि महादेवी सहजश्च भवानपि ॥१५॥

दातुमर्हसि कल्याणीमस्मै कामशिवाय तु ।
तच्छ्रुत्वा वचनं तस्य देवदेवस्त्रिविक्रमः ॥१६॥

ददौ तस्यै विधानेन प्रीत्या तां शङ्कराय तु ।
देवर्षिपितृमुख्यानां सर्वेषां देवयोगिनाम् ॥१७॥

कल्याणं कारयामास शिवयोरादिकेशवः ।
उपायनानि प्रददुः सर्वे ब्रह्मादयः सुराः ॥१८॥

ददौ ब्रह्मेक्षुचापं तु वज्रसारमनश्वरम् ।
तयोः पुष्पायुधं प्रादादम्लानं हरिरव्ययम् ॥१९॥

नागपाशं ददौ ताभ्यां वरुणो यादसांपतिः ।
अङ्कुशं च ददौ ताभ्यां विश्वकर्मा विशांपतिः ॥२०॥

किरीटमग्निः प्रायच्छत्ताटङ्कौ चन्द्रभास्करौ ।
नवरत्नमयीं भूषां प्रादाद्रत्नाकरः स्वयम् ॥२१॥

ददौ सुराणामधिपो मधुपात्रमथाक्षयम् ।
चिन्तामणिमयीं मालां कुबेरः प्रददौ तदा ॥२२॥

साम्राज्यसूचकं छत्रं ददौ लक्ष्मीपतिः स्वयम् ।
गङ्गा च यमुना ताभ्यां चामरे चन्द्रभास्वरे ॥२३॥

अष्टौ च वसवो रुद्रा आदित्याश्चाश्विनौ तथा ।
दिक्पाला मरुतः साध्या गन्धर्वाः प्रमथेश्वराः ।
स्वानिस्वान्यायुधान्यस्यै प्रददुः परितोषिताः ॥२४॥

रथांश्च तुरगान्नागान्महावेगान्महाबलान् ।
उष्टानरोगानश्वांस्तान्क्षुत्तृष्णापरिवर्जितान् ।
ददुर्वज्रोपमाकारान्सायुधान्सपरिच्छदान् ॥२५॥

अथाभिषेकमातेनुः साम्राज्ये शिवयोः शिवम् ।
अथाकरोद्विमानं च नाम्ना तु कुसुमाकरम् ॥२६॥

विधाताम्लानमालं वै नित्यं चाभेद्यमायुधैः ।
दिवि भुव्यन्तरिक्षे च कामगं सुसमृद्धिमत् ॥२७॥

यद्गन्धघ्राणमात्रेण भ्रान्तिरोगक्षुर्धातयः ।
तत्क्षणादेव नश्यन्ति मनोह्लादकरं शुभम् ॥२८॥

तद्विमानमथारोप्य तावुभौ दिव्यदंपती ।
चामख्याजनच्छत्रध्वजयष्टिमनोहरम् ॥२९॥

वीणावेणुमृदङ्गादिविविधैस्तौर्यवादनैः ।
सेव्यमाना सुरगणैर्निर्गत्य नृपमन्दिरात् ॥३०॥

ययौ वीथीं विहारेशा शोभयन्ती निजौजसा ।
प्रतिहर्म्याग्रसंस्थाभिरप्सरोभिः सहस्रशः ॥३१॥

सलाजाक्षतहस्ताभिः पुरन्ध्रीभिश्च वर्षिता ।
गाथाभिर्मङ्गलार्थाभिर्वीणावेण्वादिनिस्वनैः ।
तुष्यन्ती वीवीथिवीथीषु मन्दमन्दमथाययौ ॥३२॥

प्रतिगृह्याप्स रोभिस्तु कृतं नीराजनाविधिम् ।
अवरुह्य विमानग्रात्प्रविवेश महासभाम् ॥३३॥

सिंहासनमधिष्ठाय सह देवेन शंभुना ।
यद्यद्वाञ्छन्ति तत्रस्था मनसैव महाजनाः ।
सर्वज्ञा साक्षिपातेन तत्तत्कामानपूरयत् ॥३४॥

तद्दृष्ट्वा चरितं देव्या ब्रह्मा लोक पितामहः ।
कामाक्षीति तदाभिख्यां ददौ कामेश्वरीति च ॥३५॥

ववर्षाश्चर्यमेघोऽपि पुरे तस्मिंस्तदाज्ञया ।
महार्हाणि च वस्तूनि दिव्यान्याभरणानि च ॥३६॥

चिन्तामणिः कल्पवृक्षः कमला कामधेनवः ।
प्रतिवेश्म ततस्तस्थुः पुरो देव्याजयाय ते ॥३७॥

तां सेवैकरसाकारां विमुक्तान्यक्रियागुणाः ।
सर्वकामार्थसंयुक्ता हृष्यन्तः सार्वकालिकम् ॥३८॥

पितामहो हरिश्चैव महादेवश्च वासवः ।
अन्ये दिशामधीशास्तु सकला देवतागणाः ॥३९॥

देवर्षयो नारदाद्याः सनकाद्याश्च योगिनः ।
महर्षयश्च मन्वाद्या वशिष्ठाद्यास्तपोधनाः ॥४०॥

गन्धर्वाप्सरसो यक्षा याश्चान्या देवजातयः ।
दिवि भूम्यन्तरिक्षेषु ससंबाधं वसंति ये ॥४१॥

ते सर्वे चाप्यसंबाधं निवसंति स्म तत्पुरे ॥४२॥

एवं तद्वत्सला देवी नान्यत्रैत्यखिलाज्जनात् ।
तोषयामास सततमनुरागेण भूयसा ॥४३॥

राज्ञो महति भूर्लोके विदुषः सकलेप्सिताम् ।
राज्ञी दुदोहाभीष्टानि सर्वभूतलवासिनाम् ॥४४॥

त्रिलोकैकमहीपाले सांबिके कामशङ्करे ।
दशवर्षसहस्राणि ययुः क्षण इवापरः ॥४५॥

ततः कदा चिदागत्य नारदो भगवानृषिः ।
प्रणम्य परमां शक्तिं प्रोवाच विनयान्वितः ॥४६॥

पर ब्रह्म परं धाम पवित्रं परमैश्वरि ।
मदसद्भावसंकल्पविकल्पकलनात्मिका ॥४७॥

जगदभ्युदयार्थाय व्यक्तभावमुपागता ।
असज्जनविनाशार्था सज्जनाभ्युदयार्थिनी ।
प्रवृत्तिस्तव कल्याणि साधूनां रक्षणाय हि ॥४८॥

अयं भण्डोऽसुरो देवि बाधते जगतां त्रयम् ।
त्वयैकयैव जेतव्यो न शक्यस्त्वपरैः सुरैः ॥४९॥

त्वत्सेवैकपरा देवाश्चिरकालमिहोषिताः ।
त्वदाज्ञया गमिष्यन्ति स्वानिस्वानि पुराणि तु ॥५०॥

अमङ्गलानि शून्यानि समृद्धार्थानि संत्वतः ।
एवं विज्ञापिता देवी नारदेनाखिलेश्वरी ।
स्वस्ववासनिवासाय प्रेषयामास चामरान् ॥५१॥

ब्रह्माणं च हरिं शंभुं वासवादीन्दिशां पतीन् ।
यथार्हं पूजयित्वा तु प्रेषयामास चांबिका ॥५२॥

अपराधं ततस्त्यक्तुमपि संप्रेषिताः सुराः ।
स्वस्वांशैः शिवयोः सेवामादिपित्रोरकुर्वत ॥५३॥

एतदाख्यानमायुष्यं सर्वमङ्गलकारणम् ।
आविर्भावं महादेव्यास्तस्या राज्याभिषेचनम् ॥५४॥

यः प्रातरुत्थितो विद्वान्भक्तिश्रद्धासमन्वितः ।
जपेद्धनसमृद्धः स्यात्सुधासंमितवाग्भवेत् ॥५५॥

नाशुभं विद्यते तस्य परत्रेह च धीमतः ।
यशः प्राप्नोति विपुलं समानोत्तमतामपि ॥५६॥

अचला श्रीर्भवेतस्य श्रेयश्चैव पदेपदे ।
कदाचिन्न भयं तस्य तेजस्वी वीर्यवान्भवेत् ॥५७॥

तापत्रयविहीनश्च पुरुषार्थैश्च पूर्यते ।
त्रिसंध्यं यो जपेन्नित्यं ध्यात्वा सिंहासनेश्वरीम् ॥५८॥

षण्मासान्महतीं लक्ष्मीं प्राप्नुयाज्जापकोत्तमः ॥५९॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने वैवाहिकोत्सवो नाम पञ्चदशोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP