उत्तरभागः - अध्यायः ३१

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अगस्त्य उवाच
किमिदं श्रीपुरं नाम केन रूपेण वर्तते ।
केन वानिर्मितं पूर्व तत्सर्वं मे निवदय ॥१॥

कियत्प्रमाणं किं वर्णं कथयस्व मम प्रभो ।
त्वमेव सर्वसन्देहपङ्कशोषणभास्करः ॥२॥

हयग्रीव उवाच
यथा चक्ररथं प्राप्य पूर्वोक्तैर्लक्षणैर्युतम् ।
महायागानलोत्पन्ना ललिता परमेश्वरी ॥३॥

कृत्वा वैवाहिकीं लीलां ब्रह्माद्यैः प्रार्थिता पुनः ।
व्यजेष्ट भण्डनामानमसुरं लोककण्टकम् ॥४॥

तदा देवा महेन्द्राद्याः सन्तोषं बहु भेजिरे ।
अथ कामेश्वरस्यापि ललितायाश्च शोभनम् ।
नित्योपभोगसर्वार्थं मन्दिरं कर्तुमुत्सुकाः ॥५॥

कुमारा ललितादेव्या ब्रह्मविष्णुमहेश्वराः ।
वर्धकिं विश्वकर्माणं सुराणां शिल्पकोविदम् ॥६॥

सुराणां शिल्पनं च मयं मायाविचक्षणम् ।
आहूय कृतसत्कारानूचिरे ललिताज्ञया ॥७॥

अधिकारिपुरुषा ऊचुः
भो विश्वकर्मञ्छिल्पज्ञ भोभो मय महोदय ।
भवन्तौ सर्वशास्त्रज्ञौ घटनामार्गकोविदौ ॥८॥

संकल्पमात्रेण महाशिल्पकल्पविशारदौ ।
युवाभ्यां ललितादेव्या नित्यज्ञानमहोदधेः ॥९॥

षोडशीक्षेत्रमध्येषु तत्क्षेत्रसमसंख्यया ।
कर्तव्या श्रीनगर्यो हि नानारत्नैरलङ्कृताः ॥१०॥

यत्र षोडशधा भिन्ना ललिता परमेश्वरी ।
विश्वत्राणाय सततं निवासं रचयिष्यति ॥११॥

अस्माकं हि प्रियमिदं मरुतामपिच प्रियम् ।
सर्वलोकप्रियं चैतत्तन्नाम्नैव विरच्यताम् ॥१२॥

इति कारणदेवानां वचनं सुनिशम्य तौ ।
विश्वकर्ममयौ नत्वा व्यभाषेतां तथास्त्विति ॥१३॥

पुनर्नत्वा पृष्टवन्तौ तौ तान्कारण पूरुषान् ।
केषु क्षेत्रेषु कर्तव्याः श्रीनगर्यो महोदयाः ॥१४॥

ब्रह्माद्याः परिपृष्टास्ते प्रोचुस्तौ शिल्पिनौ पुनः ।
क्षेत्राणां प्रविभागं तु कल्पयन्तौ यथोचितम् ॥१५॥

कारणपुरुषा ऊचुः
प्रथमं मेरुपृष्ठे तु निषधे च महीधरे ।
हेमकूटे हिमगिरौ पञ्चमे गन्धमादने ॥१६॥

नीले मेषे च शृङ्गारे महेन्द्रे च महागिरौ ।
क्षेत्राणि हि नवैतानि भौमानि विदितान्यथ ॥१७॥

औदकानि तु सप्तैव प्रोक्तान्यखिल सिन्धुषु ।
लवणोऽब्धीक्षुसाराब्धिः सुराब्धिर्घृतसागरः ॥१८॥

दधिसिन्धुः क्षीरसिन्धुर्जलसिन्धुश्च सप्तमः ।
पूर्वोक्ता नव शैलेन्द्राः पश्चात्सप्त च सिन्धवः ॥१९॥

आत्दृत्य षोडश क्षेत्राण्यंबाश्रीपुरकॢप्तये ।
येषु दिव्यानि वेश्मानि ललिताया महौजसः ।
सृजतं दिव्यघटनापण्डितौ शिल्पिनौ युवाम् ॥२०॥

येषु क्षेत्रेषु कॢप्तानि घ्नन्त्या देव्या महासुरान् ।
नामानि नित्यानाम्नैव प्रथितानि न संशयः ॥२१॥

सा हि नित्यास्वरूपेण कालव्याप्तिकरी परा ।
सर्वं कलयते देवी कलनाङ्कतया जगत् ॥२२॥

नित्यानाच महाराज्ञी नित्या यत्र न तद्भिदा ।
अतस्तदीयनाम्ना तु सनामा प्रथिता पुरा ॥२३॥

कामेश्वरीपुरी चैव भगमालापुरी तथा ।
नित्यक्लिन्नापुरीत्यादिनामानि प्रथितान्यलम् ॥२४॥

अतो नामानि वर्णेन योग्ये पुण्यतमे दिने ।
महाशिल्पप्रकारेण पुरीं रचयतां शुभाम् ॥२५॥

इति कारणकृत्येन्द्रैर्ब्रह्मविष्णुमहेश्वरैः ।
प्रोक्तौ तौ श्रीपुरीस्थेषु तेषु क्षेत्रेषु चक्रतुः ॥२६॥

अथ श्रीपुरविस्तारं पुराधिष्ठातृदेवताः ।
कथयाम्यहमाधार्य लोपामुद्रापते शृणु ॥२७॥

यो मेरुरखिलाधारस्तुङ्गश्चानन्तयोजनः ।
चतुर्दशजगच्चक्रसंप्रोतनिजविग्रहः ॥२८॥

तस्य चत्वारि शृङ्गाणि शक्रनैरृतवायुषु ।
मध्यस्थलेषु जातानि प्रोच्छ्रायस्तेषु कथ्यते ॥२९॥

पूर्वोक्तशृङ्गत्रितयं शतयोजनमुन्नतम् ।
शतयोजनविस्तारं तेषु लोकास्त्रयो मताः ॥३०॥

ब्रह्मलोको विष्णुलोकः शिवलोकस्तथैव च ।
एतेषां गृहविन्यासान्वक्ष्याम्यवसरान्तरे ॥३१॥

मध्ये स्थितस्य शृङ्गस्य विस्तारं चोच्छ्रयं शृणु ।
चतुःशतं योजनानामुच्छ्रितं विस्तृतं तथा ॥३२॥

तत्रैव शृङ्गे महति शिल्पिभ्यां श्रीपुरं कृतम् ।
चतुःशतं योजनानां विस्तृत कुम्भसंभव ॥३३॥

तत्रायं प्रविभागस्ते प्रविविच्य प्रदर्श्यते ।
प्राकारः प्रथमः प्रोक्तः कालायसविनिर्मितः ॥३४॥

षट्दशाधिकसाहस्रयोजनायतवेष्टनः ।
चतुर्दिक्षु द्वार्युतश्च चतुर्योजनमुच्छ्रितः ॥३५॥

शालमूलपरीणाहो योजनायुतमब्धिप ।
शालाग्रस्य तु गव्यूतेर्नद्धवातायनं पृथक् ॥३६॥

शालद्वारस्य चौन्नत्यमेकयोजनमाश्रितम् ।
द्वारेद्वारे कपाटे द्वे गव्यूत्यर्धप्रविस्तरे ॥३७॥

एकयोजनमुन्नद्धे कालायस विनिर्मिते ।
उभयोरर्गला चेत्थमर्धक्रोशसमायता ॥३८॥

एवं चतुर्षु द्वारेषु सदृशं परिकीर्तितम् ।
गोपुरस्य तु संस्थानं कथये कुंभसंभव ॥३९॥

पूर्वोक्तस्य तु शालस्य मूले योजनसंमिते ।
पार्श्वद्वये योजने द्वे द्वे समादाय निर्मिते ॥४०॥

विस्तारमपि तावन्तं संप्राप्तं द्वारगर्भितम् ।
पार्श्वद्वयं योजने द्वे मध्ये शालस्य योजनम् ॥४१॥

मेलयित्वा पञ्च मुने योजनानि प्रमाणतः ।
पार्श्वद्वयेन सार्धेन क्रोशयुग्मेन संयुतम् ॥४२॥

मेलयित्वा पञ्चसंख्यायोजनान्यायतस्तथा ।
एवं प्राकारतस्तत्र गोपुरं रचितं मुने ॥४३॥

तस्माद्गोपुरमूलस्य वेष्टो विंशतियोजनः ।
उपर्युपरि वेष्टस्य ह्रास एव प्रकीर्त्यते ॥४४॥

गोपुरस्योन्नतिः प्रोक्तापञ्चविंशतियोजना ।
योजनेयोजने द्वारं सकपाटं मनोहरम् ॥४५॥

भूमिकाश्चापि तावन्त्यो यथोर्ध्वं ह्राससंयुताः ।
गोपुराग्रस्य निस्तारो योजनं हि समाश्रितः ॥४६॥

आयामोऽपि च तावान्वै तत्र त्रिमुकुटं स्मृतम् ।
मुकुटस्य तु विस्तारः क्रोशमानो घटोद्भव ॥४७॥

क्रोशद्वयं समुन्नद्धं ह्रासं गोपुरवन्मुने ।
मुकुटस्यान्तरे क्षोणी क्रोशार्धेन च संमिता ॥४८॥

मुकुटं पश्चिमे प्राच्यां दक्षिणे द्वारगोपुरे ।
दक्षोत्तरस्तु मुकुटाः पश्चिमद्वारगोपुरे ॥४९॥

दक्षिणद्वारवत्प्रोक्ता उत्तरद्वाःकिरीटिकाः ।
पश्चिमद्वारवत्पूर्वद्वारे मुकुटकल्पना ॥५०॥

कालायसाख्यशालस्यान्तरे मारुतयोजने ।
अन्तरे कांस्यशालस्य पूर्ववद्गोपुरोऽन्वितः ॥५१॥

शालमूलप्रमाणं च पूर्ववत्परिकीर्तितम् ।
कांस्यशालोऽपि पूर्वादिदिक्षु द्वारसमन्विन्तः ॥५२॥

द्वारेद्वारे गोपुराणि पर्वलक्षणभाञ्जि च ।
कालायसस्य कांस्यस्य योंऽतर्देशः समन्ततः ॥५३॥

नानावृक्षमहोद्यानं तत्प्रोक्तं कुम्भसंभव ।
उद्भिज्जाद्यं यावदस्ति तत्सर्वं तत्र वर्तते ॥५४॥

परंसहस्रास्तरवः सदापुष्पाः सदाफलाः ।
सदापल्लवशोभाढ्याः सदा सौरभसंकुलाः ॥५५॥

चूताः कङ्कोलका लोध्रा बकुलाः कर्णिकारकाः ।
शिंशपाश्च शिरीषाश्च देवदारुनमेरवः ॥५६॥

पुन्नागा नागभद्राश्च मुचुकुन्दाश्च कट्फलाः ।
एलालवङ्गास्तक्कोलास्तथा कर्पूरशाखिनः ॥५७॥

पीलवः काकतुण्ड्यश्च शालकाश्चासनास्तथा ।
काञ्चनाराश्च लकुचाः पनसा हिङ्गुलास्तथा ॥५८॥

पाटलाश्च फलिन्यश्च जटिल्यो जघनेफलाः ।
गणिकाश्च कुरण्टाश्च बन्धुजीवाश्च दाडिमाः ॥५९॥

अश्वकर्णा हस्तिकर्णाश्चांपेयाः कनकद्रुमाः ।
यूथिकास्तालपर्ण्यश्च तुलस्यश्च सदाफलाः ॥६०॥

तालास्तमालहिन्तालखर्जूराः शरबर्बुराः ।
इक्षवः क्षीरिणश्चैव श्लेष्मान्तकविभीतकाः ॥६१॥

हरीत्क्यस्त्ववाक्पुष्प्यो घोण्टाल्यः स्वर्गपुष्पिकाः ।
भल्लातकाश्च खदिराः शाखोटाश्चन्दनद्रुमाः ॥६२॥

कालागुरुद्रुमाः कालस्कन्धाश्चिञ्चा वदास्तथा ।
उदुंबरार्जुनाश्वत्थाः शमीवृक्षा ध्रुवाद्रुमाः ॥६३॥

रुचकाः कुटजाः सप्तपर्णाश्च कृतमालकाः ।
कपित्थास्तिन्तिणी चैवेत्येवमाध्याः सहस्रशः ॥६४॥

नानाऋतुसमाविष्टा देव्याः शृङ्गारहेतवः ।
नानावृक्षमहोत्सेधा वर्तन्ते वरशाखिनः ॥६५॥

कांस्यशालस्यान्तरोले सप्तयोजनदूरतः ।
चतुरस्रस्ताम्रशालः सिंधुयोजनमुन्नतः ॥६६॥

अनयोरन्तरक्षोणी प्रोक्ता कल्पकवाटिका ।
कर्पूरगन्धिभिश्चारुरत्नबीजसमन्वितैः ॥६७॥

काञ्चनत्वक्सुरुचिरैः फलैस्तैः फलिता द्रुमाः ।
पीतांबराणि दिव्यानि प्रवालान्येव शाखिषु ॥६८॥

अमृतं स्यान्मधुरसः पुष्पाणि च विभूषणम् ।
ईदृशा वहवस्तत्र कल्पवृक्षाः प्रकीर्तिताः ॥६९॥

एषा कक्षा द्वितीया स्यान्कल्पवापीति नामतः ।
ताम्रशालस्यान्तराले नागशालः प्रकीर्तिताः ॥७०॥

अनयोरुभयोस्तिर्यगदेशः स्यात्सप्तयोजनः ।
तत्र संतानवाटी स्यान्कल्पवापीसमाकृतिः ॥७१॥

तयोर्मध्ये मही प्रोक्ता हरिचन्दनवाटिका ।
कल्पवाटीसमाकारा फलपुष्पसमाकुला ॥७२॥

एषु सर्वेषु शालेषु पूर्ववद्द्वारकल्पनम् ।
पूर्ववद्गोपुराणां च मुकुटानां च कल्पनम् ॥७३॥

गोपुरद्वारकॢप्तं च द्वारे द्वारे च संमितिः ।
आरकूटस्यान्तराले सप्तयोजनदूरतः ॥७४॥

पञ्चलोहमयः शालः पूर्वशालसमाकृतिः ।
तयोर्मध्ये मही प्रोक्ता मन्दारद्रुमवाटिका ॥७५॥

पञ्चलोहस्यान्तराले सप्तयोजनदूरतः ।
रौप्यशालस्तु संप्रोक्तः पूर्वोक्तैर्लक्षणैर्युतः ॥७६॥

तयोर्मध्यमही प्रोक्ता पारिजातद्रुवाटिका ।
दिव्यामोदसुसंपूर्णा फलपुष्पभरोज्ज्वला ॥७७॥

रौप्यशालस्यान्तराले सप्तयोजनविस्तरः ।
हेमशालः प्रकथितः पूर्ववद्द्वारशोभितः ॥७८॥

तयोर्मध्ये महीप्रोक्ता कदम्बतरुवाटिका ।
तत्र दिव्या नीपवृक्षा योजनद्वयमुन्नताः ॥७९॥

सदैव मदिरास्पन्दा मेदुरप्रसवोज्ज्वलाः ।
येभ्यः कादंबरी नाम योगिनी भोगदायिनी ॥८०॥

विशिष्टा मदिरोद्याना मन्त्रिण्याः सततं प्रिया ।
ते नीपवृक्षाः सुच्छायाः पत्रलाः पल्लवाकुलाः ।
आमोदलोलभृङ्गालीझङ्कारैः पूरितोदराः ॥८१॥

तत्रैव मन्त्रिणीनाथाया मन्दिरं सुमनोहरम् ।
कदंबवनवाट्यास्तु विदिक्षुज्वलनादितः ॥८२॥

चत्वारि मन्दिराण्युच्चैः कल्पितान्यादिशिल्पिना ।
एकैकस्य तु गे७ य विस्तारः पञ्चयोजनः ॥८३॥

पञ्चयोजनमायामः सप्तावरणतः स्थितिः ।
एवमन्यविदिक्षु स्युस्सर्वत्र प्रियकद्रुमाः ।
निवासनगरी सेयं श्यामायाः परिकीर्तिता ॥८४॥

सेनार्थं नगरी त्वन्या महापद्माटवीस्थले ।
यदत्रैव गृह तस्या बहुयोजनदूरतः ॥८५॥

श्रीदेव्या नित्यसेवा तु मत्रिण्या न घटिष्यते ।
अतश्चितामणिगृहोपान्तेऽपि भवनं कृतम् ।
तस्याः श्रीमन्त्रनाथायाः सुरत्वष्ट्रा मयेन च ॥८६॥

श्रीपुरे मन्त्रेणी देव्या मन्दिरस्य गुणान्बहुन् ।
वर्णयिष्यति को नाम यो द्विजिह्वासहस्रवान् ॥८७॥

कादंबरीमदाताम्रनयनाः कलवीणया ।
गायन्त्यस्तत्र खेलन्ति मान्यमातङ्गकन्यकाः ॥८८॥

अगस्त्य उवाच
मातङ्गो नाम कःप्रोक्तस्तस्य कन्याः कथं च ताः ।
सेवन्ते मन्त्रिणीनाथां सदा मधुमदालसाः ॥८९॥

हयग्रीव उवाच
मतङ्गो नाम तपसामेकराशिस्तपोधनः ।
महाप्रभावसंपन्नो जगत्सर्जनलंपटः ॥९०॥

तपः शक्त्यात्तधिया च सर्वत्राज्ञाप्रवर्त्तकः ।
तस्य पुत्रस्तु मातङ्गो मुद्रिणीं मन्त्रिनायिकाम् ॥९१॥
.
घोरैस्तपोभिरत्यर्थं पूरयामास धीरधीः ।
मतङ्गमुनिपुत्रेण सुचिरं समुपासिता ॥९२॥

मन्त्रिणी कृतसान्निध्या वृणीष्व वरमित्यशात् ।
सोऽपिसर्वमुनिश्रेष्ठो मातङ्गस्तपसां निधिः ।
उवाच तां पुरो दत्तसान्निध्यां श्यामलांबिकाम् ॥९३॥

मातङ्गमहामुनिरुवाच
देवी त्वत्स्मृतिमात्रेण सर्वाश्च मम सिद्धयः ।
जाता एवाणिमाद्यास्ताः सर्वाश्चान्या विभूतयः ॥९४॥

प्रापणीयन्न मे किञ्चिदस्त्यंबभुवनत्रये ।
सर्वतः प्राप्तकालस्य भवत्याश्चरितस्मृतेः ॥९५॥

अथापि तव सांनिध्यमिदं नो निष्फलं भवेत् ।
एवं परं प्रार्थयेऽहं तं वरं पूरयांबिके ॥९६॥

पूर्वं हिमवता सार्थं सौहार्दं परिहासवान् ।
क्रीडामत्तेन चावाच्यैस्तत्र तेन प्रगल्भितम् ॥९७॥

अहङ्गौरीगुरुरिति श्लाघामात्मनि तेनिवान् ।
तद्वाक्यं मम नैवाभूद्यतस्तत्राधिको गुणः ॥९८॥

उभयोर्गुणसाम्ये तु मित्रयोरधिके गुणे ।
एकस्य कारणाज्जाते तत्रान्यस्य स्पृहा भवेत् ॥९९॥

गौरीगुरुत्वश्लाघार्थं प्राप्तकामोऽप्यहं तपः ।
कृतवान्मन्त्रिणीनाथे तत्त्वंमत्तनया भव ॥१००॥

यतो मन्नामविख्याता भविष्यसि न संशयः ।
इत्युक्तं वचनं श्रुत्वा मातङ्गस्य महामुनेः ।
तथास्त्विति तिरोघत्स च प्रीतोऽभवन्मुनिः ॥१०१॥

मातङ्गस्य महर्षेस्तु तस्य स्वप्ने तदा मुदा ।
तापिच्छमञ्जरीमेकां ददौ कर्णावतंसतः ॥१०२॥

तत्स्वप्नस्य प्रभावेण मातङ्गस्य सधर्मिणी ।
नाम्ना सिद्धिमती गर्भे लघुश्यामामधारयत् ॥१०३॥

तत एव समुत्पन्ना मातङ्गी तेन कीर्तिताः ।
लघुश्यामेति सा प्रोक्त श्यामा यन्मूलकन्दभूः ॥१०४॥

मातङ्गकन्यका हृद्याः कोटीनामपि कोटिशः ।
लघुश्यामा महाश्यामामातङ्गी वृन्दसंयुताः ।
अङ्गशक्तित्वमापन्नाः सेवन्ते प्रियकप्रियाम् ॥१०५॥

इति मातङ्गकन्यानामुत्पत्तिः कुंभसंभव ।
कथिताः सप्तकक्षाश्च शाला लोहादिनिर्मिताः ॥१०६॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे ललितोपाख्याने हयग्रीवागस्त्यसंवादे सप्तकक्ष्या मतङ्गकन्याप्रादुर्भावो नामैकत्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP